श्रीमद्भागवत दशम स्कन्ध अध्याय 85
श्रीमद्भागवत दशम स्कन्ध अध्याय 85 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.85.1
अथैकदात्मजौ प्राप्तौ कृतपादाभिवन्दनौ । वसुदेवो ऽभिनन्द्याह प्रीत्या सङ्कर्षणाच्युतौ ॥ 1 ॥
श्लोक 10.85.2
मुनीनां स वचः श्रुत्वा पुत्रयोर् धामसूचकम् । तद्वीर्यैर् जातविश्रम्भः परिभाष्याभ्यभाषत ॥ 2 ॥
श्लोक 10.85.3
कृष्ण कृष्ण महायोगिन् सङ्कर्षण सनातन । जाने वाम् अस्य यत् साक्षात् प्रधानपुरुषौ परौ ॥ 3 ॥
श्लोक 10.85.4
यत्र येन यतो यस्य यस्मै यद् यद् यथा यदा । स्याद् इदं भगवान् साक्षात् प्रधानपुरुषेश्वरः ॥ 4 ॥
श्लोक 10.85.5
एतन् नानाविधं विश्वम् आत्मसृष्टम् अधोक्षज । आत्मनानुप्रविश्यात्मन् प्राणो जीवो बिभर्ष्य् अज ॥ 5 ॥
श्लोक 10.85.6
प्राणादीनां विश्वसृजां शक्तयो याः परस्य ताः । पारतन्त्र्याद् वैसादृष्याद् द्वयोश् चेष्टैव चेष्टताम् ॥ 6 ॥
श्लोक 10.85.7
कान्तिस् तेजः प्रभा सत्ता चन्द्राग्न्य्अर्कर्क्षविद्युताम् । यत् स्थैर्यं भूभृतां भूमेर् वृत्तिर् गन्धो ऽर्थतो भवान् ॥ 7 ॥
श्लोक 10.85.8
तर्पणं प्राणनम् अपां देव त्वं ताश् च तद्रसः । ओजः सहो बलं चेष्टा गतिर् वायोस् तवेश्वर ॥ 8 ॥
श्लोक 10.85.9
दिशां त्वम् अवकाशो ऽसि दिशः खं स्फोट आश्रयः । नादो वर्णस् त्वम् ॐकार आकृतीनां पृथक्कृतिः ॥ 9 ॥
श्लोक 10.85.10
इन्द्रियं त्व् इन्द्रियाणां त्वं देवाश् च तद्अनुग्रहः । अवबोधो भवान् बुद्धेर् जीवस्यानुस्मृतिः सती ॥ 10 ॥
श्लोक 10.85.11
भूतानाम् असि भूतादिर् इन्द्रियाणां च तैजसः । वैकारिको विकल्पानां प्रधानम् अनुशायिनम् ॥ 11 ॥
श्लोक 10.85.12
नश्वरेष्व् इह भावेषु तद् असि त्वम् अनश्वरम् । यथा द्रव्यविकारेषु द्रव्यमात्रं निरूपितम् ॥ 12 ॥
श्लोक 10.85.13
सत्त्वम् रजस् तम इति गुणास् तद्वृत्तयश् च याः । त्वय्य् अद्धा ब्रह्मणि परे कल्पिता योगमायया ॥ 13 ॥
श्लोक 10.85.14
तस्मान् न सन्त्य् अमी भावा यर्हि त्वयि विकल्पिताः । त्वं चामीषु विकारेषु ह्य् अन्यदाव्यावहारिकः ॥ 14 ॥
श्लोक 10.85.15
गुणप्रवाह एतस्मिन्न् अबुधास् त्व् अखिलात्मनः । गतिं सूक्ष्माम् अबोधेन संसरन्तीह कर्मभिः ॥ 15 ॥
श्लोक 10.85.16
यदृच्छया नृतां प्राप्य सुकल्पाम् इह दुर्लभाम् । स्वार्थे प्रमत्तस्य वयो गतं त्वन्माययेश्वर ॥ 16 ॥
श्लोक 10.85.17
असाव् अहम् ममैवैते देहे चास्यान्वयादिषु । स्नेहपाशैर् निबध्नाति भवान् सर्वम् इदं जगत् ॥ 17 ॥
श्लोक 10.85.18
युवां न नः सुतौ साक्षात् प्रधानपुरुषेश्वरौ । भूभारक्षत्रक्षपण अवतीर्णौ तथात्थ ह ॥ 18 ॥
श्लोक 10.85.19
तत् ते गतो ऽस्म्य् अरणम् अद्य पदारविन्दम् आपन्नसंसृतिभयापहम् आर्तबन्धो &अम्प्; एतावतालम् अलम् इन्द्रियलालसेन मर्त्यात्मदृक् त्वयि परे यद् अपत्यबुद्धिः ॥ 19 ॥
श्लोक 10.85.20
