मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत एकादश स्कन्ध अध्याय 15

श्रीमद्भागवत एकादश स्कन्ध अध्याय 15 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 11.15.1

जितेन्द्रियस्य युक्तस्य जितश्वासस्य योगिनः । मयि धारयतश् चेत उपतिष्ठन्ति सिद्धयः ॥ 1 ॥

श्लोक 11.15.2

कया धारणया का स्वित् कथं वा सिद्धिर् अच्युत । कति वा सिद्धयो ब्रूहि योगिनां सिद्धिदो भवान् ॥ 2 ॥

श्लोक 11.15.3

सिद्धयो ऽष्टादश प्रोक्ता धारणा योगपारगैः । तासाम् अष्टौ मत्प्रधाना दशैव गुणहेतवः ॥ 3 ॥

श्लोक 11.15.4

अणिमा महिमा मूर्तेर् लघिमा प्राप्तिर् इन्द्रियैः । प्राकाम्यं श्रुतदृष्टेषु शक्तिप्रेरणम् ईशिता ॥ 4 ॥

श्लोक 11.15.5

गुणेष्व् असङ्गो वशिता यत्कामस् तद् अवस्यति । एता मे सिद्धयः सौम्य अष्टाव् औत्पत्तिका मताः ॥ 5 ॥

श्लोक 11.15.6

अनूर्मिमत्त्वं देहे ऽस्मिन् दूरश्रवणदर्शनम् । मनोजवः कामरूपं परकायप्रवेशनम् ॥ 6 ॥

श्लोक 11.15.7

स्वच्छन्दमृत्युर् देवानां सहक्रीडानुदर्शनम् । यथासङ्कल्पसंसिद्धिर् आज्ञाप्रतिहता गतिः ॥ 7 ॥

श्लोक 11.15.8

त्रिकालज्ञत्वम् अद्वन्द्वं परचित्ताद्य्अभिज्ञता । अग्न्य्अर्काम्बुविषादीनां प्रतिष्टम्भो ऽपराजयः ॥ 8 ॥

श्लोक 11.15.9

एताश् चोद्देशतः प्रोक्ता योगधारणसिद्धयः । यया धारणया या स्याद् यथा वा स्यान् निबोध मे ॥ 9 ॥

श्लोक 11.15.10

भूतसूक्ष्मात्मनि मयि तन्मात्रं धारयेन् मनः । अणिमानम् अवाप्नोति तन्मात्रोपासको मम ॥ 10 ॥

श्लोक 11.15.11

महत्तत्त्वात्मनि मयि यथासंस्थं मनो दधत् । महिमानम् अवाप्नोति भूतानां च पृथक् पृथक् ॥ 11 ॥

श्लोक 11.15.12

परमाणुमये चित्तं भूतानां मयि रञ्जयन् । कालसूक्ष्मार्थतां योगी लघिमानम् अवाप्नुयात् ॥ 12 ॥

श्लोक 11.15.13

धारयन् मय्य् अहंतत्त्वे मनो वैकारिके ऽखिलम् । सर्वेन्द्रियाणाम् आत्मत्वं प्राप्तिं प्राप्नोति मन्मनाः ॥ 13 ॥

श्लोक 11.15.14

महत्य् आत्मनि यः सूत्रे धारयेन् मयि मानसम् । प्राकाम्यं पारमेष्ठ्यं मे विन्दते ऽव्यक्तजन्मनः ॥ 14 ॥

श्लोक 11.15.15

विष्णौ त्र्य्अधीश्वरे चित्तं धारयेत् कालविग्रहे । स ईशित्वम् अवाप्नोति क्षेत्रज्ञक्षेत्रचोदनाम् ॥ 15 ॥

श्लोक 11.15.16

नारायणे तुरीयाख्ये भगवच्छब्दशब्दिते । मनो मय्य् आदधद् योगी मद्धर्मा वशिताम् इयात् ॥ 16 ॥

श्लोक 11.15.17

निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः । परमानन्दम् आप्नोति यत्र कामो ऽवसीयते ॥ 17 ॥

श्लोक 11.15.18

श्वेतद्वीपपतौ चित्तं शुद्धे धर्ममये मयि । धारयञ् छ्वेततां याति षड्ऊर्मिरहितो नरः ॥ 18 ॥

