मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत एकादश स्कन्ध अध्याय 17

श्रीमद्भागवत एकादश स्कन्ध अध्याय 17 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 11.17.1

यस् त्वयाभिहितः पूर्वं धर्मस् त्वद्भक्तिलक्षणः । वर्णाशमाचारवतां सर्वेषां द्विपदाम् अपि ॥ 1 ॥

श्लोक 11.17.2

यथानुष्ठीयमानेन त्वयि भक्तिर् नृणां भवेत् । स्वधर्मेणारविन्दाक्ष तन् ममाख्यातुम् अर्हसि ॥ 2 ॥

श्लोक 11.17.3

पुरा किल महाबाहो धर्मं परमकं प्रभो । यत् तेन हंसरूपेण ब्रह्मणे ऽभ्यात्थ माधव ॥ 3 ॥

श्लोक 11.17.4

स इदानीं सुमहता कालेनामित्रकर्शन । न प्रायो भविता मर्त्यलोके प्राग् अनुशासितः ॥ 4 ॥

श्लोक 11.17.5

वक्ता कर्ताविता नान्यो धर्मस्याच्युत ते भुवि । सभायाम् अपि वैरिञ्च्यां यत्र मूर्तिधराः कलाः ॥ 5 ॥

श्लोक 11.17.6

कर्त्रावित्रा प्रवक्त्रा च भवता मधुसूदन । त्यक्ते महीतले देव विनष्टं कः प्रवक्ष्यति ॥ 6 ॥

श्लोक 11.17.7

तत् त्वं नः सर्वधर्मज्ञ धर्मस् त्वद्भक्तिलक्षणः । यथा यस्य विधीयेत तथा वर्णय मे प्रभो ॥ 7 ॥

श्लोक 11.17.8

इत्थं स्वभृत्यमुख्येन पृष्टः स भगवान् हरिः । प्रीतः क्षेमाय मर्त्यानां धर्मान् आह सनातनान् ॥ 8 ॥

श्लोक 11.17.9

धर्म्य एष तव प्रश्नो नैःश्रेयसकरो नृणाम् । वर्णाश्रमाचारवतां तम् उद्धव निबोध मे ॥ 9 ॥

श्लोक 11.17.10

आदौ कृतयुगे वर्णो नृणां हंस इति स्मृतः । कृतकृत्याः प्रजा जात्या तस्मात् कृतयुगं विदुः ॥ 10 ॥

श्लोक 11.17.11

वेदः प्रणव एवाग्रे धर्मो ऽहं वृषरूपधृक् । उपासते तपोनिष्ठा हंसं मां मुक्तकिल्बिषाः ॥ 11 ॥

श्लोक 11.17.12

त्रेतामुखे महाभाग प्राणान् मे हृदयात् त्रयी । विद्या प्रादुरभूत् तस्या अहम् आसं त्रिवृन् मखः ॥ 12 ॥

श्लोक 11.17.13

विप्रक्षत्रियविट्शूद्रा मुखबाहूरुपादजाः । वैराजात् पुरुषाज् जाता य आत्माचारलक्षणाः ॥ 13 ॥

श्लोक 11.17.14

गृहाश्रमो जघनतो ब्रह्मचर्यं हृदो मम । वक्षःस्थलाद् वनेवासः सन्न्यासः शिरसि स्थितः ॥ 14 ॥

श्लोक 11.17.15

वर्णानाम् आश्रमाणां च जन्मभूम्य्अनुसारिणीः । आसन् प्रकृतयो नॄनां नीचैर् नीचोत्तमोत्तमाः ॥ 15 ॥

श्लोक 11.17.16

शमो दमस् तपः शौचं सन्तोषः क्षान्तिर् आर्जवम् । मद्भक्तिश् च दया सत्यं ब्रह्मप्रकृतयस् त्व् इमाः ॥ 16 ॥

श्लोक 11.17.17

तेजो बलं धृतिः शौर्यं तितिक्षौदार्यम् उद्यमः । स्थैर्यं ब्रह्मन्यम् ऐश्वर्यं क्षत्रप्रकृतयस् त्व् इमाः ॥ 17 ॥

श्लोक 11.17.18

आस्तिक्यं दाननिष्ठा च अदम्भो ब्रह्मसेवनम् । अतुष्टिर् अर्थोपचयैर् वैश्यप्रकृतयस् त्व् इमाः ॥ 18 ॥

श्लोक 11.17.19

शुश्रूषणं द्विजगवां देवानां चाप्य् अमायया । तत्र लब्धेन सन्तोषः शूद्रप्रकृतयस् त्व् इमाः ॥ 19 ॥

