मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 88

श्रीमद्भागवत दशम स्कन्ध अध्याय 88 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.88.1

देवासुरमनुष्येसु ये भजन्त्य् अशिवं शिवम् । प्रायस् ते धनिनो भोजा न तु लक्ष्म्याः पतिं हरिम् ॥ 1 ॥

श्लोक 10.88.2

एतद् वेदितुम् इच्छामः सन्देहो ऽत्र महान् हि नः । विरुद्धशीलयोः प्रभ्वोर् विरुद्धा भजतां गतिः ॥ 2 ॥

श्लोक 10.88.3

शिवः शक्तियुतः शश्वत् त्रिलिङ्गो गुणसंवृतः । वैकारिकस् तैजसश् च तामसश् चेत्य् अहं त्रिधा ॥ 3 ॥

श्लोक 10.88.4

ततो विकारा अभवन् षोडशामीषु कञ्चन । उपधावन् विभूतीनां सर्वासाम् अश्नुते गतिम् ॥ 4 ॥

श्लोक 10.88.5

हरिर् हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः । स सर्वदृग् उपद्रष्टा तं भजन् निर्गुणो भवेत् ॥ 5 ॥

श्लोक 10.88.6

निवृत्तेष्व् अश्वमेधेषु राजा युष्मत्पितामहः । शृण्वन् भगवतो धर्मान् अपृच्छद् इदम् अच्युतम् ॥ 6 ॥

श्लोक 10.88.7

स आह भगवांस् तस्मै प्रीतः शुश्रूषवे प्रभुः । नृणां निःश्रेयसार्थाय यो ऽवतीर्णो यदोः कुले ॥ 7 ॥

श्लोक 10.88.8

यस्याहम् अनुगृह्णामि हरिष्ये तद्धनं शनैः । ततो ऽधनं त्यजन्त्य् अस्य स्वजना दुःखदुःखितम् ॥ 8 ॥

श्लोक 10.88.9

स यदा वितथोद्योगो निर्विण्णः स्याद् धनेहया । मत्परैः कृतमैत्रस्य करिष्ये मद्अनुग्रहम् ॥ 9 ॥

श्लोक 10.88.10

तद् ब्रह्म परमं सूक्ष्मं चिन्मात्रं सद् अनन्तकम् । विज्ञायात्मतया धीरः संसारात् परिमुच्यते ॥ 10 ॥

श्लोक 10.88.11

अतो मां सुदुराराध्यं हित्वान्यान् भजते जनः । ततस् त आशुतोषेभ्यो लब्धराज्यश्रियोद्धताः । मत्ताः प्रमत्ता वरदान् विस्मयन्त्य् अवजानते ॥ 11 ॥

श्लोक 10.88.12

शापप्रसादयोर् ईशा ब्रह्मविष्णुशिवादयः । सद्यः शापप्रसादो ऽङ्ग शिवो ब्रह्मा न चाच्युतः ॥ 12 ॥

श्लोक 10.88.13

अत्र चोदाहरन्तीमम् इतिहासं पुरातनम् । वृकासुराय गिरिशो वरं दत्त्वाप सङ्कटम् ॥ 13 ॥

श्लोक 10.88.14

वृको नामासुरः पुत्रः शकुनेः पथि नारदम् । दृष्ट्वाशुतोषं पप्रच्छ देवेषु त्रिषु दुर्मतिः ॥ 14 ॥

श्लोक 10.88.15

स आह देवं गिरिशम् उपाधावाशु सिद्ध्यसि । यो ऽल्पाभ्यां गुणदोषाभ्याम् आशु तुष्यति कुप्यति ॥ 15 ॥

श्लोक 10.88.16

दशास्यबाणयोस् तुष्टः स्तुवतोर् वन्दिनोर् इव । ऐश्वर्यम् अतुलं दत्त्वा तत आप सुसङ्कटम् ॥ 16 ॥

श्लोक 10.88.17

इत्य् आदिष्टस् तम् असुर उपाधावत् स्वगात्रतः । केदार आत्मक्रव्येण जुह्वानो ग्निमुखं हरम् ॥ 17 ॥

श्लोक 10.88.18

देवोपलब्धिम् अप्राप्य निर्वेदात् सप्तमे ऽहनि । शिरो ऽवृश्चत् सुधितिना तत्तीर्थक्लिन्नमूर्धजम् ॥ 18 ॥

श्लोक 10.88.19

तदा महाकारुणिको स धूर्जटिर् यथा वयं चाग्निर् इवोत्थितो ऽनलात् । निगृह्य दोर्भ्यां भुजयोर् न्यवारयत् तत्स्पर्शनाद् भूय उपस्कृताकृतिः ॥ 19 ॥

श्लोक 10.88.20

तम् आह चाङ्गालम् अलं वृणीष्व मे यथाभिकामं वितरामि ते वरम् । प्रीयेय तोयेन नृणां प्रपद्यताम् अहो त्वयात्मा भृशम् अर्द्यते वृथा ॥ 20 ॥

