मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 81

श्रीमद्भागवत दशम स्कन्ध अध्याय 81 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.81.1

स इत्थं द्विजमुख्येन सह सङ्कथयन् हरिः । सर्वभूतमनोऽभिज्ञः स्मयमान उवाच तम् ॥ 1 ॥

श्लोक 10.81.2

ब्रह्मण्यो ब्राह्मणं कृष्णो भगवान् प्रहसन् प्रियम् । प्रेम्णा निरीक्षणेनैव प्रेक्षन् खलु सतां गतिः ॥ 2 ॥

श्लोक 10.81.3

किम् उपायनम् आनीतं ब्रह्मन् मे भवता गृहात् । अण्व् अप्य् उपाहृतं भक्तैः प्रेम्णा भुर्य् एव मे भवेत् । भूर्य् अप्य् अभक्तोपहृतं न मे तोषाय कल्पते ॥ 3 ॥

श्लोक 10.81.4

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तद् अहं भक्त्य्उपहृतम् अश्नामि प्रयतात्मनः ॥ 4 ॥

श्लोक 10.81.5

इत्य् उक्तो ऽपि द्वियस् तस्मै व्रीडितः पतये श्रियः । पृथुकप्रसृतिं राजन् न प्रायच्छद् अवाङ्मुखः ॥ 5 ॥

श्लोक 10.81.6

सर्वभूतात्मदृक् साक्षात् तस्यागमनकारणम् । विज्ङायाचिन्तयन् नायं श्रीकामो माभजत् पुरा ॥ 6 ॥

श्लोक 10.81.7

पत्न्याः पतिव्रतायास् तु सखा प्रियचिकीर्षया । प्राप्तो माम् अस्य दास्यामि सम्पदो ऽमर्त्यदुर्लभाः ॥ 7 ॥

श्लोक 10.81.8

इत्थं विचिन्त्य वसनाच् चीरबद्धान् द्विजन्मनः । स्वयं जहार किम् इदम् इति पृथुकतण्डुलान् ॥ 8 ॥

श्लोक 10.81.9

नन्व् एतद् उपनीतं मे परमप्रीणनं सखे । तर्पयन्त्य् अङ्ग मां विश्वम् एते पृथुकतण्डुलाः ॥ 9 ॥

श्लोक 10.81.10

इति मुष्टिं सकृज् जग्ध्वा द्वितीयां जग्धुम् आददे । तावच् छ्रीर् जगृहे हस्तं तत्परा परमेष्ठिनः ॥ 10 ॥

श्लोक 10.81.11

एतावतालं विश्वात्मन् सर्वसम्पत्समृद्धये । अस्मिन् लोके ऽथ वामुष्मिन् पुंसस् त्वत्तोषकारणम् ॥ 11 ॥

श्लोक 10.81.12

ब्राह्मणस् तां तु रजनीम् उषित्वाच्युतमन्दिरे । भुक्त्वा पीत्वा सुखं मेने आत्मानं स्वर्गतं यथा ॥ 12 ॥

श्लोक 10.81.13

श्वोभूते विश्वभावेन स्वसुखेनाभिवन्दितः । जगाम स्वालयं तात पथ्य् अनव्रज्य नन्दितः ॥ 13 ॥

श्लोक 10.81.14

स चालब्ध्वा धनं कृष्णान् न तु याचितवान् स्वयम् । स्वगृहान् व्रीडितो ऽगच्छन् महद्दर्शननिर्वृतः ॥ 14 ॥

श्लोक 10.81.15

अहो ब्रह्मण्यदेवस्य दृष्टा ब्रह्मण्यता मया । यद् दरिद्रतमो लक्ष्मीम् आश्लिष्टो बिभ्रतोरसि ॥ 15 ॥

श्लोक 10.81.16

क्वाहं दरिद्रः पापीयान् क्व कृष्णः श्रीनिकेतनः । ब्रह्मबन्धुर् इति स्माहं बाहुभ्यां परिरम्भितः ॥ 16 ॥

श्लोक 10.81.17

निवासितः प्रियाजुष्टे पर्यङ्के भ्रातरो यथा । महिष्या वीजितः श्रान्तो बालव्यजनहस्तया ॥ 17 ॥

श्लोक 10.81.18

शुश्रूषया परमया पादसंवाहनादिभिः । पूजितो देवदेवेन विप्रदेवेन देववत् ॥ 18 ॥

श्लोक 10.81.19

स्वर्गापवर्गयोः पुंसां रसायां भुवि सम्पदाम् । सर्वासाम् अपि सिद्धीनां मूलं तच्चरणार्चनम् ॥ 19 ॥

श्लोक 10.81.20

अधनो ऽयं धनं प्राप्य माद्यन्न् उच्चैर् न मां स्मरेत् । इति कारुणिको नूनं धनं मे ऽभूरि नाददात् ॥ 20 ॥

श्लोक 10.81.21

इति तच् चिन्तयन्न् अन्तः प्राप्तो नियगृहान्तिकम् । सूर्यानलेन्दुसङ्काशैर् विमानैः सर्वतो वृतम् ॥ 21 ॥

