मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 83

श्रीमद्भागवत दशम स्कन्ध अध्याय 83 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.83.1

तथानुगृह्य भगवान् गोपीनां स गुरुर् गतिः । युधिष्ठिरम् अथापृच्छत् सर्वांश् च सुहृदो ऽव्ययम् ॥ 1 ॥

श्लोक 10.83.2

त एवं लोकनाथेन परिपृष्टाः सुसत्कृताः । प्रत्यूचुर् हृष्टमनसस् तत्पादेक्षाहतांहसः ॥ 2 ॥

श्लोक 10.83.3

कुतो ऽशिवं त्वच्चरणाम्बुजासवं महन्मनस्तो मुखनिःसृतं क्वचित् । पिबन्ति ये कर्णपुटैर् अलं प्रभो देहंभृतां देहकृद्अस्मृतिच्छिदम् ॥ 3 ॥

श्लोक 10.83.4

हि त्वात्म धामविधुतात्मकृतत्र्य्अवस्थाम् आनन्दसम्प्लवम् अखण्डम् अकुण्ठबोधम् &अम्प्; कालोपसृष्टनिगमावन आत्तयोगमायाकृतिं परमहंसगतिं नताः स्म ॥ 4 ॥

श्लोक 10.83.5

इत्य् उत्तमःश्लोकशिखामणिं जनेष्व् अभिष्टुवत्स्व् अन्धककौरवस्त्रियः । समेत्य गोविन्दकथा मिथो ऽगृनंस् त्रिलोकगीताः शृणु वर्णयामि ते ॥ 5 ॥

श्लोक 10.83.6

हे वैदर्भ्य् अच्युतो भद्रे हे जाम्बवति कौशले । हे सत्यभामे कालिन्दि शैब्ये रोहिणि लक्ष्मणे ॥ 6 ॥

श्लोक 10.83.7

हे कृष्णपत्न्य एतन् नो ब्रूते वो भगवान् स्वयम् । उपयेमे यथा लोकम् अनुकुर्वन् स्वमायया ॥ 7 ॥

श्लोक 10.83.8

चैद्याय मार्पयितुम् उद्यतकार्मुकेषु राजस्व् अजेयभटशेखरिताङ्घ्रिरेणुः । निन्ये मृगेन्द्र इव भागम् अजावियूथात् तच्छ्रीनिकेतचरणो ऽस्तु ममार्चनाय ॥ 8 ॥

श्लोक 10.83.9

यो मे सनाभिवधतप्तहृदा ततेन लिप्ताभिशापम् अपमार्ष्टुम् उपाजहार । जित्वर्क्षराजम् अथ रत्नम् अदात् स तेन भीतः पितादिशत मां प्रभवे ऽपि दत्ताम् ॥ 9 ॥

श्लोक 10.83.10

प्राज्ञाय देहकृद् अमुं निजनाथदैवं सीतापतिं त्रिनवहान्य् अमुनाभ्ययुध्यत् । ज्ञात्वा परीक्षित उपाहरद् अर्हणं मां पादौ प्रगृह्य मणिनाहम् अमुष्य दासी ॥ 10 ॥

श्लोक 10.83.11

तपश् चरन्तीम् आज्ञाय स्वपादस्पर्शनाशया । सख्योपेत्याग्रहीत् पाणिं यो ऽहं तद्गृहमार्जनी ॥ 11 ॥

श्लोक 10.83.12

यो मां स्वयंवर उपेत्य विजित्य भूपान् निन्ये श्वयूथगं इवात्मबलिं द्विपारिः । भ्रातॄंश् च मे ऽपकुरुतः स्वपुरं श्रियौकस् तस्यास्तु मे ऽनुभवम् अङ्घ्र्य्अवनेजनत्वम् ॥ 12 ॥

