श्रीमद्भागवत एकादश स्कन्ध अध्याय 16
श्रीमद्भागवत एकादश स्कन्ध अध्याय 16 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 11.16.1
त्वं ब्रह्म परमं साक्षाद् अनाद्य्अन्तम् अपावृतम् । सर्वेषाम् अपि भावानां त्राणस्थित्य्अप्ययोद्भवः ॥ 1 ॥
श्लोक 11.16.2
उच्चावचेषु भूतेषु दुर्ज्ञेयम् अकृतात्मभिः । उपासते त्वां भगवन् याथातथ्येन ब्राह्मणाः ॥ 2 ॥
श्लोक 11.16.3
येषु येषु च भूतेषु भक्त्या त्वां परमर्षयः । उपासीनाः प्रपद्यन्ते संसिद्धिं तद् वदस्व मे ॥ 3 ॥
श्लोक 11.16.4
गूढश् चरसि भूतात्मा भूतानां भूतभावन । न त्वां पश्यन्ति भूतानि पश्यन्तं मोहितानि ते ॥ 4 ॥
श्लोक 11.16.5
याः काश् च भूमौ दिवि वै रसायां विभूतयो दिक्षु महाविभूते । ता मह्यम् आख्याह्य् अनुभावितास् ते नमामि ते तीर्थपदाङ्घ्रिपद्मम् ॥ 5 ॥
श्लोक 11.16.6
एवम् एतद् अहं पृष्टः प्रश्नं प्रश्नविदां वर । युयुत्सुना विनशने सपत्नैर् अर्जुनेन वै ॥ 6 ॥
श्लोक 11.16.7
ज्ञात्वा ज्ञातिवधं गर्ह्यम् अधर्मं राज्यहेतुकम् । ततो निवृत्तो हन्ताहं हतो ऽयम् इति लौकिकः ॥ 7 ॥
श्लोक 11.16.8
स तदा पुरुषव्याघ्रो युक्त्या मे प्रतिबोधितः । अभ्यभाषत माम् एवं यथा त्वं रणमूर्धनि ॥ 8 ॥
श्लोक 11.16.9
अहम् आत्मोद्धवामीषां भूतानां सुहृद् ईश्वरः । अहं सर्वाणि भूतानि तेषां स्थित्य्उद्भवाप्ययः ॥ 9 ॥
श्लोक 11.16.10
अहं गतिर् गतिमतां कालः कलयताम् अहम् । गुनाणां चाप्य् अहं साम्यं गुणिन्य् औत्पत्तिको गुणः ॥ 10 ॥
श्लोक 11.16.11
गुणिनाम् अप्य् अहं सूत्रं महतां च महान् अहम् । सूक्ष्माणाम् अप्य् अहं जीवो दुर्जयानाम् अहं मनः ॥ 11 ॥
श्लोक 11.16.12
हिरण्यगर्भो वेदानां मन्त्राणां प्रणवस् त्रिवृत् । अक्षराणाम् अकारो ऽस्मि पदानि च्छन्दुसाम् अहम् ॥ 12 ॥
श्लोक 11.16.13
इन्द्रो ऽहं सर्वदेवानां वसूनाम् अस्मि हव्यवाट् । आदित्यानाम् अहं विष्णू रुद्राणां नीललोहितः ॥ 13 ॥
श्लोक 11.16.14
ब्रह्मर्षीणां भृगुर् अहं राजर्षीणाम् अहं मनुः । देवर्षीणां नारदो ऽहं हविर्धान्य् अस्मि धेनुषु ॥ 14 ॥
श्लोक 11.16.15
सिद्धेश्वराणां कपिलः सुपर्णो ऽहं पतत्रिणाम् । प्रजापतीनां दक्षो ऽहं पितॄणाम् अहम् अर्यमा ॥ 15 ॥
श्लोक 11.16.16
मां विद्ध्य् उद्धव दैत्यानां प्रह्लादम् असुरेश्वरम् । सोमं नक्षत्रौषधीनां धनेशं यक्षरक्षसाम् ॥ 16 ॥
श्लोक 11.16.17
ऐरावतं गजेन्द्राणां यादसां वरुणं प्रभुम् । तपतां द्युमतां सूर्यं मनुष्याणां च भूपतिम् ॥ 17 ॥
श्लोक 11.16.18
उच्चैःश्रवास् तुरङ्गाणां धातूनाम् अस्मि काञ्चनम् । यमः संयमतां चाहम् सर्पाणाम् अस्मि वासुकिः ॥ 18 ॥
श्लोक 11.16.19
नागेन्द्राणाम् अनन्तो ऽहं मृगेन्द्रः शृङ्गिदंष्ट्रिणाम् । आश्रमाणाम् अहं तुर्यो वर्णानां प्रथमो ऽनघ ॥ 19 ॥
श्लोक 11.16.20
तीर्थानां स्रोतसां गङ्गा समुद्रः सरसाम् अहम् । आयुधानां धनुर् अहं त्रिपुरघ्नो धनुष्मताम् ॥ 20 ॥
श्लोक 11.16.21
धिष्ण्यानाम् अस्म्य् अहं मेरुर् गहनानां हिमालयः । वनस्पतीनाम् अश्वत्थ ओषधीनाम् अहं यवः ॥ 21 ॥
श्लोक 11.16.22
पुरोधसां वसिष्ठो ऽहं ब्रह्मिष्ठानां बृहस्पतिः । स्कन्दो ऽहं सर्वसेनान्याम् अग्रण्यां भगवान् अजः ॥ 22 ॥
