श्रीमद्भागवत दशम स्कन्ध अध्याय 87
श्रीमद्भागवत दशम स्कन्ध अध्याय 87 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.87.1
ब्रह्मन् ब्रह्मण्य् अनिर्देश्ये निर्गुणे गुणवृत्तयः । कथं चरन्ति श्रुतयः साक्षात् सद्असतः परे ॥ 1 ॥
श्लोक 10.87.2
बुद्धीन्द्रियमनःप्राणान् जनानाम् असृजत् प्रभुः । मात्रार्थं च भवार्थं च आत्मने ऽकल्पनाय च ॥ 2 ॥
श्लोक 10.87.3
सैषा ह्य् उपनिषद् ब्राह्मी पूर्वेशां पूर्वजैर् धृता । श्र्रद्धया धारयेद् यस् तां क्षेमं गच्छेद् अकिञ्चनः ॥ 3 ॥
श्लोक 10.87.4
अत्र ते वर्णयिष्यामि गाथां नारायणान्विताम् । नारदस्य च संवादम् ऋषेर् नारायणस्य च ॥ 4 ॥
श्लोक 10.87.5
एकदा नारदो लोकान् पर्यटन् भगवत्प्रियः । सनातनम् ऋषिं द्रष्टुं ययौ नारायणाश्रमम् ॥ 5 ॥
श्लोक 10.87.6
यो वै भारतवर्षे ऽस्मिन् क्षेमाय स्वस्तये नृणाम् । धर्मज्ञानशमोपेतम् आकल्पाद् आस्थितस् तपः ॥ 6 ॥
श्लोक 10.87.7
तत्रोपविष्टम् ऋषिभिः कलापग्रामवासिभिः । परीतं प्रणतो ऽपृच्छद् इदम् एव कुरूद्वह ॥ 7 ॥
श्लोक 10.87.8
तस्मै ह्य् अवोचद् भगवान् ऋषीणां शृण्वताम् इदम् । यो ब्रह्मवादः पूर्वेषां जनलोकनिवासिनाम् ॥ 8 ॥
श्लोक 10.87.9
स्वायम्भुव ब्रह्मसत्रं जनलोके ऽभवत् पुरा । तत्रस्थानां मानसानां मुनीनाम् ऊर्ध्वरेतसाम् ॥ 9 ॥
श्लोक 10.87.10
श्वेतद्वीपं गतवति त्वयि द्रष्टुं तद्ईश्वरम् । ब्रह्मवादः सुसंवृत्तः श्रुतयो यत्र शेरते । तत्र हायम् अभूत् प्रश्नस् त्वं मां यम् अनुपृच्छसि ॥ 10 ॥
श्लोक 10.87.11
तुल्यश्रुततपःशीलास् तुल्यस्वीयारिमध्यमाः । अपि चक्रुः प्रवचनम् एकं शुश्रूषवो ऽपरे ॥ 11 ॥
श्लोक 10.87.12
स्वसृष्टम् इदम् आपीय शयानं सह शक्तिभिः । तद्अन्ते बोधयां चक्रुस् तल्लिङ्गैः श्रुतयः परम् ॥ 12 ॥
श्लोक 10.87.13
यथा शयानं संराजं वन्दिनस् तत्पराक्रमैः । प्रत्यूषे ऽभेत्य सुश्लोकैर् बोधयन्त्य् अनुजीविनः ॥ 13 ॥
श्लोक 10.87.14
जय जय जह्य् अजाम् अजित दोषगृभीतगुणां त्वम् असि यद् आत्मना समवरुद्धसमस्तभगः । अगजगद्ओकसाम् अखिलशक्त्य्अवबोधक ते क्वचिद् अजयात्मना च चरतो ऽनुचरेन् निगमः ॥ 14 ॥
श्लोक 10.87.15
बृहद् उपलब्धम् एतद् अवयन्त्य् अवशेषतया यत उदयास्तम्अयौ विकृतेर् मृदि वाविकृतात् । अत ऋषयो दधुस् त्वयि मनोवचनाचरितं कथम् अयथा भवन्ति भुवि दत्तपदानि नृणाम् ॥ 15 ॥