श्लोक 10.83.13

सप्तोक्षणो ऽतिबलवीर्यसुतीक्ष्णशृङ्गान् पित्रा कृतान् क्षितिपवीर्यपरीक्षणाय । तान् वीरदुर्मदहनस् तरसा निगृह्य क्रीडन् बबन्ध ह यथा शिशवो ऽजतोकान् ॥ 13 ॥

श्लोक 10.83.14

य इत्थं वीर्यशुल्कां मां दासीभिश् चतुर्अन्गिणीम् । पथि निर्जित्य राजन्यान् निन्ये तद्दास्यम् अस्तु मे ॥ 14 ॥

श्लोक 10.83.15

पिता मे मातुलेयाय स्वयम् आहूय दत्तवान् । कृष्णे कृष्णाय तच्चित्ताम् अक्षौहिण्या सखीजनैः ॥ 15 ॥

श्लोक 10.83.16

अस्य मे पादसंस्पर्शो भवेज् जन्मनि जन्मनि । कर्मभिर् भ्राम्यमाणाया येन तच् छ्रेय आत्मनः ॥ 16 ॥

श्लोक 10.83.17

ममापि राज्ञ्य् अच्युतजन्मकर्म श्रुत्वा मुहुर् नारदगीतम् आस ह । चित्तं मुकुन्दे किल पद्महस्तया वृतः सुसम्मृश्य विहाय लोकपान् ॥ 17 ॥

श्लोक 10.83.18

ज्ञात्वा मम मतं साध्वि पिता दुहितृवत्सलः । बृहत्सेन इति ख्यातस् तत्रोपायम् अचीकरत् ॥ 18 ॥

श्लोक 10.83.19

यथा स्वयंवरे राज्ञि मत्स्यः पार्थेप्सया कृतः । अयं तु बहिर् आच्छन्नो दृश्यते स जले परम् ॥ 19 ॥

श्लोक 10.83.20

श्रुत्वैतत् सर्वतो भूपा आययुर् मत्पितुः पुरम् । सर्वास्त्रशस्त्रतत्त्वज्ञाः सोपाध्यायाः सहस्रशः ॥ 20 ॥

श्लोक 10.83.21

पित्रा सम्पूजिताः सर्वे यथावीर्यं यथावयः । आददुः सशरं चापं वेद्धुं पर्षदि मद्धियः ॥ 21 ॥

श्लोक 10.83.22

आदाय व्यसृजन् केचित् सज्यं कर्तुम् अनीश्वराः । आकोष्ठं ज्यां समुत्कृष्य पेतुर् एके ऽमुनाहताः ॥ 22 ॥

श्लोक 10.83.23

सज्यं कृत्वापरे वीरा मागधाम्बष्ठचेदिपाः । भीमो दुर्योधनः कर्णो नाविदंस् तद्अवस्थितिम् ॥ 23 ॥

श्लोक 10.83.24

मत्स्याभासं जले वीक्ष्य ज्ञात्वा च तद्अवस्थितिम् । पार्थो यत्तो ऽसृजद् बाणं नाच्छिनत् पस्पृशे परम् ॥ 24 ॥

श्लोक 10.83.25

राजन्येषु निवृत्तेषु भग्नमानेषु मानिषु । भगवान् धनुर् आदाय सज्यं कृत्वाथ लीलया ॥ 25 ॥

श्लोक 10.83.26

तस्मिन् सन्धाय विशिखं मत्स्यं वीक्ष्य सकृज् जले । छित्त्वेषुणापातयत् तं सूर्ये चाभिजिति स्थिते ॥ 26 ॥

श्लोक 10.83.27

दिवि दुन्दुभयो नेदुर् जयशब्दयुता भुवि । देवाश् च कुसुमासारान् मुमुचुर् हर्षविह्वलाः ॥ 27 ॥

श्लोक 10.83.28

तद् रङ्गम् आविशम् अहं कलनूपुराभ्यां पद्भ्यां प्रगृह्य कनकोइज्वलरत्नमालाम् &अम्प्; नूत्ने निवीय परिधाय च कौशिकाग्र्ये सव्रीडहासवदना कवरीधृतस्रक् ॥ 28 ॥