श्लोक 11.16.23
यज्ञानां ब्रह्मयज्ञो ऽहं व्रतानाम् अविहिंसनम् । वाय्व्अग्न्य्अर्काम्बुवाग्आत्मा शुचीनाम् अप्य् अहं शुचिः ॥ 23 ॥
श्लोक 11.16.24
योगानाम् आत्मसंरोधो मन्त्रो ऽस्मि विजिगीषताम् । आन्वीक्षिकी कौशलानां विकल्पः ख्यातिवादिनाम् ॥ 24 ॥
श्लोक 11.16.25
स्त्रीणां तु शतरूपाहं पुंसां स्वायम्भुवो मनुः । नारायणो मुनीनां च कुमारो ब्रह्मचारिणाम् ॥ 25 ॥
श्लोक 11.16.26
धर्माणाम् अस्मि सन्न्यासः क्षेमाणाम् अबहिर्मतिः । गुह्यानां सुनृतं मौनं मिथुनानाम् अजस् त्व् अहम् ॥ 26 ॥
श्लोक 11.16.27
संवत्सरो ऽस्म्य् अनिमिषाम् ऋतूनां मधुमाधवौ । मासानां मार्गशीर्षो ऽहं नक्षत्राणां तथाभिजित् ॥ 27 ॥
श्लोक 11.16.28
अहं युगानां च कृतं धीराणां देवलो ऽसितः । द्वैपायनो ऽस्मि व्यासानां कवीनां काव्य आत्मवान् ॥ 28 ॥
श्लोक 11.16.29
वासुदेवो भगवतां त्वं तु भागवतेष्व् अहम् । किम्पुरुषानां हनुमान् विद्याध्राणां सुदर्शनः ॥ 29 ॥
श्लोक 11.16.30
रत्नानां पद्मरागो ऽस्मि पद्मकोशः सुपेशसाम् । कुशो ऽस्मि दर्भजातीनां गव्यम् आज्यं हविःष्व् अहम् ॥ 30 ॥
श्लोक 11.16.31
व्यवसायिनाम् अहं लक्ष्मीः कितवानां छलग्रहः । तितिक्षास्मि तितिक्षूणां सत्त्वं सत्त्ववताम् अहम् ॥ 31 ॥
श्लोक 11.16.32
ओजः सहो बलवतां कर्माहं विद्धि सात्वताम् । सात्वतां नवमूर्तीनाम् आदिमूर्तिर् अहं परा ॥ 32 ॥
श्लोक 11.16.33
विश्वावसुः पूर्वचित्तिर् गन्धर्वाप्सरसाम् अहम् । भूधराणाम् अहं स्थैर्यं गन्धमात्रम् अहं भुवः ॥ 33 ॥
श्लोक 11.16.34
अपां रसश् च परमस् तेजिष्ठानां विभावसुः । प्रभा सूर्येन्दुताराणां शब्दो ऽहं नभसः परः ॥ 34 ॥
श्लोक 11.16.35
ब्रह्मण्यानां बलिर् अहं वीराणाम् अहम् अर्जुनः । भूतानां स्थितिर् उत्पत्तिर् अहं वै प्रतिसङ्क्रमः ॥ 35 ॥
श्लोक 11.16.36
गत्य्उक्त्य्उत्सर्गोपादानम् आनन्दस्पर्शलक्षनम् । आस्वादश्रुत्य्अवघ्राणम् अहं सर्वेन्द्रियेन्द्रियम् ॥ 36 ॥
श्लोक 11.16.37
पृथिवी वायुर् आकाश आपो ज्योतिर् अहं महान् । विकारः पुरुषो ऽव्यक्तं रजः सत्त्वं तमः परम् । अहम् एतत् प्रसङ्ख्यानं ज्ञानं तत्त्वविनिश्चयः ॥ 37 ॥
श्लोक 11.16.38
मयेश्वरेण जीवेन गुणेन गुणिना विना । सर्वात्मनापि सर्वेण न भावो विद्यते क्वचित् ॥ 38 ॥
श्लोक 11.16.39
सङ्ख्यानं परमाणूनां कालेन क्रियते मया । न तथा मे विभूतीनां सृजतो ऽण्डानि कोटिशः ॥ 39 ॥
श्लोक 11.16.40
तेजः श्रीः कीर्तिर् ऐश्वर्यं ह्रीस् त्यागः सौभगं भगः । वीर्यं तितिक्षा विज्ञानं यत्र यत्र स मे ऽंशकः ॥ 40 ॥
श्लोक 11.16.41
एतास् ते कीर्तिताः सर्वाः सङ्क्षेपेण विभूतयः । मनोविकारा एवैते यथा वाचाभिधीयते ॥ 41 ॥
श्लोक 11.16.42
वाचं यच्छ मनो यच्छ प्राणान् यच्छेद्रियाणि च । आत्मानम् आत्मना यच्छ न भूयः कल्पसे ऽध्वने ॥ 42 ॥
श्लोक 11.16.43
यो वै वाङ्मनसी संयग् असंयच्छन् धिया यतिः । तस्य व्रतं तपो दानं स्रवत्य् आमघटाम्बुवत् ॥ 43 ॥
श्लोक 11.16.44
तस्माद् वचो मनः प्राणान् नियच्छेन् मत्परायणः । मद्भक्तियुक्तया बुद्ध्या ततः परिसमाप्यते ॥ 44 ॥