मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 79

श्रीमद्भागवत दशम स्कन्ध अध्याय 79 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.79.1

ततः पर्वण्य् उपावृत्ते प्रचण्डः पांशुवर्षणः । भीमो वायुर् अभूद् राजन् पूयगन्धस् तु सर्वशः ॥ 1 ॥

श्लोक 10.79.2

ततो ऽमेध्यमयं वर्षं बल्वलेन विनिर्मितम् । अभवद् यज्ञशालायां सो ऽन्वदृश्यत शूलधृक् ॥ 2 ॥

श्लोक 10.79.3

तं विलोक्य बृहत्कायं भिन्नाञ्जनचयोपमम् । तप्तताम्रशिखाश्मश्रुं दंष्ट्रोग्रभ्रुकुटीमुखम् ॥ 3 ॥

श्लोक 10.79.4

सस्मार मूषलं रामः परसैन्यविदारणम् । हलं च दैत्यदमनं ते तूर्णम् उपतस्थतुः ॥ 4 ॥

श्लोक 10.79.5

तम् आकृष्य हलाग्रेण बल्वलं गगनेचरम् । मूषलेनाहनत् क्रुद्धो मूर्ध्नि ब्रह्मद्रुहं बलः ॥ 5 ॥

श्लोक 10.79.6

सो ऽपतद् भुवि निर्भिन्नललाटो ऽसृक् समुत्सृजन् । मुञ्चन्न् आर्तस्वरं शैलो यथा वज्रहतो ऽरुणः ॥ 6 ॥

श्लोक 10.79.7

संस्तुत्य मुनयो रामं प्रयुज्यावितथाशिषः । अभ्यषिञ्चन् महाभागा वृत्रघ्नं विबुधा यथा ॥ 7 ॥

श्लोक 10.79.8

वैजयन्तीं ददुर् मालां श्रीधामाम्लानपङ्कजां । रामाय वाससी दिव्ये दिव्यान्य् आभरणानि च ॥ 8 ॥

श्लोक 10.79.9

अथ तैर् अभ्यनुज्ञातः कौशिकीम् एत्य ब्राह्मणैः । स्नात्वा सरोवरम् अगाद् यतः सरयूर् आस्रवत् ॥ 9 ॥

श्लोक 10.79.10

अनुस्रोतेन सरयूं प्रयागम् उपगम्य सः । स्नात्वा सन्तर्प्य देवादीन् जगाम पुलहाश्रमम् ॥ 10 ॥

श्लोक 10.79.11

गोमतीं गण्डकीं स्नात्वा विपाशां शोण आप्लुतः । गयां गत्वा पितॄन् इष्ट्वा गङ्गासागरसङ्गमे ॥ 11 ॥

श्लोक 10.79.12

उपस्पृश्य महेन्द्राद्रौ रामं दृष्ट्वाभिवाद्य च । सप्तगोदावरीं वेणां पम्पां भीमरथीं ततः ॥ 12 ॥

श्लोक 10.79.13

स्कन्दं दृष्ट्वा ययौ रामः श्रीशैलं गिरिशालयम् । द्रविडेषु महापुण्यं दृष्ट्वाद्रिं वेङ्कटं प्रभुः ॥ 13 ॥

श्लोक 10.79.14

कामकोष्णीं पुरीं काञ्चीं कावेरीं च सरिद्वराम् । श्रीरन्गाख्यं महापुण्यं यत्र सन्निहितो हरिः ॥ 14 ॥

श्लोक 10.79.15

ऋषभाद्रिं हरेः क्षेत्रं दक्षिणां मथुरां तथा । सामुद्रं सेतुम् अगमत् महापातकनाशनम् ॥ 15 ॥

श्लोक 10.79.16

तत्रायुतम् अदाद् धेनूर् ब्राह्मणेभ्यो हलायुधः । कृतमालां ताम्रपर्णीं मलयं च कुलाचलम् ॥ 16 ॥

श्लोक 10.79.17

तत्रागस्त्यं समासीनं नमस्कृत्याभिवाद्य च । योजितस् तेन चाशीर्भिर् अनुज्ञातो गतो ऽर्णवम् । दक्षिणं तत्र कन्याख्यां दुर्गां देवीं ददर्श सः ॥ 17 ॥

