मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 84

श्रीमद्भागवत दशम स्कन्ध अध्याय 84 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.84.1

श्रुत्वा पृथा सुबलपुत्र्य् अथ याज्ञसेनी माधव्य् अथ क्षितिपपत्न्य उत स्वगोप्यः । कृष्णे ऽखिलात्मनि हरौ प्रणयानुबन्धं सर्वा विसिस्म्युर् अलम् अश्रुकलाकुलाक्ष्यः ॥ 1 ॥

श्लोक 10.84.2

इति सम्भाषमाणासु स्त्रीभिः स्त्रीषु नृभिर् नृषु । आययुर् मुनयस् तत्र कृष्णरामदिदृक्षया ॥ 2 ॥

श्लोक 10.84.3

द्वैपायनो नारदश् च च्यवनो देवलो ऽसितः । विश्वामित्रः शतानन्दो भरद्वाजो ऽथ गौतमः ॥ 3 ॥

श्लोक 10.84.4

रामः सशिष्यो भगवान् वसिष्ठो गालवो भृगुः । पुलस्त्यः कश्यपो ऽत्रिश् च मार्कण्डेयो बृहस्पतिः ॥ 4 ॥

श्लोक 10.84.5

द्वितस् त्रितश् चैकतश् च ब्रह्मपुत्रास् तथाङ्गिराः । अगस्त्यो याज्ञवल्क्यश् च वामदेवादयो ऽपरे ॥ 5 ॥

श्लोक 10.84.6

तान् दृष्ट्वा सहसोत्थाय प्राग् आसीना नृपादयः । पाण्डवाः कृष्णरामौ च प्रणेमुर् विश्ववन्दितान् ॥ 6 ॥

श्लोक 10.84.7

तान् आनर्चुर् यथा सर्वे सहरामो ऽच्युतो ऽर्चयत् । स्वागतासनपाद्यार्घ्यमाल्यधूपानुलेपनैः ॥ 7 ॥

श्लोक 10.84.8

उवाच सुखम् आसीनान् भगवान् धर्मगुप्तनुः । सदसस् तस्य महतो यतवाचो ऽनुशृण्वतः ॥ 8 ॥

श्लोक 10.84.9

अहो वयं जन्मभृतो लब्धं कार्त्स्न्येन तत्फलम् । देवानाम् अपि दुष्प्रापं यद् योगेश्वरदर्शनम् ॥ 9 ॥

श्लोक 10.84.10

किं स्वल्पतपसां नॄणाम् अर्चायां देवचक्षुषाम् । दर्शनस्पर्शनप्रश्नप्रह्वपादार्चनादिकम् ॥ 10 ॥

श्लोक 10.84.11

न ह्य् अम्मयानि तीर्थानि न देवा मृच्छिलामयाः । ते पुनन्त्य् उरुकालेन दर्शनाद् एव साधवः ॥ 11 ॥

श्लोक 10.84.12

नाग्निर् न सूर्यो न च चन्द्रतारका न भूर् जलं खं श्वसनो ऽथ वाङ् मनः &अम्प्; उपासिता भेदकृतो हरन्त्य् अघं विपश्चितो घ्नन्ति मुहूर्तसेवया ॥ 12 ॥

श्लोक 10.84.13

यस्यात्मबुद्धिः कुणपे त्रिधातुके स्वधीः कलत्रादिषु भौम इज्यधीः । यत्तीर्थबुद्धिः सलिले न कर्हिचिज् जनेष्व् अभिज्ञेषु स एव गोखरः ॥ 13 ॥

श्लोक 10.84.14

निशम्येत्थं भगवतः कृष्णस्याकुण्थमेधसः । वचो दुरन्वयं विप्रास् तूष्णीम् आसन् भ्रमद्धियः ॥ 14 ॥

श्लोक 10.84.15

चिरं विमृश्य मुनय ईश्वरस्येशितव्यताम् । जनसङ्ग्रह इत्य् ऊचुः स्मयन्तस् तं जगद्गुरुम् ॥ 15 ॥

श्लोक 10.84.16

यन्मायया तत्त्वविद्उत्तमा वयं विमोहिता विश्वसृजाम् अधीश्वराः । यद् ईशितव्यायति गूढ ईहया अहो विचित्रम् भगवद्विचेष्टितम् ॥ 16 ॥

श्लोक 10.84.17

अनीह एतद् बहुधैक आत्मना सृजत्य् अवत्य् अत्ति न बध्यते यथा । भौमैर् हि भूमिर् बहुनामरूपिणी अहो विभूम्नश् चरितं विडम्बनम् ॥ 17 ॥

