श्रीमद्भागवत दशम स्कन्ध अध्याय 86
श्रीमद्भागवत दशम स्कन्ध अध्याय 86 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.86.1
ब्रह्मन् वेदितुम् इच्छामः स्वसारां रामकृष्णयोः । यथोपयेमे विजयो या ममासीत् पितामही ॥ 1 ॥
श्लोक 10.86.2
अर्जुनस् तीर्थयात्रायां पर्यटन्न् अवनीं प्रभुः । गतः प्रभासम् अशृणोन् मातुलेयीं स आत्मनः ॥ 2 ॥
श्लोक 10.86.3
दुर्योधनाय रामस् तां दास्यतीति न चापरे । तल्लिप्सुः स यतिर् भूत्वा त्रिदण्डी द्वारकाम् अगात् ॥ 3 ॥
श्लोक 10.86.4
तत्र वै वार्षितान् मासान् अवात्सीत् स्वार्थसाधकः । पौरैः सभाजितो ऽभीक्ष्णं रामेणाजानता च सः ॥ 4 ॥
श्लोक 10.86.5
एकदा गृहम् आनीय आतिथ्येन निमन्त्र्य तम् । श्रद्धयोपहृतं भैक्ष्यं बलेन बुभुजे किल ॥ 5 ॥
श्लोक 10.86.6
सो ऽपश्यत् तत्र महतीं कन्यां वीरमनोहराम् । प्रीत्य्उत्फुल्लेक्षणस् तस्यां भावक्षुब्धं मनो दधे ॥ 6 ॥
श्लोक 10.86.7
सापि तं चकमे वीक्ष्य नारीणां हृदयंगमम् । हसन्ती व्रीडितापङ्गी तन्न्यस्तहृदयेक्षणा ॥ 7 ॥
श्लोक 10.86.8
तां परं समनुध्यायन्न् अन्तरं प्रेप्सुर् अर्जुनः । न लेभे शं भ्रमच्चित्तः कामेनातिबलीयसा ॥ 8 ॥
श्लोक 10.86.9
महत्यां देवयात्रायां रथस्थां दुर्गनिर्गतां । जहारानुमतः पित्रोः कृष्णस्य च महारथः ॥ 9 ॥
श्लोक 10.86.10
रथस्थो धनुर् आदाय शूरांश् चारुन्धतो भटान् । विद्राव्य क्रोशतां स्वानां स्वभागं मृगराड् इव ॥ 10 ॥
श्लोक 10.86.11
तच् छ्रुत्वा क्षुभितो रामः पर्वणीव महार्णवः । गृहीतपादः कृष्णेन सुहृद्भिश् चानुसान्त्वितः ॥ 11 ॥
श्लोक 10.86.12
प्राहिणोत् पारिबर्हाणि वरवध्वोर् मुदा बलः । महाधनोपस्करेभरथाश्वनरयोषितः ॥ 12 ॥
श्लोक 10.86.13
कृष्णस्यासीद् द्विजश्रेष्ठः श्रुतदेव इति श्रुतः । कृष्णैकभक्त्या पूर्णार्थः शान्तः कविर् अलम्पतः ॥ 13 ॥
श्लोक 10.86.14
स उवास विदेहेषु मिथिलायां गृहाश्रमी । अनीहयागताहार्यनिर्वर्तितनिजक्रियः ॥ 14 ॥
श्लोक 10.86.15
यात्रामात्रं त्व् अहर् अहर् दैवाद् उपनमत्य् उत । नाधिकं तावता तुष्टः क्रिया चक्रे यथोचिताः ॥ 15 ॥
श्लोक 10.86.16
तथा तद्राष्ट्रपालो ऽङ्ग बहुलाश्व इति श्रुतः । मैथिलो निरहम्मान उभाव् अप्य् अच्युतप्रियौ ॥ 16 ॥
श्लोक 10.86.17
तयोः प्रसन्नो भगवान् दारुकेणाहृतं रथम् । आरुह्य साकं मुनिभिर् विदेहान् प्रययौ प्रभुः ॥ 17 ॥
श्लोक 10.86.18
नारदो वामदेवो ऽत्रिः कृष्णो रामो ऽसितो ऽरुणिः । अहं बृहस्पतिः कण्वो मैत्रेयश् च्यवनादयः ॥ 18 ॥
श्लोक 10.86.19
तत्र तत्र तम् आयान्तं पौरा जानपदा नृप । उपतस्थुः सार्घ्यहस्ता ग्रहैः सूर्यम् इवोदितम् ॥ 19 ॥
श्लोक 10.86.20
आनर्तधन्वकुरुजाङ्गलकङ्कमत्स्यपाञ्चालकुन्तिमधुकेकयकोशलार्णाः &अम्प्; अन्ये च तन्मुखसरोजम् उदारहासस्निग्धेक्षणं नृप पपुर् दृशिभिर् न्र्नार्यः ॥ 20 ॥