श्लोक 10.83.29

उन्नीय वक्त्रम् उरुकुन्तलकुण्डलत्विड्गण्डस्थलं शिशिरहासकटाक्षमोक्षैः । राज्ञो निरीक्ष्य परितः शनकैर् मुरारेर् अंसे ऽनुरक्तहृदया निदधे स्वमालाम् ॥ 29 ॥

श्लोक 10.83.30

तावन् मृदङ्गपटहाः शङ्खभेर्य्आनकादयः । निनेदुर् नटनर्तक्यो ननृतुर् गायका जगुः ॥ 30 ॥

श्लोक 10.83.31

एवं वृते भगवति मयेशे नृपयूथपाः । न सेहिरे याज्ञसेनि स्पर्धन्तो हृच्छयातुराः ॥ 31 ॥

श्लोक 10.83.32

मां तावद् रथम् आरोप्य हयरत्नचतुष्टयम् । शार्ङ्गम् उद्यम्य सन्नद्धस् तस्थाव् आजौ चतुर्भुजः ॥ 32 ॥

श्लोक 10.83.33

दारुकश् चोदयाम् आस काञ्चनोपस्करं रथम् । मिषतां भूभुजां राज्ञि मृगाणां मृगराड् इव ॥ 33 ॥

श्लोक 10.83.34

ते ऽन्वसज्जन्त राजन्या निषेद्धुं पथि केचन । संयत्ता उद्धृतेष्व्आसा ग्रामसिंहा यथा हरिम् ॥ 34 ॥

श्लोक 10.83.35

ते शार्ङ्गच्युतबाणौघैः कृत्तबाह्व्अङ्घ्रिकन्धराः । निपेतुः प्रधने केचिद् एके सन्त्यज्य दुद्रुवुः ॥ 35 ॥

श्लोक 10.83.36

ततः पुरीं यदुपतिर् अत्य्अलङ्कृतां रविच्छदध्वजपटचित्रतोरणाम् &अम्प्; कुशस्थलीं दिवि भुवि चाभिसंस्तुतां समाविशत् तरणिर् इव स्वकेतनम् ॥ 36 ॥

श्लोक 10.83.37

पिता मे पूजयाम् आस सुहृत्सम्बन्धिबान्धवान् । महार्हवासोऽलङ्कारैः शय्यासनपरिच्छदैः ॥ 37 ॥

श्लोक 10.83.38

दासीभिः सर्वसम्पद्भिर् भटेभरथवाजिभिः । आयुधानि महार्हाणि ददौ पूर्णस्य भक्तितः ॥ 38 ॥

श्लोक 10.83.39

आत्मारामस्य तस्येमा वयं वै गृहदासिकाः । सर्वसङ्गनिवृत्त्याद्धा तपसा च बभूविम ॥ 39 ॥

श्लोक 10.83.40

भौमं निहत्य सगणं युधि तेन रुद्धा ज्ञात्वाथ नः क्षितिजये जितराजकन्याः । निर्मुच्य संसृतिविमोक्षम् अनुस्मरन्तीः पादाम्बुजं परिणिनाय य आप्तकामः ॥ 40 ॥

श्लोक 10.83.41

न वयं साध्वि साम्राज्यं स्वाराज्यं भौज्यम् अप्य् उत । वैराज्यं पारमेष्ठ्यं च आनन्त्यं वा हरेः पदम् ॥ 41 ॥

श्लोक 10.83.42

कामयामह एतस्य श्रीमत्पादरजः श्रियः । कुचकुङ्कुमगन्धाढ्यं मूर्ध्ना वोढुं गदाभृतः ॥ 42 ॥

श्लोक 10.83.43

व्रजस्त्रियो यद् वाञ्छन्ति पुलिन्द्यस् तृणवीरुधः । गावश् चारयतो गोपाः पदस्पर्शं महात्मनः ॥ 43 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