श्लोक 10.79.18

ततः फाल्गुनम् आसाद्य पञ्चाप्सरसम् उत्तमम् । विष्णुः सन्निहितो यत्र स्नात्वास्पर्शद् गवायुतम् ॥ 18 ॥

श्लोक 10.79.19

ततो ऽभिव्रज्य भगवान् केरलांस् तु त्रिगर्तकान् । गोकर्णाख्यं शिवक्षेत्रं सान्निध्यं यत्र धूर्जटेः ॥ 19 ॥

श्लोक 10.79.20

आर्यां द्वैपायनीं दृष्ट्वा शूर्पारकम् अगाद् बलः । तापीं पयोष्णीं निर्विन्ध्याम् उपस्पृश्याथ दण्डकम् ॥ 20 ॥

श्लोक 10.79.21

प्रविश्य रेवाम् अगमद् यत्र माहिष्मती पुरी । मनुतीर्थम् उपस्पृश्य प्रभासं पुनर् आगमत् ॥ 21 ॥

श्लोक 10.79.22

श्रुत्वा द्विजैः कथ्यमानं कुरुपाण्डवसंयुगे । सर्वराजन्यनिधनं भारं मेने हृतं भुवः ॥ 22 ॥

श्लोक 10.79.23

स भीमदुर्योधनयोर् गदाभ्यां युध्यतोर् मृधे । वारयिष्यन् विनशनं जगाम यदुनन्दनः ॥ 23 ॥

श्लोक 10.79.24

युधिष्ठिरस् तु तं दृष्ट्वा यमौ कृष्णार्जुनाव् अपि । अभिवाद्याभवंस् तुष्णीं किं विवक्षुर् इहागतः ॥ 24 ॥

श्लोक 10.79.25

गदापाणी उभौ दृष्ट्वा संरब्धौ विजयैषिणौ । मण्डलानि विचित्राणि चरन्ताव् इदम् अब्रवीत् ॥ 25 ॥

श्लोक 10.79.26

युवां तुल्यबलौ वीरौ हे राजन् हे वृकोदर । एकं प्राणाधिकं मन्ये उतैकं शिक्षयाधिकम् ॥ 26 ॥

श्लोक 10.79.27

तस्माद् एकतरस्येह युवयोः समवीर्ययोः । न लक्ष्यते जयो ऽन्यो वा विरमत्व् अफलो रणः ॥ 27 ॥

श्लोक 10.79.28

न तद्वाक्यं जगृहतुर् बद्धवैरौ नृपार्थवत् । अनुस्मरन्ताव् अन्योन्यं दुरुक्तं दुष्कृतानि च ॥ 28 ॥

श्लोक 10.79.29

दिष्टं तद् अनुमन्वानो रामो द्वारवतीं ययौ । उग्रसेनादिभिः प्रीतैर् ज्ञातिभिः समुपागतः ॥ 29 ॥

श्लोक 10.79.30

तं पुनर् नैमिषं प्राप्तम् ऋषयो ऽयाजयन् मुदा । क्रत्व्अङ्गं क्रतुभिः सर्वैर् निवृत्ताखिलविग्रहम् ॥ 30 ॥

श्लोक 10.79.31

तेभ्यो विशुद्धं विज्ञानं भगवान् व्यतरद् विभुः । येनैवात्मन्य् अदो विश्वम् आत्मानं विश्वगं विदुः ॥ 31 ॥

श्लोक 10.79.32

स्वपत्यावभृथस्नातो ज्ञातिबन्धुसुहृद्वृतः । रेजे स्वज्योत्स्नयेवेन्दुः सुवासाः सुष्ठ्व् अलङ्कृतः ॥ 32 ॥

श्लोक 10.79.33

ईदृग्विधान्य् असङ्ख्यानि बलस्य बलशालिनः । अनन्तस्याप्रमेयस्य मायामर्त्यस्य सन्ति हि ॥ 33 ॥

श्लोक 10.79.34

यो ऽनुस्मरेत रामस्य कर्माण्य् अद्भुतकर्मणः । सायं प्रातर् अनन्तस्य विष्णोः स दयितो भवेत् ॥ 34 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