मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत एकादश स्कन्ध अध्याय 11

श्रीमद्भागवत एकादश स्कन्ध अध्याय 11 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 11.11.1

बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुतः । गुणस्य मायामूलत्वान् न मे मोक्षो न बन्धनम् ॥ 1 ॥

श्लोक 11.11.2

शोकमोहौ सुखं दुःखं देहापत्तिश् च मायया । स्वप्नो यथात्मनः ख्यातिः संसृतिर् न तु वास्तवी ॥ 2 ॥

श्लोक 11.11.3

विद्याविद्ये मम तनू विद्ध्य् उद्धव शरीरिणाम् । मोक्षबन्धकरी आद्ये मायया मे विनिर्मिते ॥ 3 ॥

श्लोक 11.11.4

एकस्यैव ममांशस्य जीवस्यैव महामते । बन्धो ऽस्याविद्ययानादिर् विद्यया च तथेतरः ॥ 4 ॥

श्लोक 11.11.5

अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते । विरुद्धधर्मिणोस् तात स्थितयोर् एकधर्मिणि ॥ 5 ॥

श्लोक 11.11.6

सुपर्णाव् एतौ सदृशौ सखायौ यदृच्छयैतौ कृतनीडौ च वृक्षे । एकस् तयोः खादति पिप्पलान्नम् अन्यो निरन्नो ऽपि बलेन भूयान् ॥ 6 ॥

श्लोक 11.11.7

आत्मानम् अन्यं च स वेद विद्वान् अपिप्पलादो न तु पिप्पलादः । यो ऽविद्यया युक् स तु नित्यबद्धो विद्यामयो यः स तु नित्यमुक्तः ॥ 7 ॥

श्लोक 11.11.8

देहस्थो ऽपि न देहस्थो विद्वान् स्वप्नाद् यथोत्थितः । अदेहस्थो ऽपि देहस्थः कुमतिः स्वप्नदृग् यथा ॥ 8 ॥

श्लोक 11.11.9

इन्द्रियैर् इन्द्रियार्थेषु गुणैर् अपि गुणेषु च । गृह्यमाणेष्व् अहं कुर्यान् न विद्वान् यस् त्व् अविक्रियः ॥ 9 ॥

श्लोक 11.11.10

दैवाधीने शरीरे ऽस्मिन् गुणभाव्येन कर्मणा । वर्तमानो ऽबुधस् तत्र कर्तास्मीति निबध्यते ॥ 10 ॥

श्लोक 11.11.11

एवं विरक्तः शयन आसनाटनमज्जने । दर्शनस्पर्शनघ्राणभोजनश्रवणादिषु । न तथा बध्यते विद्वान् तत्र तत्रादयन् गुणान् ॥ 11 ॥

श्लोक 11.11.12

प्रकृतिस्थो ऽप्य् असंसक्तो यथा खं सवितानिलः । वैशारद्येक्षयासङ्गशितया छिन्नसंशयः । प्रतिबुद्ध इव स्वप्नान् नानात्वाद् विनिवर्तते ॥ 12 ॥

श्लोक 11.11.14

यस्य स्युर् वीतसङ्कल्पाः प्राणेन्द्रियर्ननोधियाम् । वृत्तयः स विनिर्मुक्तो देहस्थो ऽपि हि तद्गुणैः ॥ 14 ॥

श्लोक 11.11.15

यस्यात्मा हिंस्यते हिंस्रैर् येन किञ्चिद् यदृच्छया । अर्च्यते वा क्वचित् तत्र न व्यतिक्रियते बुधः ॥ 15 ॥

श्लोक 11.11.16

न स्तुवीत न निन्देत कुर्वतः साध्व् असाधु वा । वदतो गुणदोषाभ्यां वर्जितः समदृङ् मुनिः ॥ 16 ॥

श्लोक 11.11.17

न कुर्यान् न वदेत् किञ्चिन् न ध्यायेत् साध्व् असाधु वा । आत्मारामो ऽनया वृत्त्या विचरेज् जडवन् मुनिः ॥ 17 ॥

श्लोक 11.11.18

शब्दब्रह्मणि निष्णातो न निष्णायात् परे यदि । श्रमस् तस्य श्रमफलो ह्य् अधेनुम् इव रक्षतः ॥ 18 ॥

श्लोक 11.11.19

गां दुग्धदोहाम् असतीं च भार्यां देहं पराधीनम् असत्प्रजां च । वित्तं त्व् अतीर्थीकृतम् अङ्ग वाचं हीनां मया रक्षति दुःखदुःखी ॥ 19 ॥

श्लोक 11.11.20

यस्यां न मे पावनम् अङ्ग कर्म स्थित्य्उद्भवप्राणनिरोधम् अस्य । लीलावतारेप्सितजन्म वा स्याद् वन्ध्यां गिरं तां बिभृयान् न धीरः ॥ 20 ॥

श्लोक 11.11.21

एवं जिज्ञासयापोह्य नानात्वभ्रमम् आत्मनि । उपारमेत विरजं मनो मय्य् अर्प्य सर्वगे ॥ 21 ॥

श्लोक 11.11.22

यद्य् अनीशो धारयितुं मनो ब्रह्मणि निश्चलम् । मयि सर्वाणि कर्माणि निरपेक्षः समाचर ॥ 22 ॥

श्लोक 11.11.23

श्रद्धालुर् मत्कथाः शृण्वन् सुभद्रा लोकपावनीः । गायन्न् अनुस्मरन् कर्म जन्म चाभिनयन् मुहुः ॥ 23 ॥

श्लोक 11.11.24

मद्अर्थे धर्मकामार्थान् आचरन् मद्अपाश्रयः । लभते निश्चलां भक्तिं मय्य् उद्धव सनातने ॥ 24 ॥

