श्रीमद्भागवत दशम स्कन्ध अध्याय 82
श्रीमद्भागवत दशम स्कन्ध अध्याय 82 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.82.1
अथैकदा द्वारवत्यां वसतो रामकृष्णयोः । सूर्योपरागः सुमहान् आसीत् कल्पक्षये यथा ॥ 1 ॥
श्लोक 10.82.2
तं ज्ञात्वा मनुजा राजन् पुरस्ताद् एव सर्वतः । समन्तपञ्चकं क्षेत्रं ययुः श्रेयोविधित्सया ॥ 2 ॥
श्लोक 10.82.3
निःक्षत्रियां महीं कुर्वन् रामः शस्त्रभृतां वरः । नृपाणां रुधिरौघेण यत्र चक्रे महाह्रदान् ॥ 3 ॥
श्लोक 10.82.4
ईजे च भगवान् रामो यत्रास्पृष्टो ऽपि कर्मणा । लोकं सङ्ग्राहयन्न् ईशो यथान्यो ऽघापनुत्तये ॥ 4 ॥
श्लोक 10.82.5
महत्यां तीर्थयात्रायां तत्रागन् भारतीः प्रजाः । वृष्णयश् च तथाक्रूरवसुदेवाहुकादयः ॥ 5 ॥
श्लोक 10.82.6
ययुर् भारत तत् क्षेत्रं स्वम् अघं क्षपयिष्णवः । गदप्रद्युम्नसाम्बाद्याः सुचन्द्रशुकसारणैः । आस्ते ऽनिरुद्धो रक्षायां कृतवर्मा च यूथपः ॥ 6 ॥
श्लोक 10.82.7
ते रथैर् देवधिष्ण्याभैर् हयैश् च तरलप्लवैः । गजैर् नदद्भिर् अभ्राभैर् नृभिर् विद्याधरद्युभिः ॥ 7 ॥
श्लोक 10.82.8
व्यरोचन्त महातेजाः पथि काञ्चनमालिनः । दिव्यस्रग्वस्त्रसन्नाहाः कलत्रैः खेचरा इव ॥ 8 ॥
श्लोक 10.82.9
तत्र स्नात्वा महाभागा उपोष्य सुसमाहिताः । ब्राह्मणेभ्यो ददुर् धेनूर् वासःस्रग्रुक्ममालिनीः ॥ 9 ॥
श्लोक 10.82.10
रामह्रदेषु विधिवत् पुनर् आप्लुत्य वृष्णयः । ददः स्व्अन्नं द्विजाग्र्येभ्यः कृष्णे नो भक्तिर् अस्त्व् इति ॥ 10 ॥
श्लोक 10.82.11
स्वयं च तद्अनुज्ञाता वृष्णयः कृष्णदेवताः । भुक्त्वोपविविशुः कामं स्निग्धच्छायाङ्घ्रिपाङ्घ्रिषु ॥ 11 ॥
श्लोक 10.82.12
तत्रागतांस् ते ददृशुः सुहृत्सम्बन्धिनो नृपान् । मत्स्योशीनरकौशल्यविदर्भकुरुसृञ्जयान् ॥ 12 ॥
श्लोक 10.82.13
काम्बोजकैकयान् मद्रान् कुन्तीन् आनर्तकेरलान् । अन्यांश् चैवात्मपक्षीयान् परांश् च शतशो नृप । नन्दादीन् सुहृदो गोपान् गोपीश् चोत्कण्ठिताश् चिरम् ॥ 13 ॥
श्लोक 10.82.14
अन्योन्यसन्दर्शनहर्षरंहसा प्रोत्फुल्लहृद्वक्त्रसरोरुहश्रियः । आश्लिष्य गाढं नयनैः स्रवज्जला हृष्यत्त्वचो रुद्धगिरो ययुर् मुदम् ॥ 14 ॥
श्लोक 10.82.15
स्त्रियश् च संवीक्ष्य मिथो ऽतिसौहृदस्मितामलापाङ्गदृशो ऽभिरेभिरे &अम्प्; स्तनैः स्तनान् कुङ्कुमपङ्करूषितान् निहत्य दोर्भिः प्रणयाश्रुलोचनाः ॥ 15 ॥
श्लोक 10.82.16