श्लोक 10.84.18

अथापि काले स्वजनाभिगुप्तये बिभर्षि सत्त्वं खलनिग्रहाय च । स्वलीलया वेदपथं सनातनं वर्णाश्रमात्मा पुरुषः परो भवान् ॥ 18 ॥

श्लोक 10.84.19

ब्रह्म ते हृदयं शुक्लं तपःस्वाध्यायसंयमैः । यत्रोपलब्धं सद् व्यक्तम् अव्यक्तं च ततः परम् ॥ 19 ॥

श्लोक 10.84.20

तस्माद् ब्रह्मकुलं ब्रह्मन् शास्त्रयोनेस् त्वम् आत्मनः । सभाजयसि सद् धाम तद् ब्रह्मण्याग्रणीर् भवान् ॥ 20 ॥

श्लोक 10.84.21

अद्य नो जन्मसाफल्यं विद्यायास् तपसो दृशः । त्वया सङ्गम्य सद्गत्या यद् अन्तः श्रेयसां परः ॥ 21 ॥

श्लोक 10.84.22

नमस् तस्मै भगवते कृष्णायाकुण्ठमेधसे । स्वयोगमाययाच्छन्नमहिम्ने परमात्मने ॥ 22 ॥

श्लोक 10.84.23

न यं विदन्त्य् अमी भूपा एकारामाश् च वृष्णयः । मायाजवनिकाच्छन्नम् आत्मानं कालम् ईश्वरम् ॥ 23 ॥

श्लोक 10.84.24

यथा शयानः पुरुष आत्मानं गुणतत्त्वदृक् । नाममात्रेन्द्रियाभातं न वेद रहितं परम् ॥ 24 ॥

श्लोक 10.84.25

एवं त्वा नाममात्रेषु विषयेष्व् इन्द्रियेहया । मायया विभ्रमच्चित्तो न वेद स्मृत्य्उपप्लवात् ॥ 25 ॥

श्लोक 10.84.26

तस्याद्य ते ददृशिमाङ्घ्रिम् अघौघमर्षतीर्थास्पदं हृदि कृतं सुविपक्वयोगैः &अम्प्; उत्सिक्तभक्त्य्उपहताशय जीवकोशा आपुर् भवद्गतिम् अथानुगृहान भक्तान् ॥ 26 ॥

श्लोक 10.84.27

इत्य् अनुज्ञाप्य दाशार्हं धृतराष्ट्रं युधिष्ठिरम् । राजर्षे स्वाश्रमान् गन्तुं मुनयो दधिरे मनः ॥ 27 ॥

श्लोक 10.84.28

तद् वीक्ष्य तान् उपव्रज्य वसुदेवो महायशाः । प्रणम्य चोपसङ्गृह्य बभाषेदं सुयन्त्रितः ॥ 28 ॥

श्लोक 10.84.29

नमो वः सर्वदेवेभ्य ऋषयः श्रोतुम् अर्हथ । कर्मणा कर्मनिर्हारो यथा स्यान् नस् तद् उच्यताम् ॥ 29 ॥

श्लोक 10.84.30

नातिचित्रम् इदं विप्रा वसुदेवो बुभुत्सया । कृष्णम् मत्वार्भकं यन् नः पृच्छति श्रेय आत्मनः ॥ 30 ॥

श्लोक 10.84.31

सन्निकर्षो ऽत्र मर्त्यानाम् अनादरणकारणम् । गाङ्गं हित्वा यथान्याम्भस् तत्रत्यो याति शुद्धये ॥ 31 ॥

श्लोक 10.84.32

यस्यानुभूतिः कालेन लयोत्पत्त्य्आदिनास्य वै । स्वतो ऽन्यस्माच् च गुणतो न कुतश्चन रिष्यति ॥ 32 ॥

श्लोक 10.84.33

तं क्लेशकर्मपरिपाकगुणप्रवाहैर् अव्याहतानुभवम् ईश्वरम् अद्वितीयम् । प्राणादिभिः स्वविभवैर् उपगूढम् अन्यो मन्येत सूर्यम् इव मेघहिमोपरागैः ॥ 33 ॥

श्लोक 10.84.34

अथोचुर् मुनयो राजन्न् आभाष्यानल्सदुन्दभिम् । सर्वेषां शृण्वतां राज्ञां तथैवाच्युतरामयोः ॥ 34 ॥

श्लोक 10.84.35

कर्मणा कर्मनिर्हार एष साधुनिरूपितः । यच् छ्रद्धया यजेद् विष्णुं सर्वयज्ञेश्वरं मखैः ॥ 35 ॥

