मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत एकादश स्कन्ध अध्याय 9

श्रीमद्भागवत एकादश स्कन्ध अध्याय 9 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 11.9.1

परिग्रहो हि दुःखाय यद् यत् प्रियतमं नृणाम् । अनन्तं सुखम् आप्नोति तद् विद्वान् यस् त्व् अकिञ्चनः ॥ 1 ॥

श्लोक 11.9.2

सामिषं कुररं जघ्नुर् बलिनो ऽन्ये निरामिषाः । तदामिषं परित्यज्य स सुखं समविन्दत ॥ 2 ॥

श्लोक 11.9.3

न मे मानापमानौ स्तो न चिन्ता गेहपुत्रिणाम् । आत्मक्रीड आत्मरतिर् विचरामीह बालवत् ॥ 3 ॥

श्लोक 11.9.4

द्वाव् एव चिन्तया मुक्तौ परमानन्द आप्लुतौ । यो विमुग्धो जडो बालो यो गुणेभ्यः परं गतः ॥ 4 ॥

श्लोक 11.9.5

क्वचित् कुमारी त्व् आत्मानं वृणानान् गृहम् आगतान् । स्वयं तान् अर्हयाम् आस क्वापि यातेषु बन्धुषु ॥ 5 ॥

श्लोक 11.9.6

तेषाम् अभ्यवहारार्थं शालीन् रहसि पार्थिव । अवघ्नन्त्याः प्रकोष्ठस्थाश् चक्रुः शङ्खाः स्वनं महत् ॥ 6 ॥

श्लोक 11.9.7

सा तज् जुगुप्सितं मत्वा महती वृईडिता ततः । बभञ्जैकैकशः शङ्खान् द्वौ द्वौ पाण्योर् अशेषयत् ॥ 7 ॥

श्लोक 11.9.8

उभयोर् अप्य् अभूद् घोषो ह्य् अवघ्नन्त्याः स्वशङ्खयोः । तत्राप्य् एकं निरभिदद् एकस्मान् नाभवद् ध्वनिः ॥ 8 ॥

श्लोक 11.9.9

अन्वशिक्षम् इमं तस्या उपदेशम् अरिन्दम । लोकान् अनुचरन्न् एतान् लोकतत्त्वविवित्सया ॥ 9 ॥

श्लोक 11.9.10

वासे बहूनां कलहो भवेद् वार्ता द्वयोर् अपि । एक एव वसेत् तस्मात् कुमार्या इव कङ्कणः ॥ 10 ॥

श्लोक 11.9.11

मन एकत्र संयुञ्ज्याज् जितश्वासो जितासनः । वैराग्याभ्यासयोगेन ध्रियमाणम् अतन्द्रितः ॥ 11 ॥

श्लोक 11.9.12

यस्मिन् मनो लब्धपदं यद् एतच् छनैः शनैर् मुञ्चति कर्मरेणून् । सत्त्वेन वृद्धेन रजस् तमश् च विधूय निर्वाणम् उपैत्य् अनिन्धनम् ॥ 12 ॥

श्लोक 11.9.13

तदैवम् आत्मन्य् अवरुद्धचित्तो न वेद किञ्चिद् बहिर् अन्तरं वा । यथेषुकारो नृपतिं व्रजन्तम् इषौ गतात्मा न ददर्श पार्श्वे ॥ 13 ॥

श्लोक 11.9.14

एकचार्य् अनिकेतः स्याद् अप्रमत्तो गुहाशयः । अलक्ष्यमाण आचारैर् मुनिर् एको ऽल्पभाषणः ॥ 14 ॥

श्लोक 11.9.15

गृहारम्भो हि दुःखाय विफलश् चाध्रुवात्मनः । सर्पः परकृतं वेश्म प्रविश्य सुखम् एधते ॥ 15 ॥

श्लोक 11.9.16

एको नारायणो देवः पूर्वसृष्टं स्वमायया । संहृत्य कालकलया कल्पान्त इदम् ईश्वरः । एक एवाद्वितीयो ऽभूद् आत्माधारो ऽखिलाश्रयः ॥ 16 ॥

श्लोक 11.9.17

कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु । सत्त्वादिष्व् आदिपुरुषः प्रधानपुरुषेश्वरः ॥ 17 ॥