ततो ऽभिवाद्य ते वृद्धान् यविष्ठैर् अभिवादिताः । स्व्आगतं कुशलं पृष्ट्वा चक्रुः कृष्णकथा मिथः ॥ 16 ॥
श्लोक 10.82.17
पृथा भ्रातॄन् स्वसॄर् वीक्ष्य तत्पुत्रान् पितराव् अपि । भ्रातृपत्नीर् मुकुन्दं च जहौ सङ्कथया शुचः ॥ 17 ॥
श्लोक 10.82.18
आर्य भ्रातर् अहं मन्ये आत्मानम् अकृताशिषम् । यद् वा आपत्सु मद्वार्तां नानुस्मरथ सत्तमाः ॥ 18 ॥
श्लोक 10.82.19
सुहृदो ज्ञातयः पुत्रा भ्रातरः पितराव् अपि । नानुस्मरन्ति स्वजनं यस्य दैवम् अदक्षिणम् ॥ 19 ॥
श्लोक 10.82.20
अम्ब मास्मान् असूयेथा दैवक्रीडनकान् नरान् । ईशस्य हि वशे लोकः कुरुते कार्यते ऽथ वा ॥ 20 ॥
श्लोक 10.82.21
कंसप्रतापिताः सर्वे वयं याता दिशं दिशम् । एतर्ह्य् एव पुनः स्थानं दैवेनासादिताः स्वसः ॥ 21 ॥
श्लोक 10.82.22
वसुदेवोग्रसेनाद्यैर् यदुभिस् ते ऽर्चिता नृपाः । आसन्न् अच्युतसन्दर्शपरमानन्दनिर्वृताः ॥ 22 ॥
श्लोक 10.82.23
भीष्मो द्रोणो ऽम्बिकापुत्रो गान्धारी ससुता तथा । सदाराः पाण्डवाः कुन्ती सञ्जयो विदुरः कृपः ॥ 23 ॥
श्लोक 10.82.24
कुन्तीभोजो विराटश् च भीष्मको नग्नजिन् महान् । पुरुजिद् द्रुपदः शल्यो धृष्टकेतुः स काशिराट् ॥ 24 ॥
श्लोक 10.82.25
दमघोषो विशालाक्षो मैथिलो मद्रकेकयौ । युधामन्युः सुशर्मा च ससुता बाह्लिकादयः ॥ 25 ॥
श्लोक 10.82.26
राजानो ये च राजेन्द्र युधिष्ठिरम् अनुव्रताः । श्रीनिकेतं वपुः शौरेः सस्त्रीकं वीक्ष्य विस्मिताः ॥ 26 ॥
श्लोक 10.82.27
अथ ते रामकृष्णाभ्यां सम्यक् प्राप्तसमर्हणाः । प्रशशंसुर् मुदा युक्ता वृष्णीन् कृष्णपरिग्रहान् ॥ 27 ॥
श्लोक 10.82.28
अहो भोजपते यूयं जन्मभाजो नृणाम् इह । यत् पश्यथासकृत् कृष्णं दुर्दर्शम् अपि योगिनाम् ॥ 28 ॥
श्लोक 10.82.29
यद्विश्रुतिः श्रुतिनुतेदम् अलं पुनाति पादावनेजनपयश् च वचश् च शास्त्रम् &अम्प्; भूः कालभर्जितभगापि यद्अङ्घ्रिपद्मस्पर्शोत्थशक्तिर् अभिवर्षति नो ऽखिलार्थान् ॥ 29 ॥
श्लोक 10.82.30
तद्दर्शनस्पर्शनानुपथप्रजल्पशय्यासनाशनसयौनसपिण्डबन्धः । येषां गृहे निरयवर्त्मनि वर्ततां वः स्वर्गापवर्गविरमः स्वयम् आस विष्णुः ॥ 30 ॥
श्लोक 10.82.31
नन्दस् तत्र यदून् प्राप्तान् ज्ञात्वा कृष्णपुरोगमान् । तत्रागमद् वृतो गोपैर् अनःस्थार्थैर् दिदृक्षया ॥ 31 ॥
श्लोक 10.82.32
तं दृष्ट्वा वृष्णयो हृष्टास् तन्वः प्राणम् इवोत्थिताः । परिषस्वजिरे गाढं चिरदर्शनकातराः ॥ 32 ॥