श्लोक 10.88.21

देवं स वव्रे पापीयान् वरं भूतभयावहम् । यस्य यस्य करं शीर्ष्णि धास्ये स म्रियताम् इति ॥ 21 ॥

श्लोक 10.88.22

तच् छ्रुत्वा भगवान् रुद्रो दुर्मना इव भारत । ॐ इति प्रहसंस् तस्मै ददे ऽहेर् अमृतं यथा ॥ 22 ॥

श्लोक 10.88.23

स तद्वरपरीक्षार्थं शम्भोर् मूर्ध्नि किलासुरः । स्वहस्तं धातुम् आरेभे सो ऽबिभ्यत् स्वकृताच् छिवः ॥ 23 ॥

श्लोक 10.88.24

तेनोपसृष्टः सन्त्रस्तः पराधावन् सवेपथुः । यावद् अन्तं दिवो भूमेः कष्ठानाम् उदगाद् उदक् ॥ 24 ॥

श्लोक 10.88.25

अजानन्तः प्रतिविधिं तूष्णीम् आसन् सुरेश्वराः । ततो वैकुण्ठम् अगमद् भास्वरं तमसः परम् ॥ 25 ॥

श्लोक 10.88.26

यत्र नारायणः साक्षान् न्यासिनां परमो गतिः । शान्तानां न्यस्तदण्डानां यतो नावर्तते गतः ॥ 26 ॥

श्लोक 10.88.27

तं तथा व्यसनं दृष्ट्वा भगवान् वृजिनार्दनः । दूरात् प्रत्युदियाद् भूत्वा बटुको योगमायया ॥ 27 ॥

श्लोक 10.88.28

मेखलाजिनदण्डाक्षैस् तेजसाग्निर् इव ज्वलन् । अभिवादयाम् आस च तं कुशपाणिर् विनीतवत् ॥ 28 ॥

श्लोक 10.88.29

शाकुनेय भवान् व्यक्तं श्रान्तः किं दूरम् आगतः । क्षणं विश्रम्यतां पुंस आत्मायं सर्वकामधुक् ॥ 29 ॥

श्लोक 10.88.30

यदि नः श्रवणायालं युष्मद्व्यवसितं विभो । भण्यतां प्रायशः पुम्भिर् धृतैः स्वार्थान् समीहते ॥ 30 ॥

श्लोक 10.88.31

एवं भगवता पृष्टो वचसामृतवर्षिणा । गतक्लमो ऽब्रवीत् तस्मै यथापूर्वम् अनुष्ठितम् ॥ 31 ॥

श्लोक 10.88.32

एवं चेत् तर्हि तद्वाक्यं न वयं श्रद्दधीमहि । यो दक्षशापात् पैशाच्यं प्राप्तः प्रेतपिशाचराट् ॥ 32 ॥

श्लोक 10.88.33

यदि वस् तत्र विश्रम्भो दानवेन्द्र जगद्गुरौ । तर्ह्य् अङ्गाशु स्वशिरसि हस्तं न्यस्य प्रतीयताम् ॥ 33 ॥

श्लोक 10.88.34

यद्य् असत्यं वचः शम्भोः कथञ्चिद् दानवर्षभ । तदैनं जह्य् असद्वाचं न यद् वक्तानृतं पुनः ॥ 34 ॥

श्लोक 10.88.35

इत्थं भगवतश् चित्रैर् वचोभिः स सुपेशलैः । भिन्नधीर् विस्मृतः शीर्ष्णि स्वहस्तं कुमतिर् न्यधात् ॥ 35 ॥

श्लोक 10.88.36

अथापतद् भिन्नशिराः व्रजाहत इव क्षणात् । जयशब्दो नमःशब्दः साधुशब्दो ऽभवद् दिवि ॥ 36 ॥

श्लोक 10.88.37

मुमुचुः पुष्पवर्षाणि हते पापे वृकासुरे । देवर्षिपितृगन्धर्वा मोचितः सङ्कटाच् छिवः ॥ 37 ॥

श्लोक 10.88.38

मुक्तं गिरिशम् अभ्याह भगवान् पुरुषोत्तमः । अहो देव महादेव पापो ऽयं स्वेन पाप्मना ॥ 38 ॥

श्लोक 10.88.39

हतः को नु महत्स्व् ईश जन्तुर् वै कृतकिल्बिषः । क्षेमी स्यात् किम् उ विश्वेशे कृतागस्को जगद्गुरौ ॥ 39 ॥

श्लोक 10.88.40

य एवम् अव्याकृतशक्त्य्उदन्वतः परस्य साक्षात् परमात्मनो हरेः । गिरित्रमोक्षं कथयेच् छृणोति वा विमुच्यते संसृतिभिस् तथारिभिः ॥ 40 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