मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत एकादश स्कन्ध अध्याय 14

श्रीमद्भागवत एकादश स्कन्ध अध्याय 14 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 11.14.1

वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्मवादिनः । तेषां विकल्पप्राधान्यम् उताहो एकमुख्यता ॥ 1 ॥

श्लोक 11.14.2

भवतोदाहृतः स्वामिन् भक्तियोगो ऽनपेक्षितः । निरस्य सर्वतः सङ्गं येन त्वय्य् आविशेन् मनः ॥ 2 ॥

श्लोक 11.14.3

कालेन नष्टा प्रलये वाणीयं वेदसंज्ञिता । मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मद्आत्मकः ॥ 3 ॥

श्लोक 11.14.4

तेन प्रोक्ता स्वपुत्राय मनवे पूर्वजाय सा । ततो भृग्व्आदयो ऽगृह्णन् सप्त ब्रह्ममहर्षयः ॥ 4 ॥

श्लोक 11.14.5

तेभ्यः पितृभ्यस् तत्पुत्रा देवदानवगुह्यकाः । मनुष्याः सिद्धगन्धर्वाः सविद्याधरचारणाः ॥ 5 ॥

श्लोक 11.14.6

किन्देवाः किन्नरा नागा रक्षःकिम्पुरुषादयः । बह्व्यस् तेषां प्रकृतयो रजःसत्त्वतमोभुवः ॥ 6 ॥

श्लोक 11.14.7

याभिर् भूतानि भिद्यन्ते भूतानां पतयस् तथा । यथाप्रकृति सर्वेषां चित्रा वाचः स्रवन्ति हि ॥ 7 ॥

श्लोक 11.14.8

एवं प्रकृतिवैचित्र्याद् भिद्यन्ते मतयो नृणाम् । पारम्पर्येण केषाञ्चित् पाषण्डमतयो ऽपरे ॥ 8 ॥

श्लोक 11.14.9

मन्मायामोहितधियः पुरुषाः पुरुषर्षभ । श्रेयो वदन्त्य् अनेकान्तं यथाकर्म यथारुचि ॥ 9 ॥

श्लोक 11.14.10

धर्मम् एके यशश् चान्ये कामं सत्यं दमं शमम् । अन्ये वदन्ति स्वार्थं वा ऐश्वर्यं त्यागभोजनम् । केचिद् यज्ञं तपो दानं व्रतानि नियमान् यमान् ॥ 10 ॥

श्लोक 11.14.11

आद्य्अन्तवन्त एवैषां लोकाः कर्मविनिर्मिताः । दुःखोदर्कास् तमोनिष्ठाः क्षुद्रा मन्दाः शुचार्पिताः ॥ 11 ॥

श्लोक 11.14.12

मय्य् अर्पितात्मनः सभ्य निरपेक्षस्य सर्वतः । मयात्मना सुखं यत् तत् कुतः स्याद् विषयात्मनाम् ॥ 12 ॥

श्लोक 11.14.13

अकिञ्चनस्य दान्तस्य शान्तस्य समचेतसः । मया सन्तुष्टमनसः सर्वाः सुखमया दिशः ॥ 13 ॥

श्लोक 11.14.14

न पारमेष्ठ्यं न महेन्द्रधिष्ण्यं न सार्वभौमं न रसाधिपत्यम् &अम्प्; न योगसिद्धीर् अपुनर्भवं वा मय्य् अर्पितात्मेच्छति मद् विनान्यत् ॥ 14 ॥

श्लोक 11.14.15

न तथा मे प्रियतम आत्मयोनिर् न शङ्करः । न च सङ्कर्षणो न श्रीर् नैवात्मा च यथा भवान् ॥ 15 ॥

श्लोक 11.14.16

निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् । अनुव्रजाम्य् अहं नित्यं पूयेयेत्य् अङ्घ्रिरेणुभिः ॥ 16 ॥

श्लोक 11.14.17

निष्किञ्चना मय्य् अनुरक्तचेतसः शान्ता महान्तो ऽखिलजीववत्सलाः । कामैर् अनालब्धधियो जुषन्ति ते यन् नैरपेक्ष्यं न विदुः सुखं मम ॥ 17 ॥

श्लोक 11.14.18

बाध्यमानो ऽपि मद्भक्तो विषयैर् अजितेन्द्रियः । प्रायः प्रगल्भया भक्त्या विषयैर् नाभिभूयते ॥ 18 ॥

श्लोक 11.14.19

यथाग्निः सुसमृद्धार्चिः करोत्य् एधांसि भस्मसात् । तथा मद्विषया भक्तिर् उद्धवैनांसि कृत्स्नशः ॥ 19 ॥

श्लोक 11.14.20

न साधयति मां योगो न साङ्ख्यं धर्म उद्धव । न स्वाध्यायस् तपस् त्यागो यथा भक्तिर् ममोर्जिता ॥ 20 ॥

श्लोक 11.14.21

भक्त्याहम् एकया ग्राह्यः श्रद्धयात्मा प्रियः सताम् । भक्तिः पुनाति मन्निष्ठा श्वपाकान् अपि सम्भवात् ॥ 21 ॥

श्लोक 11.14.22

धर्मः सत्यदयोपेतो विद्या वा तपसान्विता । मद्भक्त्यापेतम् आत्मानं न सम्यक् प्रपुनाति हि ॥ 22 ॥

श्लोक 11.14.23

कथं विना रोमहर्षं द्रवता चेतसा विना । विनानन्दाश्रुकलया शुध्येद् भक्त्या विनाशयः ॥ 23 ॥

