श्रीमद्भागवत एकादश स्कन्ध अध्याय 12
श्रीमद्भागवत एकादश स्कन्ध अध्याय 12 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 11.12.1
न रोधयति मां योगो न साङ्ख्यं धर्म एव च । न स्वाध्यायस् तपस् त्यागो नेष्टापूर्तं न दक्षिणा ॥ 1 ॥
श्लोक 11.12.2
व्रतानि यज्ञश् छन्दांसि तीर्थानि नियमा यमाः । यथावरुन्धे सत्सङ्गः सर्वसङ्गापहो हि माम् ॥ 2 ॥
श्लोक 11.12.3
सत्सङ्गेन हि दैतेया यातुधाना मृगाः खगाः । गन्धर्वाप्सरसो नागाः सिद्धाश् चारणगुह्यकाः ॥ 3 ॥
श्लोक 11.12.4
विद्याधरा मनुष्येषु वैश्याः शूद्राः स्त्रियो ऽन्त्यजाः । रजस्तमःप्रकृतयस् तस्मिंस् तस्मिन् युगे युगे ॥ 4 ॥
श्लोक 11.12.5
बहवो मत्पदं प्राप्तास् त्वाष्ट्रकायाधवादयः । वृषपर्वा बलिर् बाणो मयश् चाथ विभीषणः ॥ 5 ॥
श्लोक 11.12.6
सुग्रीवो हनुमान् ऋक्षो गजो गृध्रो वणिक्पथः । व्याधः कुब्जा व्रजे गोप्यो यज्ञपत्न्यस् तथापरे ॥ 6 ॥
श्लोक 11.12.7
ते नाधीतश्रुतिगणा नोपासितमहत्तमाः । अव्रतातप्ततपसः मत्सङ्गान् माम् उपागताः ॥ 7 ॥
श्लोक 11.12.8
केवलेन हि भावेन गोप्यो गावो नगा मृगाः । ये ऽन्ये मूढधियो नागाः सिद्धा माम् ईयुर् अञ्जसा ॥ 8 ॥
श्लोक 11.12.9
यं न योगेन साङ्ख्येन दानव्रततपोऽध्वरैः । व्याख्यास्वाध्यायसन्न्यासैः प्राप्नुयाद् यत्नवान् अपि ॥ 9 ॥
श्लोक 11.12.10
रामेण सार्धं मथुरां प्रणीते श्वाफल्किना मय्य् अनुरक्तचित्ताः । विगाढभावेन न मे वियोगतीव्राधयो ऽन्यं ददृशुः सुखाय ॥ 10 ॥
श्लोक 11.12.11
तास् ताः क्षपाः प्रेष्ठतमेन नीता मयैव वृन्दावनगोचरेण । क्षणार्धवत् ताः पुनर् अङ्ग तासां हीना मया कल्पसमा बभूवुः ॥ 11 ॥
श्लोक 11.12.12
ता नाविदन् मय्य् अनुषङ्गबद्धधियः स्वम् आत्मानम् अदस् तथेदम् । यथा समाधौ मुनयो ऽब्धितोये नद्यः प्रविष्टा इव नामरूपे ॥ 12 ॥
श्लोक 11.12.13
मत्कामा रमणं जारम् अस्वरूपविदो ऽबलाः । ब्रह्म मां परमं प्रापुः सङ्गाच् छतसहस्रशः ॥ 13 ॥
श्लोक 11.12.14
तस्मात् त्वम् उद्धवोत्सृज्य चोदनां प्रतिचोदनाम् । प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुतम् एव च ॥ 14 ॥
श्लोक 11.12.15
माम् एकम् एव शरणम् आत्मानं सर्वदेहिनाम् । याहि सर्वात्मभावेन मया स्या ह्य् अकुतोभयः ॥ 15 ॥
श्लोक 11.12.16
संशयः शृण्वतो वाचं तव योगेश्वरेश्वर । न निवर्तत आत्मस्थो येन भ्राम्यति मे मनः ॥ 16 ॥
श्लोक 11.12.17
स एष जीवो विवरप्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः । मनोमयं सूक्ष्मम् उपेत्य रूपं मात्रा स्वरो वर्ण इति स्थविष्ठः ॥ 17 ॥
श्लोक 11.12.18
यथानलः खे ऽनिलबन्धुर् उष्मा बलेन दारुण्य् अधिमथ्यमानः । अणुः प्रजातो हविषा समेधते तथैव मे व्यक्तिर् इयं हि वाणी ॥ 18 ॥
श्लोक 11.12.19
एवं गदिः कर्म गतिर् विसर्गो घ्राणो रसो दृक् स्पर्शः श्रुतिश् च । सङ्कल्पविज्ञानम् अथाभिमानः सूत्रं रजःसत्त्वतमोविकारः ॥ 19 ॥
श्लोक 11.12.20
अयं हि जीवस् त्रिवृद् अब्जयोनिर् अव्यक्त एको वयसा स आद्यः । विश्लिष्टशक्तिर् बहुधेव भाति बीजानि योनिं प्रतिपद्य यद्वत् ॥ 20 ॥
श्लोक 11.12.21
यस्मिन्न् इदं प्रोतम् अशेषम् ओतं पटो यथा तन्तुवितानसंस्थः । य एष संसारतरुः पुराणः कर्मात्मकः पुष्पफले प्रसूते ॥ 21 ॥
श्लोक 11.12.22
द्वे अस्य बीजे शतमूलस् त्रिनालः पञ्चस्कन्धः पञ्चरसप्रसूतिः । दशैकशाखो द्विसुपर्णनीडस् त्रिवल्कलो द्विफलो ऽर्कं प्रविष्टः ॥ 22 ॥
श्लोक 11.12.23
अदन्ति चैकं फलम् अस्य गृध्रा ग्रामेचरा एकम् अरण्यवासाः । हंसा य एकं बहुरूपम् इज्यैर् मायामयं वेद स वेद वेदम् ॥ 23 ॥
श्लोक 11.12.24
एवं गुरूपासनयैकभक्त्या विद्याकुठारेण शितेन धीरः । विवृश्च्य जीवाशयम् अप्रमत्तः सम्पद्य चात्मानम् अथ त्यजास्त्रम् ॥ 24 ॥