श्रीमद्भागवत दशम स्कन्ध अध्याय 80
श्रीमद्भागवत दशम स्कन्ध अध्याय 80 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.80.1
भगवन् यानि चान्यानि मुकुन्दस्य महात्मनः । वीर्याण्य् अनन्तवीर्यस्य श्रोतुम् इच्छामि हे प्रभो ॥ 1 ॥
श्लोक 10.80.2
को नु श्रुत्वासकृद् ब्रह्मन्न् उत्तमःश्लोकसत्कथाः । विरमेत विशेषज्ञो विषण्णः काममार्गणैः ॥ 2 ॥
श्लोक 10.80.3
सा वाग् यया तस्य गुणान् गृणीते करौ च तत्कर्मकरौ मनश् च । स्मरेद् वसन्तं स्थिरजङ्गमेषु शृणोति तत्पुण्यकथाः स कर्णः ॥ 3 ॥
श्लोक 10.80.4
शिरस् तु तस्योभयलिङ्गम् आनमेत् तद् एव यत् पश्यति तद् धि चक्षुः । अङ्गानि विष्णोर् अथ तज्जनानां पादोदकं यानि भजन्ति नित्यम् ॥ 4 ॥
श्लोक 10.80.5
विष्णुरातेन सम्पृष्टो भगवान् बादरायणिः । वासुदेवे भगवति निमग्नहृदयो ऽब्रवीत् ॥ 5 ॥
श्लोक 10.80.6
कृष्णस्यासीत् सखा कश्चिद् ब्राह्मणो ब्रह्मवित्तमः । विरक्त इन्द्रियार्थेषु प्रशान्तात्मा जितेन्द्रियः ॥ 6 ॥
श्लोक 10.80.7
यदृच्छयोपपन्नेन वर्तमानो गृहाश्रमी । तस्य भार्या कुचैलस्य क्षुत्क्षामा च तथाविधा ॥ 7 ॥
श्लोक 10.80.8
पतिव्रता पतिं प्राह म्लायता वदनेन सा । दरिद्रं सीदमाना वै वेपमानाभिगम्य च ॥ 8 ॥
श्लोक 10.80.9
ननु ब्रह्मन् भगवतः सखा साक्षाच् छ्रियः पतिः । ब्रह्मण्यश् च शरण्यश् च भगवान् सात्वतर्षभः ॥ 9 ॥
श्लोक 10.80.10
तम् उपैहि महाभाग साधूनां च परायणम् । दास्यति द्रविणं भूरि सीदते ते कुटुम्बिने ॥ 10 ॥
श्लोक 10.80.11
आस्ते ऽधुना द्वारवत्यां भोजवृष्ण्य्अन्धकेश्वरः । स्मरतः पादकमलम् आत्मानम् अपि यच्छति । किं न्व् अर्थकामान् भजतो नात्य्अभीष्टान् जगद्गुरुः ॥ 11 ॥
श्लोक 10.80.12
स एवं भार्यया विप्रो बहुशः प्रार्थितो मुहुः । अयं हि परमो लाभ उत्तमःश्लोकदर्शनम् ॥ 12 ॥
श्लोक 10.80.13
इति सञ्चिन्त्य मनसा गमनाय मतिं दधे । अप्य् अस्त्य् उपायनं किञ्चिद् गृहे कल्याणि दीयताम् ॥ 13 ॥
श्लोक 10.80.14
याचित्वा चतुरो मुष्टीन् विप्रान् पृथुकतण्डुलान् । चैलखण्डेन तान् बद्ध्वा भर्त्रे प्रादाद् उपायनम् ॥ 14 ॥
श्लोक 10.80.15
स तान् आदाय विप्राग्र्यः प्रययौ द्वारकां किल । कृष्णसन्दर्शनं मह्यं कथं स्याद् इति चिन्तयन् ॥ 15 ॥
श्लोक 10.80.16
त्रीणि गुल्मान्य् अतीयाय तिस्रः कक्षाश् च सद्विजः । विप्रो ऽगम्यान्धकवृष्णीनां गृहेष्व् अच्युतधर्मिणाम् ॥ 16 ॥
श्लोक 10.80.17
गृहं द्व्य्अष्टसहस्राणां महिषीणां हरेर् द्विजः । विवेशैकतमं श्रीमद् ब्रह्मानन्दं गतो यथा ॥ 17 ॥
श्लोक 10.80.18
तं विलोक्याच्युतो दूरात् प्रियापर्यङ्कम् आस्थितः । सहसोत्थाय चाभ्येत्य दोर्भ्यां पर्यग्रहीन् मुदा ॥ 18 ॥
श्लोक 10.80.19
सख्युः प्रियस्य विप्रर्षेर् अङ्गसङ्गातिनिर्वृतः । प्रीतो व्यमुञ्चद् अब्बिन्दून् नेत्राभ्यां पुष्करेक्षणः ॥ 19 ॥
श्लोक 10.80.20
अथोपवेश्य पर्यङ्के स्वयम् सख्युः समर्हणम् । उपहृत्यावनिज्यास्य पादौ पादावनेजनीः ॥ 20 ॥
श्लोक 10.80.21
अग्रहीच् छिरसा राजन् भगवांल् लोकपावनः । व्यलिम्पद् दिव्यगन्धेन चन्दनागुरुकुङ्कमैः ॥ 21 ॥
श्लोक 10.80.22