श्लोक 10.84.36

चित्तस्योपशमो ऽयं वै कविभिः शास्त्रचक्षुसा । दर्शितः सुगमो योगो धर्मश् चात्ममुद्आवहः ॥ 36 ॥

श्लोक 10.84.37

अयं स्वस्त्य्अयनः पन्था द्विजातेर् गृहमेधिनः । यच् छ्रद्धयाप्तवित्तेन शुक्लेनेज्येत पूरुषः ॥ 37 ॥

श्लोक 10.84.38

वित्तैषणां यज्ञदानैर् गृहैर् दारसुतैषणाम् । आत्मलोकैषणां देव कालेन विसृजेद् बुधः । ग्रामे त्यक्तैषणाः सर्वे ययुर् धीरास् तपोवनम् ॥ 38 ॥

श्लोक 10.84.39

ऋणैस् त्रिभिर् द्विजो जातो देवर्षिपितॄणां प्रभो । यज्ञाध्ययनपुत्रैस् तान्य् अनिस्तीर्य त्यजन् पतेत् ॥ 39 ॥

श्लोक 10.84.40

त्वं त्व् अद्य मुक्तो द्वाभ्यां वै ऋषिपित्रोर् महामते । यज्ञैर् देवर्णम् उन्मुच्य निरृणो ऽशरणो भव ॥ 40 ॥

श्लोक 10.84.41

वसुदेव भवान् नूनं भक्त्या परमया हरिम् । जगताम् ईश्वरं प्रार्चः स यद् वां पुत्रतां गतः ॥ 41 ॥

श्लोक 10.84.42

इति तद्वचनं श्रुत्वा वसुदेवो महामनाः । तान् ऋषीन् ऋत्विजो वव्रे मूर्ध्नानम्य प्रसाद्य च ॥ 42 ॥

श्लोक 10.84.43

त एनम् ऋषयो राजन् वृता धर्मेण धार्मिकम् । तस्मिन्न् अयाजयन् क्षेत्रे मखैर् उत्तमकल्पकैः ॥ 43 ॥

श्लोक 10.84.44

तद्दीक्षायां प्रवृत्तायां वृष्णयः पुष्करस्रजः । स्नाताः सुवाससो राजन् राजानः सुष्ठ्व्अलङ्कृताः ॥ 44 ॥

श्लोक 10.84.45

तन्महिष्यश् च मुदिता निष्ककण्ठ्यः सुवाससः । दीक्षाशालाम् उपाजग्मुर् आलिप्ता वस्तुपाणयः ॥ 45 ॥

श्लोक 10.84.46

नेदुर् मृदङ्गपटहशङ्खभेर्य्आनकादयः । ननृतुर् नटनर्तक्यस् तुष्टुवुः सूतमागधाः । जगुः सुकण्ठ्यो गन्धर्व्यः सङ्गीतं सहभर्तृकाः ॥ 46 ॥

श्लोक 10.84.47

तम् अभ्यषिञ्चन् विधिवद् अक्तम् अभ्यक्तम् ऋत्विजः । पत्नीभिर् अष्टादशभिः सोमराजम् इवोडुभिः ॥ 47 ॥

श्लोक 10.84.48

ताभिर् दुकूलवलयैर् हारनूपुरकुण्डलैः । स्व्अलङ्कृताभिर् विबभौ दीक्षितो ऽजिनसंवृतः ॥ 48 ॥

श्लोक 10.84.49

तस्यर्त्विजो महाराज रत्नकौशेयवाससः । ससदस्या विरेजुस् ते यथा वृत्रहणो ऽध्वरे ॥ 49 ॥

श्लोक 10.84.50

तदा रामश् च कृष्णश् च स्वैः स्वैर् बन्धुभिर् अन्वितौ । रेजतुः स्वसुतैर् दारैर् जीवेशौ स्वविभूतिभिः ॥ 50 ॥

श्लोक 10.84.51

ईजे ऽनुयज्ञं विधिना अग्निहोत्रादिलक्षणैः । प्राकृतैर् वैकृतैर् यज्ञैर् द्रव्यज्ञानक्रियेश्वरम् ॥ 51 ॥

श्लोक 10.84.52

अथर्त्विग्भ्यो ऽददात् काले यथाम्नातं स दक्षिणाः । स्व्अलङ्कृतेभ्यो ऽलङ्कृत्य गोभूकन्या महाधनाः ॥ 52 ॥