सूतीगृहे ननु जगाद भवान् अजो नौ सञ्जज्ञ इत्य् अनुयुगं निजधर्मगुप्त्यै । नानातनूर् गगनवद् विदधज् जहासि को वेद भूम्न उरुगाय विभूतिमायाम् ॥ 20 ॥
श्लोक 10.85.21
आकर्ण्येत्थं पितुर् वाक्यं भगवान् सात्वतर्षभः । प्रत्याह प्रश्रयानम्रः प्रहसन् श्लक्ष्णया गिरा ॥ 21 ॥
श्लोक 10.85.22
वचो वः समवेतार्थं तातैतद् उपमन्महे । यन् नः पुत्रान् समुद्दिश्य तत्त्वग्राम उदाहृतः ॥ 22 ॥
श्लोक 10.85.23
अहं यूयम् असाव् आर्य इमे च द्वारकाउकसः । सर्वे ऽप्य् एवं यदुश्रेष्ठ विमृग्याः सचराचरम् ॥ 23 ॥
श्लोक 10.85.24
आत्मा ह्य् एकः स्वयंज्योतिर् नित्यो ऽन्यो निर्गुणो गुणैः । आत्मसृष्टैस् तत्कृतेषु भूतेषु बहुधेयते ॥ 24 ॥
श्लोक 10.85.25
खं वायुर् ज्योतिर् आपो भूस् तत्कृतेषु यथाशयम् । आविस्तिरोऽल्पभूर्य् एको नानात्वं यात्य् असाव् अपि ॥ 25 ॥
श्लोक 10.85.26
एवं भगवता राजन् वसुदेव उदाहृतः । श्रुत्वा विनष्टनानाधीस् तूष्णीं प्रीतमना अभूत् ॥ 26 ॥
श्लोक 10.85.27
अथ तत्र कुरुश्रेष्ठ देवकी सर्वदेवता । श्रुत्वानीतं गुरोः पुत्रम् आत्मजाभ्यां सुविस्मिता ॥ 27 ॥
श्लोक 10.85.28
कृष्णरामौ समाश्राव्य पुत्रान् कंसविहिंसितान् । स्मरन्ती कृपणं प्राह वैक्लव्याद् अश्रुलोचना ॥ 28 ॥
श्लोक 10.85.29
राम रामाप्रमेयात्मन् कृष्ण योगेश्वरेश्वर । वेदाहं वां विश्वसृजाम् ईश्वराव् आदिपूरुषौ ॥ 29 ॥
श्लोक 10.85.30
कलविध्वस्तसत्त्वानां राज्ञाम् उच्छास्त्रवर्तिनाम् । भूमेर् भारायमाणानाम् अवतीर्णौ किलाद्य मे ॥ 30 ॥
श्लोक 10.85.31
यस्यांशांशांशभागेन विश्वोत्पत्तिलयोदयाः । भवन्ति किल विश्वात्मंस् तं त्वाद्याहं गतिं गता ॥ 31 ॥
श्लोक 10.85.32
चिरान् मृतसुतादाने गुरुणा किल चोदितौ । आनिन्यथुः पितृस्थानाद् गुरवे गुरुदक्षिणाम् ॥ 32 ॥
श्लोक 10.85.33
तथा मे कुरुतं कामं युवां योगेश्वरेश्वरौ । भोजराजहतान् पुत्रान् कामये द्रष्टुम् आहृतान् ॥ 33 ॥
श्लोक 10.85.34
एवं सञ्चोदितौ मात्रा रामः कृष्णश् च भारत । सुतलं संविविशतुर् योगमायाम् उपाश्रितौ ॥ 34 ॥
श्लोक 10.85.35
तस्मिन् प्रविष्टाव् उपलभ्य दैत्यराड् विश्वात्मदैवं सुतरां तथात्मनः &अम्प्; तद्दर्शनाह्लादपरिप्लुताशयः सद्यः समुत्थाय ननाम सान्वयः ॥ 35 ॥
श्लोक 10.85.36
तयोः समानीय वरासनं मुदा निविष्टयोस् तत्र महात्मनोस् तयोः । दधार पादाव् अवनिज्य तज् जलं सवृन्द आब्रह्म पुनद् यद् अम्बु ह ॥ 36 ॥
श्लोक 10.85.37
समर्हयाम् आस स तौ विभूतिभिर् महार्हवस्त्राभरणानुलेपनैः । ताम्बूलदीपामृतभक्षणादिभिः स्वगोत्रवित्तात्मसमर्पणेन च ॥ 37 ॥
श्लोक 10.85.38
स इन्द्रसेनो भगवत्पदाम्बुजं बिभ्रन् मुहुः प्रेमविभिन्नया धिया । उवाच हानन्दजलाकुलेक्षणः प्रहृष्टरोमा नृप गद्गदाक्षरम् ॥ 38 ॥
श्लोक 10.85.39
नमो ऽनन्ताय बृहते नमः कृष्णाय वेधसे । साङ्ख्ययोगवितानाय ब्रह्मणे परमात्मने ॥ 39 ॥
