श्रीमद्भागवत एकादश स्कन्ध अध्याय 13
श्रीमद्भागवत एकादश स्कन्ध अध्याय 13 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 11.13.1
सत्त्वं रजस् तम इति गुणा बुद्धेर् न चात्मनः । सत्त्वेनान्यतमौ हन्यात् सत्त्वं सत्त्वेन चैव हि ॥ 1 ॥
श्लोक 11.13.2
सत्त्वाद् धर्मो भवेद् वृद्धात् पुंसो मद्भक्तिलक्षणः । सात्त्विकोपासया सत्त्वं ततो धर्मः प्रवर्तते ॥ 2 ॥
श्लोक 11.13.3
धर्मो रजस् तमो हन्यात् सत्त्ववृद्धिर् अनुत्तमः । आशु नश्यति तन्मूलो ह्य् अधर्म उभये हते ॥ 3 ॥
श्लोक 11.13.4
आगमो ऽपः प्रजा देशः कालः कर्म च जन्म च । ध्यानं मन्त्रो ऽथ संस्कारो दशैते गुणहेतवः ॥ 4 ॥
श्लोक 11.13.5
तत् तत् सात्त्विकम् एवैषां यद् यद् वृद्धाः प्रचक्षते । निन्दन्ति तामसं तत् तद् राजसं तद्उपेक्षितम् ॥ 5 ॥
श्लोक 11.13.6
सात्त्विकान्य् एव सेवेत पुमान् सत्त्वविवृद्धये । ततो धर्मस् ततो ज्ञानं यावत् स्मृतिर् अपोहनम् ॥ 6 ॥
श्लोक 11.13.7
वेणुसङ्घर्षजो वह्निर् दग्ध्वा शाम्यति तद्वनम् । एवं गुणव्यत्ययजो देहः शाम्यति तत्क्रियः ॥ 7 ॥
श्लोक 11.13.8
विदन्ति मर्त्याः प्रायेण विषयान् पदम् आपदाम् । तथापि भुञ्जते कृष्ण तत् कथं श्वखराजवत् ॥ 8 ॥
श्लोक 11.13.9
अहम् इत्य् अन्यथाबुद्धिः प्रमत्तस्य यथा हृदि । उत्सर्पति रजो घोरं ततो वैकारिकं मनः ॥ 9 ॥
श्लोक 11.13.10
रजोयुक्तस्य मनसः सङ्कल्पः सविकल्पकः । ततः कामो गुणध्यानाद् दुःसहः स्याद् धि दुर्मतेः ॥ 10 ॥
श्लोक 11.13.11
करोति कामवशगः कर्माण्य् अविजितेन्द्रियः । दुःखोदर्काणि सम्पश्यन् रजोवेगविमोहितः ॥ 11 ॥
श्लोक 11.13.12
रजस्तमोभ्यां यद् अपि विद्वान् विक्षिप्तधीः पुनः । अतन्द्रितो मनो युञ्जन् दोषदृष्टिर् न सज्जते ॥ 12 ॥
श्लोक 11.13.13
अप्रमत्तो ऽनुयुञ्जीत मनो मय्य् अर्पयञ् छनैः । अनिर्विण्णो यथाकालं जितश्वासो जितासनः ॥ 13 ॥
श्लोक 11.13.14
एतावान् योग आदिष्टो मच्छिष्यैः सनकादिभिः । सर्वतो मन आकृष्य मय्य् अद्धावेश्यते यथा ॥ 14 ॥
श्लोक 11.13.15
यदा त्वं सनकादिभ्यो येन रूपेण केशव । योगम् आदिष्टवान् एतद् रूपम् इच्छामि वेदितुम् ॥ 15 ॥
श्लोक 11.13.16
पुत्रा हिरण्यगर्भस्य मानसाः सनकादयः । पप्रच्छुः पितरं सूक्ष्मां योगस्यैकान्तिकीम् गतिम् ॥ 16 ॥
श्लोक 11.13.17
गुणेष्व् आविशते चेतो गुणाश् चेतसि च प्रभो । कथम् अन्योन्यसन्त्यागो मुमुक्षोर् अतितितीर्षोः ॥ 17 ॥
श्लोक 11.13.18
एवं पृष्टो महादेवः स्वयम्भूर् भूतभावनः । ध्यायमानः प्रश्नबीजं नाभ्यपद्यत कर्मधीः ॥ 18 ॥
श्लोक 11.13.19
स माम् अचिन्तयद् देवः प्रश्नपारतितीर्षया । तस्याहं हंसरूपेण सकाशम् अगमं तदा ॥ 19 ॥
श्लोक 11.13.20
दृष्ट्वा माम् त उपव्रज्य कृत्व पादाभिवन्दनम् । ब्रह्माणम् अग्रतः कृत्वा पप्रच्छुः को भवान् इति ॥ 20 ॥
श्लोक 11.13.21
इत्य् अहं मुनिभिः पृष्टस् तत्त्वजिज्ञासुभिस् तदा । यद् अवोचम् अहं तेभ्यस् तद् उद्धव निबोध मे ॥ 21 ॥
श्लोक 11.13.22
वस्तुनो यद्य् अनानात्व आत्मनः प्रश्न ईदृशः । कथं घटेत वो विप्रा वक्तुर् वा मे क आश्रयः ॥ 22 ॥
श्लोक 11.13.23