श्लोक 11.17.20

अशौचम् अनृतं स्तेयं नास्तिक्यं शुष्कविग्रहः । कामः क्रोधश् च तर्षश् च स भावो ऽन्त्यावसायिनाम् ॥ 20 ॥

श्लोक 11.17.21

अहिंसा सत्यम् अस्तेयम् अकामक्रोधलोभता । भूतप्रियहितेहा च धर्मो ऽयं सार्ववर्णिकः ॥ 21 ॥

श्लोक 11.17.22

द्वितीयं प्राप्यानुपूर्व्याज् जन्मोपनयनं द्विजः । वसन् गुरुकुले दान्तो ब्रह्माधीयीत चाहूतः ॥ 22 ॥

श्लोक 11.17.23

मेखलाजिनदण्डाक्षब्रह्मसूत्रकमण्डलून् । जटिलो ऽधौतदद्वासो ऽरक्तपीठः कुशान् दधत् ॥ 23 ॥

श्लोक 11.17.24

स्नानभोजनहोमेषु जपोच्चारे च वाग्यतः । न च्छिन्द्यान् नखरोमाणि कक्षोपस्थगतान्य् अपि ॥ 24 ॥

श्लोक 11.17.25

रेतो नावकिरेज् जातु ब्रह्मव्रतधरः स्वयम् । अवकीर्णे ऽवगाह्याप्सु यतासुस् त्रिपदां जपेत् ॥ 25 ॥

श्लोक 11.17.26

अग्न्य्अर्काचार्यगोविप्रगुरुवृद्धसुराञ् शुचिः । समाहित उपासीत सन्ध्ये द्वे यतवाग् जपन् ॥ 26 ॥

श्लोक 11.17.27

आचार्यं मां विजानीयान् नावन्मन्येत कर्हिचित् । न मर्त्यबुद्ध्यासूयेत सर्वदेवमयो गुरुः ॥ 27 ॥

श्लोक 11.17.28

सायं प्रातर् उपानीय भैक्ष्यं तस्मै निवेदयेत् । यच् चान्यद् अप्य् अनुज्ञातम् उपयुञ्जीत संयतः ॥ 28 ॥

श्लोक 11.17.29

शुश्रूषमाण आचार्यं सदोपासीत नीचवत् । यानशय्यासनस्थानैर् नातिदूरे कृताञ्जलिः ॥ 29 ॥

श्लोक 11.17.30

एवंवृत्तो गुरुकुले वसेद् भोगविवर्जितः । विद्या समाप्यते यावद् बिभ्रद् व्रतम् अखण्डितम् ॥ 30 ॥

श्लोक 11.17.31

यद्य् असौ छन्दसां लोकम् आरोक्ष्यन् ब्रह्मविष्टपम् । गुरवे विन्यसेद् देहं स्वाध्यायार्थं बृहद्व्रतः ॥ 31 ॥

श्लोक 11.17.32

अग्नौ गुराव् आत्मनि च सर्वभूतेषु मां परम् । अपृथग्धीर् उपसीत ब्रह्मवर्चस्व्य् अकल्मषः ॥ 32 ॥

श्लोक 11.17.33

स्त्रीणां निरीक्षणस्पर्शसंलापक्ष्वेलनादिकम् । प्राणिनो मिथुनीभूतान् अगृहस्थो ऽग्रतस् त्यजेत् ॥ 33 ॥

श्लोक 11.17.34

शौचम् आचमनं स्नानं सन्ध्योपास्तिर् ममार्चनम् । तीर्थसेवा जपो ऽस्पृश्याभक्ष्यासम्भाष्यवर्जनम् ॥ 34 ॥

श्लोक 11.17.35

सर्वाश्रमप्रयुक्तो ऽयं नियमः कुलनन्दन । मद्भावः सर्वभूतेषु मनोवाक्कायसंयमः ॥ 35 ॥

श्लोक 11.17.36

एवं बृहद्व्रतधरो ब्राह्मणो ऽग्निर् इव ज्वलन् । मद्भक्तस् तीव्रतपसा दग्धकर्माशयो ऽमलः ॥ 36 ॥

श्लोक 11.17.37

अथानन्तरम् आवेक्ष्यन् यथाजिज्ञासितागमः । गुरवे दक्षिणां दत्त्वा स्नायाद् गुर्व्अनुमोदितः ॥ 37 ॥

श्लोक 11.17.38

गृहं वनं वोपविशेत् प्रव्रजेद् वा द्विजोत्तमः । आश्रमाद् आश्रमं गच्छेन् नान्यथामत्परश् चरेत् ॥ 38 ॥

श्लोक 11.17.39

गृहार्थी सदृशीं भार्याम् उद्वहेद् अजुगुप्सिताम् । यवीयसीं तु वयसा यं सवर्णाम् अनु क्रमात् ॥ 39 ॥