श्लोक 11.9.18

परावराणां परम आस्ते कैवल्यसंज्ञितः । केवलानुभवानन्दसन्दोहो निरुपाधिकः ॥ 18 ॥

श्लोक 11.9.19

केवलात्मानुभावेन स्वमायां त्रिगुणात्मिकाम् । सङ्क्षोभयन् सृजत्य् आदौ तया सूत्रम् अरिन्दम ॥ 19 ॥

श्लोक 11.9.20

ताम् आहुस् त्रिगुणव्यक्तिं सृजन्तीं विश्वतोमुखम् । यस्मिन् प्रोतम् इदं विश्वं येन संसरते पुमान् ॥ 20 ॥

श्लोक 11.9.21

यथोर्णनाभिर् हृदयाद् ऊर्णां सन्तत्य वक्त्रतः । तया विहृत्य भूयस् तां ग्रसत्य् एवं महेश्वरः ॥ 21 ॥

श्लोक 11.9.22

यत्र यत्र मनो देही धारयेत् सकलं धिया । स्नेहाद् द्वेषाद् भयाद् वापि याति तत्तत्स्वरूपताम् ॥ 22 ॥

श्लोक 11.9.23

कीटः पेशस्कृतं ध्यायन् कुड्यां तेन प्रवेशितः । याति तत्सात्मतां राजन् पूर्वरूपम् असन्त्यजन् ॥ 23 ॥

श्लोक 11.9.24

एवं गुरुभ्य एतेभ्य एषा मे शिक्षिता मतिः । स्वात्मोपशिक्षितां बुद्धिं शृणु मे वदतः प्रभो ॥ 24 ॥

श्लोक 11.9.25

देहो गुरुर् मम विरक्तिविवेकहेतुर् बिभ्रत् स्म सत्त्वनिधनं सततार्त्य्उदर्कम् &अम्प्; तत्त्वान्य् अनेन विमृशामि यथा तथापि पारक्यम् इत्य् अवसितो विचराम्य् असङ्गः ॥ 25 ॥

श्लोक 11.9.26

जायात्मजार्थपशुभृत्यगृहाप्तवर्गान् पुष्नाति यत्प्रियचिकीर्षया वितन्वन् । स्वान्ते सकृच्छ्रम् अवरुद्धधनः स देहः सृष्ट्वास्य बीजम् अवसीदति वृक्षधर्मः ॥ 26 ॥

श्लोक 11.9.27

जिह्वैकतो ऽमुम् अपकर्षति कर्हि तर्षा शिश्नो ऽन्यतस् त्वग् उदरं श्रवणं कुतश्चित् । घ्राणो ऽन्यतश् चपलदृक् क्व च कर्मशक्तिर् बह्व्यः सपत्न्य इव गेहपतिं लुनन्ति ॥ 27 ॥

श्लोक 11.9.28

सृष्ट्वा पुराणि विविधान्य् अजयात्मशक्त्या वृक्षान् सरीसृपपशून् खगदन्दशूकान् । तैस् तैर् अतुष्टहृदयः पुरुषं विधाय ब्रह्मावलोकधिषणं मुदम् आप देवः ॥ 28 ॥

श्लोक 11.9.29

लब्ध्वा सुदुर्लभम् इदं बहुसम्भवान्ते मानुष्यम् अर्थदम् अनित्यम् अपीह धीरः । तूर्णं यतेत न पतेद् अनुमृत्यु यावन् निःश्रेयसाय विषयः खलु सर्वतः स्यात् ॥ 29 ॥

श्लोक 11.9.30

एवं सञ्जातवैराग्यो विज्ञानालोक आत्मनि । विचरामि महीम् एतां मुक्तसङ्गो ऽनहङ्कृतः ॥ 30 ॥

श्लोक 11.9.31

न ह्य् एकस्माद् गुरोर् ज्ञानं सुस्थिरं स्यात् सुपुष्कलम् । ब्रह्मैतद् अद्वितीयं वै गीयते बहुधर्षिभिः ॥ 31 ॥

श्लोक 11.9.32

इत्य् उक्त्वा स यदुं विप्रस् तम् आमन्त्र्य गभीरधीः । वन्दितः स्व्अर्चितो राज्ञा ययौ प्रीतो यथागतम् ॥ 32 ॥

श्लोक 11.9.33

अवधूतवचः श्रुत्वा पूर्वेषां नः स पूर्वजः । सर्वसङ्गविनिर्मुक्तः समचित्तो बभूव ह ॥ 33 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