श्लोक 10.82.33
वसुदेवः परिष्वज्य सम्प्रीतः प्रेमविह्वलः । स्मरन् कंसकृतान् क्लेशान् पुत्रन्यासं च गोकुले ॥ 33 ॥
श्लोक 10.82.34
कृष्णरामौ परिष्वज्य पितराव् अभिवाद्य च । न किञ्चनोचतुः प्रेम्णा साश्रुकण्ठौ कुरूद्वह ॥ 34 ॥
श्लोक 10.82.35
ताव् आत्मासनम् आरोप्य बाहुभ्यां परिरभ्य च । यशोदा च महाभागा सुतौ विजहतुः शुचः ॥ 35 ॥
श्लोक 10.82.36
रोहिणी देवकी चाथ परिष्वज्य व्रजेश्वरीम् । स्मरन्त्यौ तत्कृतां मैत्रीं बाष्पकण्ठ्यौ समूचतुः ॥ 36 ॥
श्लोक 10.82.37
का विस्मरेत वां मैत्रीम् अनिवृत्तां व्रजेश्वरि । अवाप्याप्य् ऐन्द्रम् ऐश्वर्यं यस्या नेह प्रतिक्रिया ॥ 37 ॥
श्लोक 10.82.38
एताव् अदृष्टपितरौ युवयोः स्म पित्रोः सम्प्रीणनाभ्युदयपोषणपालनानि &अम्प्; प्राप्योषतुर् भवति पक्ष्म ह यद्वद् अक्ष्णोर् न्यस्ताव् अकुत्र च भयौ न सतां परः स्वः ॥ 38 ॥
श्लोक 10.82.39
गोप्यश् च कृष्णम् उपलभ्य चिराद् अभीष्टं यत्प्रेक्षणे दृशिषु पक्ष्मकृतं शपन्ति । दृग्भिर् हृदीकृतम् अलं परिरभ्य सर्वास् तद्भावम् आपुर् अपि नित्ययुजां दुरापम् ॥ 39 ॥
श्लोक 10.82.40
भगवांस् तास् तथाभूता विविक्त उपसङ्गतः । आश्लिष्यानामयं पृष्ट्वा प्रहसन्न् इदम् अब्रवीत् ॥ 40 ॥
श्लोक 10.82.41
अपि स्मरथ नः सख्यः स्वानाम् अर्थचिकीर्षया । गतांश् चिरायिताञ् छत्रुपक्षक्षपणचेतसः ॥ 41 ॥
श्लोक 10.82.42
अप्य् अवध्यायथास्मान् स्विद् अकृतज्ञाविशङ्कया । नूनं भूतानि भगवान् युनक्ति वियुनक्ति च ॥ 42 ॥
श्लोक 10.82.43
वायुर् यथा घनानीकं तृणं तूलं रजांसि च । संयोज्याक्षिपते भूयस् तथा भूतानि भूतकृत् ॥ 43 ॥
श्लोक 10.82.44
मयि भक्तिर् हि भूतानाम् अमृतत्वाय कल्पते । दिष्ट्या यद् आसीन् मत्स्नेहो भवतीनां मद्आपनः ॥ 44 ॥
श्लोक 10.82.45
अहं हि सर्वभूतानाम् आदिर् अन्तो ऽन्तरं बहिः । भौतिकानां यथा खं वार् भूर् वायुर् ज्योतिर् अङ्गनाः ॥ 45 ॥
श्लोक 10.82.46
एवं ह्य् एतानि भूतानि भूतेष्व् आत्मात्मना ततः । उभयं मय्य् अथ परे पश्यताभातम् अक्षरे ॥ 46 ॥
श्लोक 10.82.47
अध्यात्मशिक्षया गोप्य एवं कृष्णेन शिक्षिताः । तद्अनुस्मरणध्वस्तजीवकोशास् तम् अध्यगन् ॥ 47 ॥
श्लोक 10.82.48
आहुश् च ते नलिननाभ पदारविन्दं योगेश्वरैर् हृदि विचिन्त्यम् अगाधबोधैः &अम्प्; संसारकूपपतितोत्तरणावलम्बं गेहं जुषाम् अपि मनस्य् उदियात् सदा नः ॥ 48 ॥