श्लोक 11.15.19

मय्य् आकाशात्मनि प्राणे मनसा घोषम् उद्वहन् । तत्रोपलब्धा भूतानां हंसो वाचः शृणोत्य् असौ ॥ 19 ॥

श्लोक 11.15.20

चक्षुस् त्वष्टरि संयोज्य त्वष्टारम् अपि चक्षुषि । मां तत्र मनसा ध्यायन् विश्वं पश्यति दूरतः ॥ 20 ॥

श्लोक 11.15.21

मनो मयि सुसंयोज्य देहं तद्अनुवायुना । मद्धारणानुभावेन तत्रात्मा यत्र वै मनः ॥ 21 ॥

श्लोक 11.15.22

यदा मन उपादाय यद् यद् रूपं बुभूषति । तत् तद् भवेन् मनोरूपं मद्योगबलम् आश्रयः ॥ 22 ॥

श्लोक 11.15.23

परकायं विशन् सिद्ध आत्मानं तत्र भावयेत् । पिण्डं हित्वा विशेत् प्राणो वायुभूतः षडङ्घ्रिवत् ॥ 23 ॥

श्लोक 11.15.24

पार्ष्ण्यापीड्य गुदं प्राणं हृद्उरःकण्ठमूर्धसु । आरोप्य ब्रह्मरन्ध्रेण ब्रह्म नीत्वोत्सृजेत् तनुम् ॥ 24 ॥

श्लोक 11.15.25

विहरिष्यन् सुराक्रीडे मत्स्थं सत्त्वं विभावयेत् । विमानेनोपतिष्ठन्ति सत्त्ववृत्तीः सुरस्त्रियः ॥ 25 ॥

श्लोक 11.15.26

यथा सङ्कल्पयेद् बुद्ध्या यदा वा मत्परः पुमान् । मयि सत्ये मनो युञ्जंस् तथा तत् समुपाश्नुते ॥ 26 ॥

श्लोक 11.15.27

यो वै मद्भावम् आपन्न ईशितुर् वशितुः पुमान् । कुतश्चिन् न विहन्येत तस्य चाज्ञा यथा मम ॥ 27 ॥

श्लोक 11.15.28

मद्भक्त्या शुद्धसत्त्वस्य योगिनो धारणाविदः । तस्य त्रैकालिकी बुद्धिर् जन्ममृत्यूपबृंहिता ॥ 28 ॥

श्लोक 11.15.29

अग्न्य्आदिभिर् न हन्येत मुनेर् योगमयं वपुः । मद्योगशान्तचित्तस्य यादसाम् उदकं यथा ॥ 29 ॥

श्लोक 11.15.30

मद्विभूतीर् अभिध्यायन् श्रीवत्सास्त्रविभूषिताः । ध्वजातपत्रव्यजनैः स भवेद् अपराजितः ॥ 30 ॥

श्लोक 11.15.31

उपासकस्य माम् एवं योगधारणया मुनेः । सिद्धयः पूर्वकथिता उपतिष्ठन्त्य् अशेषतः ॥ 31 ॥

श्लोक 11.15.32

जितेन्द्रियस्य दान्तस्य जितश्वासात्मनो मुनेः । मद्धारणां धारयतः का सा सिद्धिः सुदुर्लभा ॥ 32 ॥

श्लोक 11.15.33

अन्तरायान् वदन्त्य् एता युञ्जतो योगम् उत्तमम् । मया सम्पद्यमानस्य कालक्षपणहेतवः ॥ 33 ॥

श्लोक 11.15.34

जन्मौषधितपोमन्त्रैर् यावतीर् इह सिद्धयः । योगेनाप्नोति ताः सर्वा नान्यैर् योगगतिं व्रजेत् ॥ 34 ॥

श्लोक 11.15.35

सर्वासाम् अपि सिद्धीनां हेतुः पतिर् अहं प्रभुः । अहं योगस्य साङ्ख्यस्य धर्मस्य ब्रह्मवादिनाम् ॥ 35 ॥

श्लोक 11.15.36

अहम् आत्मान्तरो बाह्यो ऽनावृतः सर्वदेहिनाम् । यथा भूतानि भूतेषु बहिर् अन्तः स्वयं तथा ॥ 36 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