पञ्चात्मकेषु भूतेषु समानेषु च वस्तुतः । को भवान् इति वः प्रश्नो वाचारम्भो ह्य् अनर्थकः ॥ 23 ॥
श्लोक 11.13.24
मनसा वचसा दृष्ट्या गृह्यते ऽन्यैर् अपीन्द्रियैः । अहम् एव न मत्तो ऽन्यद् इति बुध्यध्वम् अञ्जसा ॥ 24 ॥
श्लोक 11.13.25
गुणेष्व् आविशते चेतो गुणाश् चेतसि च प्रजाः । जीवस्य देह उभयं गुणाश् चेतो मद्आत्मनः ॥ 25 ॥
श्लोक 11.13.26
गुणेषु चाविशच् चित्तम् अभीक्ष्णं गुणसेवया । गुणाश् च चित्तप्रभवा मद्रूप उभयं त्यजेत् ॥ 26 ॥
श्लोक 11.13.27
जाग्रत् स्वप्नः सुषुप्तं च गुणतो बुद्धिवृत्तयः । तासां विलक्षणो जीवः साक्षित्वेन विनिश्चितः ॥ 27 ॥
श्लोक 11.13.28
यर्हि संसृतिबन्धो ऽयम् आत्मनो गुणवृत्तिदः । मयि तुर्ये स्थितो जह्यात् त्यागस् तद् गुणचेतसाम् ॥ 28 ॥
श्लोक 11.13.29
अहङ्कारकृतं बन्धम् आत्मनो ऽर्थविपर्ययम् । विद्वान् निर्विद्य संसारचिन्तां तुर्ये स्थितस् त्यजेत् ॥ 29 ॥
श्लोक 11.13.30
यावन् नानार्थधीः पुंसो न निवर्तेत युक्तिभिः । जागर्त्य् अपि स्वपन्न् अज्ञः स्वप्ने जागरणं यथा ॥ 30 ॥
श्लोक 11.13.31
असत्त्वाद् आत्मनो ऽन्येषां भावानां तत्कृता भिदा । गतयो हेतवश् चास्य मृषा स्वप्नदृशो यथा ॥ 31 ॥
श्लोक 11.13.32
यो जागरे बहिर् अनुक्षणधर्मिणो ऽर्थान् भुङ्क्ते समस्तकरणैर् हृदि तत्सदृक्षान् &अम्प्; स्वप्ने सुषुप्त उपसंहरते स एकः स्मृत्य्अन्वयात् त्रिगुणवृत्तिदृग् इन्द्रियेशः ॥ 32 ॥
श्लोक 11.13.33
एवं विमृश्य गुणतो मनसस् त्र्य्अवस्था मन्मायया मयि कृता इति निश्चितार्थाः । सञ्छिद्य हार्दम् अनुमानसद्उक्तितीक्ष्ण ज्ञानासिना भजत माखिलसंशयाधिम् ॥ 33 ॥
श्लोक 11.13.34
ईक्षेत विभ्रमम् इदं मनसो विलासं दृष्टं विनष्टम् अतिलोलम् अलातचक्रम् । विज्ञानम् एकम् उरुधेव विभाति माया स्वप्नस् त्रिधा गुणविसर्गकृतो विकल्पः ॥ 34 ॥
श्लोक 11.13.35
दृष्टिम् ततः प्रतिनिवर्त्य निवृत्ततृष्णस् तूष्णीं भवेन् निजसुखानुभवो निरीहः । सन्दृश्यते क्व च यदीदम् अवस्तुबुद्ध्या त्यक्तं भ्रमाय न भवेत् स्मृतिर् आनिपातात् ॥ 35 ॥
श्लोक 11.13.36
देहं च नश्वरम् अवस्थितम् उत्थितं वा सिद्धो न पश्यति यतो ऽध्यगमत् स्वरूपम् । दैवाद् अपेतम् अथ दैववशाद् उपेतं वासो यथा परिकृतं मदिरामदान्धः ॥ 36 ॥
श्लोक 11.13.37
देहो ऽपि दैववशगः खलु कर्म यावत् स्वारम्भकं प्रतिसमीक्षत एव सासुः । तं सप्रपञ्चम् अधिरूढसमाधियोगः स्वाप्नं पुनर् न भजते प्रतिबुद्धवस्तुः ॥ 37 ॥
श्लोक 11.13.38
मयैतद् उक्तं वो विप्रा गुह्यं यत् साङ्ख्ययोगयोः । जानीत मागतं यज्ञं युष्मद्धर्मविवक्षया ॥ 38 ॥
श्लोक 11.13.39
अहं योगस्य साङ्ख्यस्य सत्यस्यर्तस्य तेजसः । परायणं द्विजश्रेष्ठाः श्रियः कीर्तेर् दमस्य च ॥ 39 ॥
श्लोक 11.13.40
मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् । सुहृदं प्रियम् आत्मानं साम्यासङ्गादयो ऽगुणाः ॥ 40 ॥
श्लोक 11.13.41
इति मे छिन्नसन्देहा मुनयः सनकादयः । सभाजयित्वा परया भक्त्यागृणत संस्तवैः ॥ 41 ॥
श्लोक 11.13.42
तैर् अहं पूजितः संयक् संस्तुतः परमर्षिभिः । प्रत्येयाय स्वकं धाम पश्यतः परमेष्ठिनः ॥ 42 ॥