श्लोक 10.86.21
तेभ्यः स्ववीक्षणविनष्टतमिस्रदृग्भ्यः क्षेमं त्रिलोकगुरुर् अर्थदृशं च यच्छन् । शृण्वन् दिग्अन्तधवलं स्वयशो ऽशुभघ्नं गीतं सुरैर् नृभिर् अगाच् छनकैर् विदेहान् ॥ 21 ॥
श्लोक 10.86.22
ते ऽच्युतं प्राप्तम् आकर्ण्य पौरा जानपदा नृप । अभीयुर् मुदितास् तस्मै गृहीतार्हणपाणयः ॥ 22 ॥
श्लोक 10.86.23
दृष्ट्वा त उत्तमःश्लोकं प्रीत्य्उत्फुलाननाशयाः । कैर् धृताञ्जलिभिर् नेमुः श्रुतपूर्वांस् तथा मुनीन् ॥ 23 ॥
श्लोक 10.86.24
स्वानुग्रहाय सम्प्राप्तं मन्वानौ तं जगद्गुरुम् । मैथिलः श्रुतदेवश् च पादयोः पेततुः प्रभोः ॥ 24 ॥
श्लोक 10.86.25
न्यमन्त्रयेतां दाशार्हम् आतिथ्येन सह द्विजैः । मैथिलः श्रुतदेवश् च युगपत् संहताञ्जली ॥ 25 ॥
श्लोक 10.86.26
भगवांस् तद् अभिप्रेत्य द्वयोः प्रियचिकीर्षया । उभयोर् आविशद् गेहम् उभाभ्यां तद्अलक्षितः ॥ 26 ॥
श्लोक 10.86.27
श्रान्तान् अप्य् अथ तान् दूराज् जनकः स्वगृहागतान् । आनीतेष्व् आसनाग्र्येषु सुखासीनान् महामनाः ॥ 27 ॥
श्लोक 10.86.28
प्रवृद्धभक्त्या उद्धर्षहृदयास्राविलेक्षणः । नत्वा तद्अङ्घ्रीन् प्रक्षाल्य तद्अपो लोकपावनीः ॥ 28 ॥
श्लोक 10.86.29
सकुटुम्बो वहन् मूर्ध्ना पूजयां चक्र ईश्वरान् । गन्धमाल्याम्बराकल्पधूपदीपार्घ्यगोवृषैः ॥ 29 ॥
श्लोक 10.86.30
वाचा मधुरया प्रीणन्न् इदम् आहान्नतर्पितान् । पादाव् अङ्कगतौ विष्णोः संस्पृशञ् छनकैर् मुदा ॥ 30 ॥
श्लोक 10.86.31
भवान् हि सर्वभूतानाम् आत्मा साक्षी स्वदृग् विभो । अथ नस् त्वत्पदाम्भोजं स्मरतां दर्शनं गतः ॥ 31 ॥
श्लोक 10.86.32
स्ववचस् तद् ऋतं कर्तुम् अस्मद्दृग्गोचरो भवान् । यद् आत्थैकान्तभक्तान् मे नानन्तः श्रीर् अजः प्रियः ॥ 32 ॥
श्लोक 10.86.33
को नु त्वच्चरणाम्भोजम् एवंविद् विसृजेत् पुमान् । निष्किञ्चनानां शान्तानां मुनीनां यस् त्वम् आत्मदः ॥ 33 ॥
श्लोक 10.86.34
यो ऽवतीर्य यदोर् वंशे नृणां संसरताम् इह । यशो वितेने तच्छान्त्यै त्रैलोक्यवृजिनापहम् ॥ 34 ॥
श्लोक 10.86.35
नमस् तुभ्यं भगवते कृष्णायाकुण्ठमेधसे । नारायणाय ऋषये सुशान्तं तप ईयुषे ॥ 35 ॥
श्लोक 10.86.36
दिनानि कतिचिद् भूमन् गृहान् नो निवस द्विजैः । समेतः पादरजसा पुनीहीदं निमेः कुलम् ॥ 36 ॥
श्लोक 10.86.37
इत्य् उपामन्त्रितो राज्ञा भगवांल् लोकभावनः । उवास कुर्वन् कल्याणं मिथिलानरयोषिताम् ॥ 37 ॥
श्लोक 10.86.38
श्रुतदेवो ऽच्युतं प्राप्तं स्वगृहाञ् जनको यथा । नत्वा मुनीन् सुसंहृष्टो धुन्वन् वासो ननर्त ह ॥ 38 ॥
श्लोक 10.86.39
तृणपीठबृषीष्व् एतान् आनीतेषूपवेश्य सः । स्वागतेनाभिनन्द्याङ्घ्रीन् सभार्यो ऽवनिजे मुदा ॥ 39 ॥
श्लोक 10.86.40
तद्अम्भसा महाभाग आत्मानं सगृहान्वयम् । स्नापयां चक्र उद्धर्षो लब्धसर्वमनोरथः ॥ 40 ॥