श्लोक 11.14.24

वाग् गद्गदा द्रवते यस्य चित्तं रुदत्य् अभीक्ष्णं हसति क्वचिच् च । विलज्ज उद्गायति नृत्यते च मद्भक्तियुक्तो भुवनं पुनाति ॥ 24 ॥

श्लोक 11.14.25

यथाग्निना हेम मलं जहाति ध्मातं पुनः स्वं भजते च रूपम् । आत्मा च कर्मानुशयं विधूय मद्भक्तियोगेन भजत्य् अथो माम् ॥ 25 ॥

श्लोक 11.14.26

यथा यथात्मा परिमृज्यते ऽसौ मत्पुण्यगाथाश्रवणाभिधानैः । तथा तथा पश्यति वस्तु सूक्ष्मं चक्षुर् यथैवाञ्जनसम्प्रयुक्तम् ॥ 26 ॥

श्लोक 11.14.27

विषयान् ध्यायतश् चित्तं विषयेषु विषज्जते । माम् अनुस्मरतश् चित्तं मय्य् एव प्रविलीयते ॥ 27 ॥

श्लोक 11.14.28

तस्माद् असद्अभिध्यानं यथा स्वप्नमनोरथम् । हित्वा मयि समाधत्स्व मनो मद्भावभावितम् ॥ 28 ॥

श्लोक 11.14.29

स्त्रीणां स्त्रीसङ्गिनां सङ्गं त्यक्त्वा दूरत आत्मवान् । क्षेमे विविक्त आसीनश् चिन्तयेन् माम् अतन्द्रितः ॥ 29 ॥

श्लोक 11.14.30

न तथास्य भवेत् क्लेशो बन्धश् चान्यप्रसङ्गतः । योषित्सङ्गाद् यथा पुंसो यथा तत्सङ्गिसङ्गतः ॥ 30 ॥

श्लोक 11.14.31

यथा त्वाम् अरविन्दाक्ष यादृशं वा यद्आत्मकम् । ध्यायेन् मुमुक्षुर् एतन् मे ध्यानं त्वं वक्तुम् अर्हसि ॥ 31 ॥

श्लोक 11.14.32

सम आसन आसीनः समकायो यथासुखम् । हस्ताव् उत्सङ्ग आधाय स्वनासाग्रकृतेक्षणः ॥ 32 ॥

श्लोक 11.14.33

प्राणस्य शोधयेन् मार्गं पूरकुम्भकरेचकैः । विपर्ययेणापि शनैर् अभ्यसेन् निर्जितेन्द्रियः ॥ 33 ॥

श्लोक 11.14.34

हृद्य् अविच्छिनम् ओंकारं घण्टानादं बिसोर्णवत् । प्राणेनोदीर्य तत्राथ पुनः संवेशयेत् स्वरम् ॥ 34 ॥

श्लोक 11.14.35

एवं प्रणवसंयुक्तं प्राणम् एव समभ्यसेत् । दशकृत्वस् त्रिषवणं मासाद् अर्वाग् जितानिलः ॥ 35 ॥

श्लोक 11.14.36

हृत्पुण्डरीकम् अन्तःस्थम् ऊर्ध्वनालम् अधोमुखम् । ध्यात्वोर्ध्वमुखम् उन्निद्रम् अष्टपत्रं सकर्णिकम् ॥ 36 ॥

श्लोक 11.14.37

कर्णिकायां न्यसेत् सूर्यसोमाग्नीन् उत्तरोत्तरम् । वह्निमध्ये स्मरेद् रूपं ममैतद् ध्यानमङ्गलम् ॥ 37 ॥

श्लोक 11.14.38

समं प्रशान्तं सुमुखं दीर्घचारुचतुर्भुजम् । सुचारुसुन्दरग्रीवं सुकपोलं शुचिस्मितम् ॥ 38 ॥

श्लोक 11.14.39

समानकर्णविन्यस्तस्फुरन्मकरकुण्डलम् । हेमाम्बरं घनश्यामं श्रीवत्सश्रीनिकेतनम् ॥ 39 ॥

श्लोक 11.14.40

शङ्खचक्रगदापद्मवनमालाविभूषितम् । नूपुरैर् विलसत्पादं कौस्तुभप्रभया युतम् ॥ 40 ॥

श्लोक 11.14.41

द्युमत्किरीटकटककटिसूत्राङ्गदायुतम् । सर्वाङ्गसुन्दरं हृद्यं प्रसादसुमुखेक्षनम् ॥ 41 ॥

श्लोक 11.14.42

सुकुमारम् अभिध्यायेत् सर्वाङ्गेषु मनो दधत् । इन्द्रियाणीन्द्रियार्थेभ्यो मनसाकृष्य तन् मनः । बुद्ध्या सारथिना धीरः प्रणयेन् मयि सर्वतः ॥ 42 ॥

श्लोक 11.14.43

तत् सर्वव्यापकं चित्तम् आकृष्यैकत्र धारयेत् । नान्यानि चिन्तयेद् भूयः सुस्मितं भावयेन् मुखम् ॥ 43 ॥

श्लोक 11.14.44

तत्र लब्धपदं चित्तम् आकृष्य व्योम्नि धारयेत् । तच् च त्यक्त्वा मद्आरोहो न किञ्चिद् अपि चिन्तयेत् ॥ 44 ॥

श्लोक 11.14.45

एवं समाहितमतिर् माम् एवात्मानम् आत्मनि । विचष्टे मयि सर्वात्मन् ज्योतिर् ज्योतिषि संयुतम् ॥ 45 ॥

श्लोक 11.14.46

ध्यानेनेत्थं सुतीव्रेण युञ्जतो योगिनो मनः । संयास्यत्य् आशु निर्वाणं द्रव्य ज्ञानक्रियाभ्रमः ॥ 46 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