श्लोक 10.81.22

विचित्रोपवनोद्यानैः कूजद्द्विजकुलाकुलैः । प्रोत्फुल्लकमुदाम्भोजकह्लारोत्पलवारिभिः ॥ 22 ॥

श्लोक 10.81.23

जुष्टं स्व्अलङ्कृतैः पुम्भिः स्त्रीभिश् च हरिणाक्षिभिः । किम् इदं कस्य वा स्थानं कथं तद् इदम् इत्य् अभूत् ॥ 23 ॥

श्लोक 10.81.24

एवं मीमांसमानं तं नरा नार्यो ऽमरप्रभाः । प्रत्यगृह्णन् महाभागं गीतवाद्येन भूयसा ॥ 24 ॥

श्लोक 10.81.25

पतिम् आगतम् आकर्ण्य पत्न्य् उद्धर्षातिसम्भ्रमा । निश्चक्राम गृहात् तूर्णं रूपिणी श्रीर् इवालयात् ॥ 25 ॥

श्लोक 10.81.26

पतिव्रता पतिं दृष्ट्वा प्रेमोत्कण्ठाश्रुलोचना । मीलिताक्ष्य् अनमद् बुद्ध्या मनसा परिषस्वजे ॥ 26 ॥

श्लोक 10.81.27

पत्नीं वीक्ष्य विस्फुरन्तीं देवीं वैमानिकीम् इव । दासीनां निष्ककण्ठीनां मध्ये भान्तीं स विस्मितः ॥ 27 ॥

श्लोक 10.81.28

प्रीतः स्वयं तया युक्तः प्रविष्टो निजमन्दिरम् । मणिस्तम्भशतोपेतं महेन्द्रभवनं यथा ॥ 28 ॥

श्लोक 10.81.29

पयःफेननिभाः शय्या दान्ता रुक्मपरिच्छदाः । पर्यङ्का हेमदण्डानि चामरव्यजनानि च ॥ 29 ॥

श्लोक 10.81.30

आसनानि च हैमानि मृदूपस्तरणानि च । मुक्तादामविलम्बीनि वितानानि द्युमन्ति च ॥ 30 ॥

श्लोक 10.81.31

स्वच्छस्फटिककुड्येषु महामारकतेषु च । रत्नदीपान् भ्राजमानान् ललना रत्नसंयुताः ॥ 31 ॥

श्लोक 10.81.32

विलोक्य ब्राह्मणस् तत्र समृद्धीः सर्वसम्पदाम् । तर्कयाम् आस निर्व्यग्रः स्वसमृद्धिम् अहैतुकीम् ॥ 32 ॥

श्लोक 10.81.33

नूनं बतैतन् मम दुर्भगस्य शश्वद् दरिद्रस्य समृद्धिहेतुः । महाविभूतेर् अवलोकतो ऽन्यो नैवोपपद्येत यदूत्तमस्य ॥ 33 ॥

श्लोक 10.81.34

नन्व् अब्रुवाणो दिशते समक्षं याचिष्णवे भूर्य् अपि भूरिभोजः । पर्जन्यवत् तत् स्वयम् ईक्षमाणो दाशार्हकाणाम् ऋषभः सखा मे ॥ 34 ॥

श्लोक 10.81.35

किञ्चित् करोत्य् उर्व् अपि यत् स्वदत्तं सुहृत्कृतं फल्ग्व् अपि भूरिकारी &अम्प्; मयोपणीतं पृथुकैकमुष्टिं प्रत्यग्रहीत् प्रीतियुतो महात्मा ॥ 35 ॥

श्लोक 10.81.36

तस्यैव मे सौहृदसख्यमैत्रीदास्यं पुनर् जन्मनि जन्मनि स्यात् । महानुभावेन गुणालयेन विषज्जतस् तत्पुरुषप्रसङ्गः ॥ 36 ॥

श्लोक 10.81.37

भक्ताय चित्रा भगवान् हि सम्पदो राज्यं विभूतीर् न समर्थयत्य् अजः । अदीर्घबोधाय विचक्षणः स्वयं पश्यन् निपातं धनिनां मदोद्भवम् ॥ 37 ॥

श्लोक 10.81.38

इत्थं व्यवसितो बुद्ध्या भक्तो ऽतीव जनार्दने । विषयान् जायया त्यक्ष्यन् बुभुजे नातिलम्पटः ॥ 38 ॥

श्लोक 10.81.39

तस्य वै देवदेवस्य हरेर् यज्ञपतेः प्रभोः । ब्राह्मणाः प्रभवो दैवं न तेभ्यो विद्यते परम् ॥ 39 ॥

श्लोक 10.81.40

एवं स विप्रो भगवत्सुहृत् तदा दृष्ट्वा स्वभृत्यैर् अजितं पराजितम् । तद्ध्यानवेगोद्ग्रथितात्मबन्धनस् तद्धाम लेभे ऽचिरतः सतां गतिम् ॥ 40 ॥

श्लोक 10.81.41

एतद् ब्रह्मण्यदेवस्य श्रुत्वा ब्रह्मण्यतां नरः । लब्धभावो भगवति कर्मबन्धाद् विमुच्यते ॥ 41 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