श्लोक 10.86.41
फलार्हणोशीरशिवामृताम्बुभिर् मृदा सुरभ्या तुलसीकुशाम्बुयैः । आराधयाम् आस यथोपपन्नया सपर्यया सत्त्वविवर्धनान्धसा ॥ 41 ॥
श्लोक 10.86.42
स तर्कयाम् आस कुतो ममान्व् अभूत् गृहान्धकुपे पतितस्य सङ्गमः । यः सर्वतीर्थास्पदपादरेणुभिः कृष्णेन चास्यात्मनिकेतभूसुरैः ॥ 42 ॥
श्लोक 10.86.43
सूपविष्टान् कृतातिथ्यान् श्रुतदेव उपस्थितः । सभार्यस्वजनापत्य उवाचाङ्घ्र्य्अभिमर्शनः ॥ 43 ॥
श्लोक 10.86.44
नाद्य नो दर्शनं प्राप्तः परं परमपूरुषः । यर्हीदं शक्तिभिः सृष्ट्वा प्रविष्टो ह्य् आत्मसत्तया ॥ 44 ॥
श्लोक 10.86.45
यथा शयानः पुरुषो मनसैवात्ममायया । सृष्ट्वा लोकं परं स्वाप्नम् अनुविश्यावभासते ॥ 45 ॥
श्लोक 10.86.46
शृण्वतां गदतां शश्वद् अर्चतां त्वाभिवन्दताम् । णृणां संवदताम् अन्तर् हृदि भास्य् अमलात्मनाम् ॥ 46 ॥
श्लोक 10.86.47
हृदिस्थो ऽप्य् अतिदूरस्थः कर्मविक्षिप्तचेतसाम् । आत्मशक्तिभिर् अग्राह्यो ऽप्य् अन्त्य् उपेतगुणात्मनाम् ॥ 47 ॥
श्लोक 10.86.48
नमो ऽस्तु ते ऽध्यात्मविदां परात्मने अनात्मने स्वात्मविभक्तमृत्यवे &अम्प्; सकारणाकारणलिङ्गम् ईयुषे स्वमाययासंवृतरुद्धदृष्टये ॥ 48 ॥
श्लोक 10.86.49
स त्वं शाधि स्वभृत्यान् नः किं देव करवाम हे । एतद्अन्तो नृणां क्लेशो यद् भवान् अक्षिगोचरः ॥ 49 ॥
श्लोक 10.86.50
तद्उक्तम् इत्य् उपाकर्ण्य भगवान् प्रणतार्तिहा । गृहीत्वा पाणिना पाणिं प्रहसंस् तम् उवाच ह ॥ 50 ॥
श्लोक 10.86.51
ब्रह्मंस् ते ऽनुग्रहार्थाय सम्प्राप्तान् विद्ध्य् अमून् मुनीन् । सञ्चरन्ति मया लोकान् पुनन्तः पादरेणुभिः ॥ 51 ॥
श्लोक 10.86.52
देवाः क्षेत्राणि तीर्थानि दर्शनस्पर्शनार्चनैः । शनैः पुनन्ति कालेन तद् अप्य् अर्हत्तमेक्षया ॥ 52 ॥
श्लोक 10.86.53
ब्राह्मणो जन्मना श्रेयान् सर्वेषाम् प्राणिनाम् इह । तपसा विद्यया तुष्ट्या किम् उ मत्कलया युतः ॥ 53 ॥
श्लोक 10.86.54
न ब्राह्मणान् मे दयितं रूपम् एतच् चतुर्भुजम् । सर्ववेदमयो विप्रः सर्वदेवमयो ह्य् अहम् ॥ 54 ॥
श्लोक 10.86.55
दुष्प्रज्ञा अविदित्वैवम् अवजानन्त्य् असूयवः । गुरुं मां विप्रम् आत्मानम् अर्चादाव् इज्यदृष्टयः ॥ 55 ॥
श्लोक 10.86.56
चराचरम् इदं विश्वं भावा ये चास्य हेतवः । मद्रूपाणीति चेतस्य् आधत्ते विप्रो मद्ईक्षया ॥ 56 ॥
श्लोक 10.86.57
तस्माद् ब्रह्मऋषीन् एतान् ब्रह्मन् मच्छ्रद्धयार्चय । एवं चेद् अर्चितो ऽस्म्य् अद्धा नान्यथा भूरिभूतिभिः ॥ 57 ॥
श्लोक 10.86.58
स इत्थं प्रभुनादिष्टः सहकृष्णान् द्विजोत्तमान् । आराध्यैकात्मभावेन मैथिलश् चाप सद्गतिम् ॥ 58 ॥
श्लोक 10.86.59
एवं स्वभक्तयो राजन् भगवान् भक्तभक्तिमान् । उषित्वादिश्य सन्मार्गं पुनर् द्वारवतीम् अगात् ॥ 59 ॥