श्लोक 10.87.16
इति तव सूरयस् त्र्य्अधिपते ऽखिललोकमलक्षपणकथामृताब्धिम् अवगाह्य तपांसि जहुः । किम् उत पुनः स्वधामविधुताशयकालगुणाः परम भजन्ति ये पदम् अजस्रसुखानुभवम् ॥ 16 ॥
श्लोक 10.87.17
दृतय इव श्वसन्त्य् असुभृतो यदि ते ऽनुविधा महद्अहम्आदयो ऽण्डम् असृजन् यद्अनुग्रहतः । पुरुषविधो ऽन्वयो ऽत्र चरमो ऽन्नमयादिषु यः सद्असतः परं त्वम् अथ यद् एष्व् अवशेषम् ऋतम् ॥ 17 ॥
श्लोक 10.87.18
उदरम् उपासते य ऋषिवर्त्मसु कूर्पदृशः परिसरपद्धतिं हृदयम् आरुणयो दहरम् । तत उदगाद् अनन्त तव धाम शिरः परमं पुनर् इह यत् समेत्य न पतन्ति कृतान्तमुखे ॥ 18 ॥
श्लोक 10.87.19
स्वकृतविचित्रयोनिषु विशन्न् इव हेतुतया तरतमतश् चकास्स्य् अनलवत् स्वकृतानुकृतिः । अथ वितथास्व् अमूष्व् अवितथां तव धाम समं विरजधियो ऽनुयन्त्य् अभिविपण्यव एकरसम् ॥ 19 ॥
श्लोक 10.87.20
स्वकृतपुरेष्व् अमीष्व् अबहिर्अन्तरसंवरणं तव पुरुषं वदन्त्य् अखिलशक्तिधृतो ऽंशकृतम् । इति नृगतिं विविच्य कवयो निगमावपनं भवत उपासते ऽङ्घ्रिम् अभवम् भुवि विश्वसिताः ॥ 20 ॥
श्लोक 10.87.21
दुरवगमात्मतत्त्वनिगमाय तवात्ततनोश् चरितमहामृताब्धिपरिवर्तपरिश्रमणाः । न परिलषन्ति केचिद् अपवर्गम् अपीश्वर ते चरणसरोजहंसकुलसङ्गविसृष्टगृहाः ॥ 21 ॥
श्लोक 10.87.22
त्वद्अनुपथं कुलायम् इदम् आत्मसुहृत्प्रियवच् चरति तथोन्मुखे त्वयि हिते प्रिय आत्मनि च । न बत रमन्त्य् अहो असद्उपासनयात्महनो यद्अनुशया भ्रमन्त्य् उरुभये कुशरीरभृतः ॥ 22 ॥
श्लोक 10.87.23
निभृतमरुन्मनोऽक्षदृढयोगयुजो हृदि यन् मुनय उपासते तद् अरयो ऽपि ययुः स्मरणात् । स्त्रिय उरगेन्द्रभोगभुजदण्डविषक्तधियो वयम् अपि ते समाः समदृशो ऽङ्घ्रिसरोजसुधाः ॥ 23 ॥
श्लोक 10.87.24
क इह नु वेद बतावरजन्मलयो ऽग्रसरं यत उदगाद् ऋषिर् यम् अनु देवगणा उभये । तर्हि न सन् न चासद् उभयं न च कालजवः किम् अपि न तत्र शास्त्रम् अवकृष्य शयीत यदा ॥ 24 ॥
श्लोक 10.87.25
जनिम् असतः सतो मृतिम् उतात्मनि ये च भिदां विपणम् ऋतं स्मरन्त्य् उपदिशन्ति त आरुपितैः । त्रिगुणमयः पुमान् इति भिदा यद् अबोधकृता त्वयि न ततः परत्र स भवेद् अवबोधरसे ॥ 25 ॥
श्लोक 10.87.26
सद् इव मनस् त्रिवृत् त्वयि विभात्य् असद् आमनुजात् सद् अभिमृशन्त्य् अशेषम् इदम् आत्मतयात्मविदः । न हि विकृतिं त्यजन्ति कनकस्य तद्आत्मतया स्वकृतम् अनुप्रविष्टम् इदम् आत्मतयावसितम् ॥ 26 ॥