श्लोक 11.17.40

इज्याध्ययनदानानि सर्वेषां च द्विजन्मनाम् । प्रतिग्रहो ऽध्यापनं च ब्राह्मणस्यैव याजनम् ॥ 40 ॥

श्लोक 11.17.41

प्रतिग्रहं मन्यमानस् तपस्तेजोयशोनुदम् । अन्याभ्याम् एव जीवेत शिलैर् वा दोषदृक् तयोः ॥ 41 ॥

श्लोक 11.17.42

ब्राह्मणस्य हि देहो ऽयं क्षुद्रकामाय नेष्यते । कृच्छ्राय तपसे चेह प्रेत्यानन्तसुखाय च ॥ 42 ॥

श्लोक 11.17.43

शिलोञ्छवृत्त्या परितुष्टचित्तो धर्मं महान्तं विरजं जुषाणः । मय्य् अर्पितात्मा गृह एव तिष्ठन् नातिप्रसक्तः समुपैति शान्तिम् ॥ 43 ॥

श्लोक 11.17.44

समुद्धरन्ति ये विप्रं सीदन्तं मत्परायणम् । तान् उद्धरिष्ये न चिराद् आपद्भ्यो नौर् इवार्णवात् ॥ 44 ॥

श्लोक 11.17.45

सर्वाः समुद्धरेद् राजा पितेव व्यसनात् प्रजाः । आत्मानम् आत्मना धीरो यथा गजपतिर् गजान् ॥ 45 ॥

श्लोक 11.17.46

एवंविधो नरपतिर् विमानेनार्कवर्चसा । विधूयेहाशुभं कृत्स्नम् इन्द्रेण सह मोदते ॥ 46 ॥

श्लोक 11.17.47

सीदन् विप्रो वणिग्वृत्त्या पण्यैर् एवापदं तरेत् । खड्गेन वापदाक्रान्तो न श्ववृत्त्या कथञ्चन ॥ 47 ॥

श्लोक 11.17.48

वैश्यवृत्त्या तु राजन्यो जीवेन् मृगययापदि । चरेद् वा विप्ररूपेण न श्ववृत्त्या कथञ्चन ॥ 48 ॥

श्लोक 11.17.49

शूद्रवृत्तिं भजेद् वैश्यः शूद्रः कारुकटक्रियाम् । कृच्छ्रान् मुक्तो न गर्ह्येण वृत्तिं लिप्सेत कर्मणा ॥ 49 ॥

श्लोक 11.17.50

वेदाध्यायस्वधास्वाहाबल्य्अन्नाद्यैर् यथोदयम् । देवर्षिपितृभूतानि मद्रूपाण्य् अन्व्अहं यजेत् ॥ 50 ॥

श्लोक 11.17.51

यदृच्छयोपपन्नेन शुक्लेनोपार्जितेन वा । धनेनापीडयन् भृत्यान् न्यायेनैवाहरेत् क्रतून् ॥ 51 ॥

श्लोक 11.17.52

कुटुम्बेषु न सज्जेत न प्रमाद्येत् कुटुम्ब्य् अपि । विपश्चिन् नश्वरं पश्येद् अदृष्टम् अपि दृष्टवत् ॥ 52 ॥

श्लोक 11.17.53

पुत्रदाराप्तबन्धूनां सङ्गमः पान्थसङ्गमः । अनुदेहं वियन्त्य् एते स्वप्नो निद्रानुगो यथा ॥ 53 ॥

श्लोक 11.17.54

इत्थं परिमृशन् मुक्तो गृहेष्व् अतिथिवद् वसन् । न गृहैर् अनुबध्येत निर्ममो निरहङ्कृतः ॥ 54 ॥

श्लोक 11.17.55

कर्मभिर् गृहमेधीयैर् इष्ट्वा माम् एव भक्तिमान् । तिष्ठेद् वनं वोपविशेत् प्रजावान् वा परिव्रजेत् ॥ 55 ॥

श्लोक 11.17.56

यस् त्व् आसक्तमतिर् गेहे पुत्रवित्तैषणातुरः । स्त्रैणः कृपणधीर् मूढो ममाहम् इति बध्यते ॥ 56 ॥

श्लोक 11.17.57

अहो मे पितरौ वृद्धौ भार्या बालात्मजात्मजाः । अनाथा माम् ऋते दीनाः कथं जीवन्ति दुःखिताः ॥ 57 ॥

श्लोक 11.17.58

एवं गृहाशयाक्षिप्तहृदयो मूढधीर् अयम् । अतृप्तस् तान् अनुध्यायन् मृतो ऽन्धं विशते तमः ॥ 58 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