मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत एकादश स्कन्ध अध्याय 10

श्रीमद्भागवत एकादश स्कन्ध अध्याय 10 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 11.10.1

मयोदितेष्व् अवहितः स्वधर्मेषु मद्आश्रयः । वर्णाश्रमकुलाचारम् अकामात्मा समाचरेत् ॥ 1 ॥

श्लोक 11.10.2

अन्वीक्षेत विशुद्धात्मा देहिनां विषयात्मनाम् । गुणेषु तत्त्वध्यानेन सर्वारम्भविपर्ययम् ॥ 2 ॥

श्लोक 11.10.3

सुप्तस्य विषयालोको ध्यायतो वा मनोरथः । नानात्मकत्वाद् विफलस् तथा भेदात्मधीर् गुणैः ॥ 3 ॥

श्लोक 11.10.4

निवृत्तं कर्म सेवेत प्रवृत्तं मत्परस् त्यजेत् । जिज्ञासायां सम्प्रवृत्तो नाद्रियेत् कर्मचोदनाम् ॥ 4 ॥

श्लोक 11.10.5

यमान् अभीक्ष्णं सेवेत नियमान् मत्परः क्वचित् । मद्अभिज्ञं गुरुं शान्तम् उपासीत मद्आत्मकम् ॥ 5 ॥

श्लोक 11.10.6

अमान्य् अमत्सरो दक्षो निर्ममो दृढसौहृदः । असत्वरो ऽर्थजिज्ञासुर् अनसूयुर् अमोघवाक् ॥ 6 ॥

श्लोक 11.10.7

जायापत्यगृहक्षेत्रस्वजनद्रविणादिषु । उदासीनः समं पश्यन् सर्वेष्व् अर्थम् इवात्मनः ॥ 7 ॥

श्लोक 11.10.8

विलक्षणः स्थूलसूक्ष्माद् देहाद् आत्मेक्षिता स्वदृक् । यथाग्निर् दारुणो दाह्याद् दाहको ऽन्यः प्रकाशकः ॥ 8 ॥

श्लोक 11.10.9

निरोधोत्पत्त्य्अणुबृहन्नानात्वं तत्कृतान् गुणान् । अन्तः प्रविष्ट आधत्त एवं देहगुणान् परः ॥ 9 ॥

श्लोक 11.10.10

यो ऽसौ गुणैर् विरचितो देहो ऽयं पुरुषस्य हि । संसारस् तन्निबन्धो ऽयं पुंसो विद्या च्छिद् आत्मनः ॥ 10 ॥

श्लोक 11.10.11

तस्माज् जिज्ञासयात्मानम् आत्मस्थं केवलं परम् । सङ्गम्य निरसेद् एतद् वस्तुबुद्धिं यथाक्रमम् ॥ 11 ॥

श्लोक 11.10.12

आचार्यो ऽरणिर् आद्यः स्याद् अन्तेवास्य् उत्तरारणिः । तत्सन्धानं प्रवचनं विद्यासन्धिः सुखावहः ॥ 12 ॥

श्लोक 11.10.13

वैशारदी सातिविशुद्धबुद्धिर् धुनोति मायां गुणसम्प्रसूताम् । गुनांश् च सन्दह्य यद्आत्मम् एतत् स्वयं च शांयत्य् असमिद् यथाग्निः ॥ 13 ॥

श्लोक 11.10.14

अथैषाम् कर्मकर्तॄणां भोक्तॄणां सुखदुःखयोः । नानात्वम् अथ नित्यत्वं लोककालागमात्मनाम् ॥ 14 ॥

श्लोक 11.10.15

मन्यसे सर्वभावानां संस्था ह्य् औत्पत्तिकी यथा । तत्तद्आकृतिभेदेन जायते भिद्यते च धीः ॥ 15 ॥

श्लोक 11.10.16

एवम् अप्य् अङ्ग सर्वेषां देहिनां देहयोगतः । कालावयवतः सन्ति भावा जन्मादयो ऽसकृत् ॥ 16 ॥

श्लोक 11.10.17

तत्रापि कर्मणां कर्तुर् अस्वातन्त्र्यं च लक्ष्यते । भोक्तुश् च दुःखसुखयोः को न्व् अर्थो विवशं भजेत् ॥ 17 ॥

श्लोक 11.10.18

न देहिनां सुखं किञ्चिद् विद्यते विदुषाम् अपि । तथा च दुःखं मूढानां वृथाहङ्करणं परम् ॥ 18 ॥