श्लोक 10.84.53

पत्नीसंयाजावभृथ्यैश् चरित्वा ते महर्षयः । सस्नू रामह्रदे विप्रा यजमानपुरःसराः ॥ 53 ॥

श्लोक 10.84.54

स्नातो ऽलङ्कारवासांसि वन्दिभ्यो ऽदात् तथा स्त्रियः । ततः स्व्अलङ्कृतो वर्णान् आश्वभ्यो ऽन्नेन पूजयत् ॥ 54 ॥

श्लोक 10.84.55

बन्धून् सदारान् ससुतान् पारिबर्हेण भूयसा । विदर्भकोशलकुरून् काशिकेकयसृञ्जयान् ॥ 55 ॥

श्लोक 10.84.56

सदस्यर्त्विक्सुरगणान् नृभूतपितृचारणान् । श्रीनिकेतम् अनुज्ञाप्य शंसन्तः प्रययुः क्रतुम् ॥ 56 ॥

श्लोक 10.84.57

धृतराष्ट्रो ऽनुजः पार्था भीष्मो द्रोणः पृथा यमौ । नारदो भगवान् व्यासः सुहृत्सम्बन्धिबान्धवाः ॥ 57 ॥

श्लोक 10.84.58

बन्धून् परिष्वज्य यदून् सौहृदाक्लिन्नचेतसः । ययुर् विरहकृच्छ्रेण स्वदेशांश् चापरे जनाः ॥ 58 ॥

श्लोक 10.84.59

नन्दस् तु सह गोपालैर् बृहत्या पूजयार्चितः । कृष्णरामोग्रसेनाद्यैर् न्यवात्सीद् बन्धुवत्सलः ॥ 59 ॥

श्लोक 10.84.60

वसुदेवो ऽञ्जसोत्तीर्य मनोरथमहार्णवम् । सुहृद्वृतः प्रीतमना नन्दम् आह करे स्पृशन् ॥ 60 ॥

श्लोक 10.84.61

भ्रातर् ईशकृतः पाशो नृनां यः स्नेहसंज्ञितः । तं दुस्त्यजम् अहं मन्ये शूराणाम् अपि योगिनाम् ॥ 61 ॥

श्लोक 10.84.62

अस्मास्व् अप्रतिकल्पेयं यत् कृताज्ञेषु सत्तमैः । मैत्र्य् अर्पिताफला चापि न निवर्तेत कर्हिचित् ॥ 62 ॥

श्लोक 10.84.63

प्राग् अकल्पाच् च कुशलं भ्रातर् वो नाचराम हि । अधुना श्रीमदान्धाक्षा न पश्यामः पुरः सतः ॥ 63 ॥

श्लोक 10.84.64

मा राज्यश्रीर् अभूत् पुंसः श्रेयस्कामस्य मानद । स्वजनान् उत बन्धून् वा न पश्यति ययान्धदृक् ॥ 64 ॥

श्लोक 10.84.65

एवं सौहृदशैथिल्यचित्त आनकदुन्दुभिः । रुरोद तत्कृतां मैत्रीं स्मरन्न् अश्रुविलोचनः ॥ 65 ॥

श्लोक 10.84.66

नन्दस् तु सख्युः प्रियकृत् प्रेम्णा गोविन्दरामयोः । अद्य श्व इति मासांस् त्रीन् यदुभिर् मानितो ऽवसत् ॥ 66 ॥

श्लोक 10.84.67

ततः कामैः पूर्यमाणः सव्रजः सहबान्धवः । परार्ध्याभरणक्षौमनानानर्घ्यपरिच्छदैः ॥ 67 ॥

श्लोक 10.84.68

वसुदेवोग्रसेनाभ्यां कृष्णोद्धवबलादिभिः । दत्तम् आदाय पारिबर्हं यापितो यदुभिर् ययौ ॥ 68 ॥

श्लोक 10.84.69

नन्दो गोपाश् च गोप्यश् च गोविन्दचरणाम्बुजे । मनः क्षिप्तं पुनर् हर्तुम् अनीशा मथुरां ययुः ॥ 69 ॥

श्लोक 10.84.70

बन्धुषु प्रतियातेषु वृष्णयः कृष्णदेवताः । वीक्ष्य प्रावृषम् आसन्नाद् ययुर् द्वारवतीं पुनः ॥ 70 ॥

श्लोक 10.84.71

जनेभ्यः कथयां चक्रुर् यदुदेवमहोत्सवम् । यद् आसीत् तीर्थयात्रायां सुहृत्सन्दर्शनादिकम् ॥ 71 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