धूपैः सुरभिभिर् मित्रं प्रदीपावलिभिर् मुदा । अर्चित्वावेद्य ताम्बूलं गां च स्वागतम् अब्रवीत् ॥ 22 ॥
श्लोक 10.80.23
कुचैलं मलिनं क्षामं द्विजं धमनिसन्ततम् । देवी पर्यचरत् साक्षाच् चामरव्यजनेन वै ॥ 23 ॥
श्लोक 10.80.24
अन्तःपुरजनो दृष्ट्वा कृष्णेनामलकीर्तिना । विस्मितो ऽभूद् अतिप्रीत्या अवधूतं सभाजितम् ॥ 24 ॥
श्लोक 10.80.25
किम् अनेन कृतं पुण्यम् अवधूतेन भिक्षुणा । श्रिया हीनेन लोके ऽस्मिन् गर्हितेनाधमेन च ॥ 25 ॥
श्लोक 10.80.26
यो ऽसौ त्रिलोकगुरुणा श्रीनिवासेन सम्भृतः । पर्यङ्कस्थां श्रियं हित्वा परिष्वक्तो ऽग्रजो यथा ॥ 26 ॥
श्लोक 10.80.27
कथयां चक्रतुर् गाथाः पूर्वा गुरुकुले सतोः । आत्मनोर् ललिता राजन् करौ गृह्य परस्परम् ॥ 27 ॥
श्लोक 10.80.28
अपि ब्रह्मन् गुरुकुलाद् भवता लब्धदक्षिणात् । समावृत्तेन धर्मज्ञ भार्योढा सदृशी न वा ॥ 28 ॥
श्लोक 10.80.29
प्रायो गृहेषु ते चित्तम् अकामविहितं तथा । नैवातिप्रीयसे विद्वन् धनेषु विदितं हि मे ॥ 29 ॥
श्लोक 10.80.30
केचित् कुर्वन्ति कर्माणि कामैर् अहतचेतसः । त्यजन्तः प्रकृतीर् दैवीर् यथाहं लोकसङ्ग्रहम् ॥ 30 ॥
श्लोक 10.80.31
कच्चिद् गुरुकुले वासं ब्रह्मन् स्मरसि नौ यतः । द्विजो विज्ञाय विज्ञेयं तमसः पारम् अश्नुते ॥ 31 ॥
श्लोक 10.80.32
स वै सत्कर्मणां साक्षाद् द्विजातेर् इह सम्भवः । आद्यो ऽङ्ग यत्राश्रमिणां यथाहं ज्ञानदो गुरुः ॥ 32 ॥
श्लोक 10.80.33
नन्व् अर्थकोविदा ब्रह्मन् वर्णाश्रमवताम् इह । ये मया गुरुणा वाचा तरन्त्य् अञ्जो भवार्णवम् ॥ 33 ॥
श्लोक 10.80.34
नाहम् इज्याप्रजातिभ्यां तपसोपशमेन वा । तुष्येयं सर्वभूतात्मा गुरुशुश्रूषया यथा ॥ 34 ॥
श्लोक 10.80.35
अपि नः स्मर्यते ब्रह्मन् वृत्तं निवसतां गुरौ । गुरुदारैश् चोदितानाम् इन्धनानयने क्वचित् ॥ 35 ॥
श्लोक 10.80.36
प्रविष्टानां महारण्यम् अपर्तौ सुमहद् द्विज । वातवर्षम् अभूत् तीव्रं निष्ठुराः स्तनयित्नवः ॥ 36 ॥
श्लोक 10.80.37
सूर्यश् चास्तं गतस् तावत् तमसा चावृता दिशः । निम्नं कूलं जलमयं न प्राज्ञायत किञ्चन ॥ 37 ॥
श्लोक 10.80.38
वयं भृशम् तत्र महानिलाम्बुभिर् निहन्यमाना महुर् अम्बुसम्प्लवे । दिशो ऽविदन्तो ऽथ परस्परं वने गृहीतहस्ताः परिबभ्रिमातुराः ॥ 38 ॥
श्लोक 10.80.39
एतद् विदित्वा उदिते रवौ सान्दीपनिर् गुरुः । अन्वेषमाणो नः शिष्यान् आचार्यो ऽपश्यद् आतुरान् ॥ 39 ॥
श्लोक 10.80.40
अहो हे पुत्रका यूयम् अस्मद्अर्थे ऽतिदुःखिताः । आत्मा वै प्राणिनाम् प्रेष्ठस् तम् अनादृत्य मत्पराः ॥ 40 ॥
श्लोक 10.80.41
एतद् एव हि सच्छिष्यैः कर्तव्यं गुरुनिष्कृतम् । यद् वै विशुद्धभावेन सर्वार्थात्मार्पणं गुरौ ॥ 41 ॥
श्लोक 10.80.42
तुष्टो ऽहं भो द्विजश्रेष्ठाः सत्याः सन्तु मनोरथाः । छन्दांस्य् अयातयामानि भवन्त्व् इह परत्र च ॥ 42 ॥
श्लोक 10.80.43
इत्थंविधान्य् अनेकानि वसतां गुरुवेश्मनि । गुरोर् अनुग्रहेणैव पुमान् पूर्णः प्रशान्तये ॥ 43 ॥
श्लोक 10.80.44
किम् अस्माभिर् अनिर्वृत्तं देवदेव जगद्गुरो । भवता सत्यकामेन येषां वासो गुरोर् अभूत् ॥ 44 ॥
श्लोक 10.80.45
यस्य च्छन्दोमयं ब्रह्म देह आवपनं विभो । श्रेयसां तस्य गुरुषु वासो ऽत्यन्तविडम्बनम् ॥ 45 ॥