श्लोक 10.85.40
दर्शनं वां हि भूतानां दुष्प्रापं चाप्य् अदुर्लभम् । रजस्तमःस्वभावानां यन् नः प्राप्तौ यदृच्छया ॥ 40 ॥
श्लोक 10.85.41
दैत्यदानवगन्धर्वाः सिद्धविद्याध्रचारणाः । यक्षरक्षःपिशाचाश् च भूतप्रमथनायकाः ॥ 41 ॥
श्लोक 10.85.42
विशुद्धसत्त्वधाम्न्य् अद्धा त्वयि शास्त्रशरीरिणि । नित्यं निबद्धवैरास् ते वयं चान्ये च तादृशाः ॥ 42 ॥
श्लोक 10.85.43
केचनोद्बद्धवैरेण भक्त्या केचन कामतः । न तथा सत्त्वसंरब्धाः सन्निकृष्टाः सुरादयः ॥ 43 ॥
श्लोक 10.85.44
इदम् इत्थम् इति प्रायस् तव योगेश्वरेश्वर । न विदन्त्य् अपि योगेशा योगमायां कुतो वयम् ॥ 44 ॥
श्लोक 10.85.45
तन् नः प्रसीद निरपेक्षविमृग्ययुष्मत् पादारविन्दधिषणान्यगृहान्धकूपात् &अम्प्; निष्क्रम्य विश्वशरणाङ्घ्र्य्उपलब्धवृत्तिः शान्तो यथैक उत सर्वसखैश् चरामि ॥ 45 ॥
श्लोक 10.85.46
शाध्य् अस्मान् ईशितव्येश निष्पापान् कुरु नः प्रभो । पुमान् यच् छ्रद्धयातिष्ठंश् चोदनाया विमुच्यते ॥ 46 ॥
श्लोक 10.85.47
आसन् मरीचेः षट् पुत्रा ऊर्णायां प्रथमे ऽन्तरे । देवाः कं जहसुर् वीक्ष्य सुतं यभितुम् उद्यतम् ॥ 47 ॥
श्लोक 10.85.48
तेनासुरीम् अगन् योनिम् अधुनावद्यकर्मणा । हिरण्यकशिपोर् जाता नीतास् ते योगमायया ॥ 48 ॥
श्लोक 10.85.49
देवक्या उदरे जाता राजन् कंसविहिंसिताः । सा तान् शोचत्य् आत्मजान् स्वांस् त इमे ऽध्यासते ऽन्तिके ॥ 49 ॥
श्लोक 10.85.50
इत एतान् प्रणेष्यामो मातृशोकापनुत्तये । ततः शापाद् विनिर्मक्ता लोकं यास्यन्ति विज्वराः ॥ 50 ॥
श्लोक 10.85.51
स्मरोद्गीथः परिष्वङ्गः पतङ्गः क्षुद्रभृद् घृणी । षड् इमे मत्प्रसादेन पुनर् यास्यन्ति सद्गतिम् ॥ 51 ॥
श्लोक 10.85.52
इत्य् उक्त्वा तान् समादाय इन्द्रसेनेन पूजितौ । पुनर् द्वारवतीम् एत्य मातुः पुत्रान् अयच्छताम् ॥ 52 ॥
श्लोक 10.85.53
तान् दृष्ट्वा बालकान् देवी पुत्रस्नेहस्नुतस्तनी । परिष्वज्याङ्कम् आरोप्य मूर्ध्न्य् अजिघ्रद् अभीक्ष्णशः ॥ 53 ॥
श्लोक 10.85.54
अपाययत् स्तनं प्रीता सुतस्पर्शपरिस्नुतम् । मोहिता मायया विष्णोर् यया सृष्टिः प्रवर्तते ॥ 54 ॥
श्लोक 10.85.55
पीत्वामृतं पयस् तस्याः पीतशेषं गदाभृतः । नारायणाङ्गसंस्पर्शप्रतिलब्धात्मदर्शनाः ॥ 55 ॥
श्लोक 10.85.56
ते नमस्कृत्य गोविन्दं देवकीं पितरं बलम् । मिषतां सर्वभूतानां ययुर् धाम दिवौकसाम् ॥ 56 ॥
श्लोक 10.85.57
तं दृष्ट्वा देवकी देवी मृतागमननिर्गमम् । मेने सुविस्मिता मायां कृष्णस्य रचितां नृप ॥ 57 ॥
श्लोक 10.85.58
एवंविधान्य् अद्भुतानि कृष्णस्य परमात्मनः । वीर्याण्य् अनन्तवीर्यस्य सन्त्य् अनन्तानि भारत ॥ 58 ॥
श्लोक 10.85.59
य इदम् अनुशृणोति श्रावयेद् वा मुरारेश् चरितम् अमृतकीर्तेर् वर्णितं व्यासपुत्रैः । जगद्अघभिद् अलं तद्भक्तसत्कर्णपूरं भगवति कृतचित्तो याति तत्क्षेमधाम ॥ 59 ॥