श्लोक 11.10.19

यदि प्राप्तिं विघातं च जानन्ति सुखदुःखयोः । ते ऽप्य् अद्धा न विदुर् योगं मृत्युर् न प्रभवेद् यथा ॥ 19 ॥

श्लोक 11.10.20

को ऽन्व् अर्थः सुखयत्य् एनं कामो वा मृत्युर् अन्तिके । आघातं नीयमानस्य वध्यस्येव न तुष्टिदः ॥ 20 ॥

श्लोक 11.10.21

श्रुतं च दृष्टवद् दुष्टं स्पर्धासूयात्ययव्ययैः । बह्व्अन्तरायकामत्वात् कृषिवच् चापि निष्फलम् ॥ 21 ॥

श्लोक 11.10.22

अन्तरायैर् अविहितो यदि धर्मः स्व्अनुष्ठितः । तेनापि निर्जितं स्थानं यथा गच्छति तच् छृणु ॥ 22 ॥

श्लोक 11.10.23

इष्ट्वेह देवता यज्ञैः स्वर्लोकं याति याज्ञिकः । भुञ्जीत देववत् तत्र भोगान् दिव्यान् निजार्जितान् ॥ 23 ॥

श्लोक 11.10.24

स्वपुण्योपचिते शुभ्रे विमान उपगीयते । गन्धर्वैर् विहरन् मध्ये देवीनां हृद्यवेषधृक् ॥ 24 ॥

श्लोक 11.10.25

स्त्रीभिः कामगयानेन किङ्किनीजालमालिना । क्रीडन् न वेदात्मपातं सुराक्रीडेषु निर्वृतः ॥ 25 ॥

श्लोक 11.10.26

तावत् स मोदते स्वर्गे यावत् पुण्यं समाप्यते । क्षीणपुन्यः पतत्य् अर्वाग् अनिच्छन् कालचालितः ॥ 26 ॥

श्लोक 11.10.27

यद्य् अधर्मरतः सङ्गाद् असतां वाजितेन्द्रियः । कामात्मा कृपणो लुब्धः स्त्रैणो भूतविहिंसकः ॥ 27 ॥

श्लोक 11.10.28

पशून् अविधिनालभ्य प्रेतभूतगणान् यजन् । नरकान् अवशो जन्तुर् गत्वा यात्य् उल्बणं तमः ॥ 28 ॥

श्लोक 11.10.29

कर्माणि दुःखोदर्काणि कुर्वन् देहेन तैः पुनः । देहम् आभजते तत्र किं सुखं मर्त्यधर्मिणः ॥ 29 ॥

श्लोक 11.10.30

लोकानां लोकपालानां मद् भयं कल्पजीविनाम् । ब्रह्मणो ऽपि भयं मत्तो द्विपरार्धपरायुषः ॥ 30 ॥

श्लोक 11.10.31

गुणाः सृजन्ति कर्माणि गुणो ऽनुसृजते गुणान् । जीवस् तु गुणसंयुक्तो भुङ्क्ते कर्मफलान्य् असौ ॥ 31 ॥

श्लोक 11.10.32

यावत् स्याद् गुणवैषम्यं तावन् नानात्वम् आत्मनः । नानात्वम् आत्मनो यावत् पारतन्त्र्यं तदैव हि ॥ 32 ॥

श्लोक 11.10.33

यावद् अस्यास्वतन्त्रत्वं तावद् ईश्वरतो भयम् । य एतत् समुपासीरंस् ते मुह्यन्ति शुचार्पिताः ॥ 33 ॥

श्लोक 11.10.34

काल आत्मागमो लोकः स्वभावो धर्म एव च । इति मां बहुधा प्राहुर् गुणव्यतिकरे सति ॥ 34 ॥

श्लोक 11.10.35

गुणेषु वर्तमानो ऽपि देहजेष्व् अनपावृतः । गुणैर् न बध्यते देही बध्यते वा कथं विभो ॥ 35 ॥

श्लोक 11.10.36

कथं वर्तेत विहरेत् कैर् वा ज्ञायेत लक्षणैः । किं भुञ्जीतोत विसृजेच् छयीतासीत याति वा ॥ 36 ॥

श्लोक 11.10.37

एतद् अच्युत मे ब्रूहि प्रश्नं प्रश्नविदां वर । नित्यबद्धो नित्यमुक्त एक एवेति मे भ्रमः ॥ 37 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