श्लोक 10.87.27
तव परि ये चरन्त्य् अखिलसत्त्वनिकेततया त उत पदाक्रमन्त्य् अविगणय्य शिरो निरृतेः । परिवयसे पशून् इव गिरा विबुधान् अपि तांस् त्वयि कृतसौहृदाः खलु पुनन्ति न ये विमुखाः ॥ 27 ॥
श्लोक 10.87.28
त्वम् अकरणः स्वराड् अखिलकारकशक्तिधरस् तव बलिम् उद्वहन्ति समदन्त्य् अजयानिमिषाः । वर्षभुजो ऽखिलक्षितिपतेर् इव विश्वसृजो विदधति यत्र ये त्व् अधिकृता भवतश् चकिताः ॥ 28 ॥
श्लोक 10.87.29
स्थिरचरजातयः स्युर् अजयोत्थनिमित्तयुजो विहर उदीक्षया यदि परस्य विमुक्त ततः । न हि परमस्य कश्चिद् अपरो न परश् च भवेद् वियत इवापदस्य तव शून्यतुलां दधतः ॥ 29 ॥
श्लोक 10.87.30
अपरिमिता ध्रुवास् तनुभृतो यदि सर्वगतास् तर्हि न शास्यतेति नियमो ध्रव नेतरथा । अजनि च यन्मयं तद् अविमुच्य नियन्तृ भवेत् समम् अनुजानतां यद् अमतं मतदुष्टतया ॥ 30 ॥
श्लोक 10.87.31
न घटत उद्भवः प्रकृतिपूरुषयोर् अजयोर् उभययुजा भवन्त्य् असुभृतो जलबुद्बुदवत् । त्वयि त इमे ततो विविधनामगुणैः परमे सरित इवार्णवे मधुनि लिल्युर् अशेषरसाः ॥ 31 ॥
श्लोक 10.87.32
नृषु तव मयया भ्रमम् अमीष्व् अवगत्य भृशं त्वयि सुधियो ऽभवे दधति भावम् अनुप्रभवम् । कथम् अनुवर्ततां भवभयं तव यद् भ्रुकुटिः सृजति मुहुस् त्रिनेमिर् अभवच्छरणेषु भयम् ॥ 32 ॥
श्लोक 10.87.33
विजितहृषीकवायुभिर् अदान्तमनस् तुरगं य इह यतन्ति यन्तुम् अतिलोलम् उपायखिदः । व्यसनशतान्विताः समवहाय गुरोश् चरणं वणिज इवाज सन्त्य् अकृतकर्णधरा जलधौ ॥ 33 ॥
श्लोक 10.87.34
स्वजनसुतात्मदारधनधामधरासुरथैस् त्वयि सति किं नृणाम् श्रयत आत्मनि सर्वरसे । इति सद् अजानतां मिथुनतो रतये चरतां सुखयति को न्व् इह स्वविहते स्वनिरस्तभगे ॥ 34 ॥
श्लोक 10.87.35
भुवि पुरुपुण्यतीर्थसदनान्य् ऋषयो विमदास् त उत भवत्पदाम्बुजहृदो ऽघभिद्अङ्घ्रिजलाः । दधति सकृन् मनस् त्वयि य आत्मनि नित्यसुखे न पुनर् उपासते पुरुषसारहरावसथान् ॥ 35 ॥
श्लोक 10.87.36
सत इदं उत्थितं सद् इति चेन् ननु तर्कहतं व्यभिचरति क्व च क्व च मृषा न तथोभययुक् । व्यवहृतये विकल्प इषितो ऽन्धपरम्परया भ्रमयति भारती त उरुवृत्तिभिर् उक्थजडान् ॥ 36 ॥
श्लोक 10.87.37