श्लोक 11.11.25

सत्सङ्गलब्धया भक्त्या मयि मां स उपासिता । स वै मे दर्शितं सद्भिर् अञ्जसा विन्दते पदम् ॥ 25 ॥

श्लोक 11.11.26

साधुस् तवोत्तमश्लोक मतः कीदृग्विधः प्रभो । भक्तिस् त्वय्य् उपयुज्येत कीदृशी सद्भिर् आदृता ॥ 26 ॥

श्लोक 11.11.27

एतन् मे पुरुषाध्यक्ष लोकाध्यक्ष जगत्प्रभो । प्रणतायानुरक्ताय प्रपन्नाय च कथ्यताम् ॥ 27 ॥

श्लोक 11.11.28

त्वं ब्रह्म परमं व्योम पुरुषः प्रकृतेः परः । अवतीर्नो ऽसि भगवन् स्वेच्छोपात्तपृथग्वपुः ॥ 28 ॥

श्लोक 11.11.29

कृपालुर् अकृतद्रोहस् तितिक्षुः सर्वदेहिनाम् । सत्यसारो ऽनवद्यात्मा समः सर्वोपकारकः ॥ 29 ॥

श्लोक 11.11.30

कामैर् अहतधीर् दान्तो मृदुः शुचिर् अकिञ्चनः । अनीहो मितभुक् शान्तः स्थिरो मच्छरणो मुनिः ॥ 30 ॥

श्लोक 11.11.31

अप्रमत्तो गभीरात्मा धृतिमाञ् जितषड्गुणः । अमानी मानदः कल्यो मैत्रः कारुणिकः कविः ॥ 31 ॥

श्लोक 11.11.32

आज्ञायैवं गुणान् दोषान् मयादिष्टान् अपि स्वकान् । धर्मान् सन्त्यज्य यः सर्वान् मां भजेत स तु सत्तमः ॥ 32 ॥

श्लोक 11.11.33

ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश् चास्मि यादृशः । भजन्त्य् अनन्यभावेन ते मे भक्ततमा मताः ॥ 33 ॥

श्लोक 11.11.34

मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चनम् । परिचर्या स्तुतिः प्रह्वगुणकर्मानुकीर्तनम् ॥ 34 ॥

श्लोक 11.11.35

मत्कथाश्रवणे श्रद्धा मद्अनुध्यानम् उद्धव । सर्वलाभोपहरणं दास्येनात्मनिवेदनम् ॥ 35 ॥

श्लोक 11.11.36

मज्जन्मकर्मकथनं मम पर्वानुमोदनम् । गीतताण्डववादित्रगोष्ठीभिर् मद्गृहोत्सवः ॥ 36 ॥

श्लोक 11.11.37

यात्रा बलिविधानं च सर्ववार्षिकपर्वसु । वैदिकी तान्त्रिकी दीक्षा मदीयव्रतधारणम् ॥ 37 ॥

श्लोक 11.11.38

ममार्चास्थापने श्रद्धा स्वतः संहत्य चोद्यमः । उद्यानोपवनाक्रीडपुरमन्दिरकर्मणि ॥ 38 ॥

श्लोक 11.11.39

सम्मार्जनोपलेपाभ्यां सेकमण्डलवर्तनैः । गृहशुश्रूषणं मह्यं दासवद् यद् अमायया ॥ 39 ॥

श्लोक 11.11.40

अमानित्वम् अदम्भित्वं कृतस्यापरिकीर्तनम् । अपि दीपावलोकं मे नोपयुञ्ज्यान् निवेदितम् ॥ 40 ॥

श्लोक 11.11.41

यद् यद् इष्टतमं लोके यच् चातिप्रियम् आत्मनः । तत् तन् निवेदयेन् मह्यं तद् आनन्त्याय कल्पते ॥ 41 ॥

श्लोक 11.11.42

सूर्यो ऽग्निर् ब्राह्मणा गावो वैष्णवः खं मरुज् जलम् । भूर् आत्मा सर्वभूतानि भद्र पूजापदानि मे ॥ 42 ॥

श्लोक 11.11.43

सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् । आतिथ्येन तु विप्राग्र्ये गोष्व् अङ्ग यवसादिना ॥ 43 ॥

श्लोक 11.11.44

वैष्णवे बन्धुसत्कृत्या हृदि खे ध्याननिष्ठया । वायौ मुख्यधिया तोये द्रव्यैस् तोयपुरःसरैः ॥ 44 ॥

श्लोक 11.11.45

स्थण्डिले मन्त्रहृदयैर् भोगैर् आत्मानम् आत्मनि । क्षेत्रज्ञं सर्वभूतेषु समत्वेन यजेत माम् ॥ 45 ॥

श्लोक 11.11.46

धिष्ण्येष्व् इत्य् एषु मद्रूपं शङ्खचक्रगदाम्बुजैः । युक्तं चतुर्भुजं शान्तं ध्यायन्न् अर्चेत् समाहितः ॥ 46 ॥

श्लोक 11.11.47

इष्टापूर्तेन माम् एवं यो यजेत समाहितः । लभते मयि सद्भक्तिं मत्स्मृतिः साधुसेवया ॥ 47 ॥

श्लोक 11.11.48

प्रायेण भक्तियोगेन सत्सङ्गेन विनोद्धव । नोपायो विद्यते सम्यक् प्रायणं हि सताम् अहम् ॥ 48 ॥

श्लोक 11.11.49

अथैतत् परमं गुह्यं शृण्वतो यदुनन्दन । सुगोप्यम् अपि वक्ष्यामि त्वं मे भृत्यः सुहृत् सखा ॥ 49 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