न यद् इदम् अग्र आस न भविष्यद् अतो निधनाद् अनु मितम् अन्तरा त्वयि विभाति मृषैकरसे । अत उपमीयते द्रविणजातिविकल्पपथैर् वितथमनोविलासम् ऋतम् इत्य् अवयन्त्य् अबुधाः ॥ 37 ॥
श्लोक 10.87.38
स यद् अजया त्व् अजाम् अनुशयीत गुणांश् च जुषन् भजति सरूपतां तद् अनु मृत्युम् अपेतभगः । त्वम् उत जहासि ताम् अहिर् इव त्वचम् आत्तभगो महसि महीयसे ऽष्टगुणिते ऽपरिमेयभगः ॥ 38 ॥
श्लोक 10.87.39
यदि न समुद्धरन्ति यतयो हृदि कामजटा दुरधिगमो ऽसतां हृदि गतो ऽस्मृतकण्ठमणिः । असुतृपयोगिनाम् उभयतो ऽप्य् असुखं भगवन्न् अनपगतान्तकाद् अनधिरूढपदाद् भवतः ॥ 39 ॥
श्लोक 10.87.40
त्वद् अवगमी न वेत्ति भवद्उत्थशुभाशुभयोर् गुणविगुणान्वयांस् तर्हि देहभृतां च गिरः । अनुयुगम् अन्व्अहं सगुण गीतपरम्परया श्रवणभृतो यतस् त्वम् अपवर्गगतिर् मनुजैः ॥ 40 ॥
श्लोक 10.87.41
द्युपतय एव ते न ययुर् अन्तम् अनन्ततया त्वम् अपि यद्अन्तराण्डनिचया ननु सावरणाः । ख इव रजांसि वान्ति वयसा सह यच् छ्रुतयस् त्वयि हि फलन्त्य् अतन्निरसनेन भवन्निधनाः ॥ 41 ॥
श्लोक 10.87.42
इत्य् एतद् ब्रह्मणः पुत्रा आश्रुत्यात्मानुशासनम् । सनन्दनम् अथानर्चुः सिद्धा ज्ञात्वात्मनो गतिम् ॥ 42 ॥
श्लोक 10.87.43
इत्य् अशेषसमाम्नायपुराणोपनिषद्रसः । समुद्धृतः पूर्वजातैर् व्योमयानैर् महात्मभिः ॥ 43 ॥
श्लोक 10.87.44
त्वं चैतद् ब्रह्मदायाद श्रद्धयात्मानुशासनम् । धारयंश् चर गां कामं कामानां भर्जनं नृणाम् ॥ 44 ॥
श्लोक 10.87.45
एवं स ऋषिणादिष्टं गृहीत्वा श्रद्धयात्मवान् । पूर्णः श्रुतधरो राजन्न् आह वीरव्रतो मुनिः ॥ 45 ॥
श्लोक 10.87.46
नमस् तस्मै भगवते कृष्णायामलकीर्तये । यो धत्ते सर्वभूतानाम् अभवायोशतीः कलाः ॥ 46 ॥
श्लोक 10.87.47
इत्य् आद्यम् ऋषिम् आनम्य तच्छिष्यांश् च महात्मनः । ततो ऽगाद् आश्रमं साक्षात् पितुर् द्वैपायनस्य मे ॥ 47 ॥
श्लोक 10.87.48
सभाजितो भगवता कृतासनपरिग्रहः । तस्मै तद् वर्णयाम् आस नारायणमुखाच् छ्रुतम् ॥ 48 ॥
श्लोक 10.87.49
इत्य् एतद् वर्णितं राजन् यन् नः प्रश्नः कृतस् त्वया । यथा ब्रह्मण्य् अनिर्देश्ये नीऋगुणे ऽपि मनश् चरेत् ॥ 49 ॥
श्लोक 10.87.50
यो ऽस्योत्प्रेक्षक आदिमध्यनिधने यो ऽव्यक्तजीवेश्वरो यः सृष्ट्वेदम् अनुप्रविश्य ऋषिणा चक्रे पुरः शास्ति ताः &अम्प्; यं सम्पद्य जहात्य् अजाम् अनुशयी सुप्तः कुलायं यथा तं कैवल्यनिरस्तयोनिम् अभयं ध्यायेद् अजस्रं हरिम् ॥ 50 ॥