श्रीमद्भागवत एकादश स्कन्ध अध्याय 18
श्रीमद्भागवत एकादश स्कन्ध अध्याय 18 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 11.18.1
वनं विविक्षुः पुत्रेषु भार्यां न्यस्य सहैव वा । वन एव वसेच् छान्तस् तृतीयं भागम् आयुषः ॥ 1 ॥
श्लोक 11.18.2
कन्दमूलफलैर् वन्यैर् मेध्यैर् वृत्तिं प्रकल्पयेत् । वसीत वल्कलं वासस् तृणपर्णाजिनानि वा ॥ 2 ॥
श्लोक 11.18.3
केशरोमनखश्मश्रुमलानि बिभृयाद् दतः । न धावेद् अप्सु मज्जेत त्रि कालं स्थण्डिलेशयः ॥ 3 ॥
श्लोक 11.18.4
ग्रीष्मे तप्येत पञ्चाग्नीन् वर्षास्व् आसारषाड् जले । आकण्थमग्नः शिशिर एवं वृत्तस् तपश् चरेत् ॥ 4 ॥
श्लोक 11.18.5
अग्निपक्वं समश्नीयात् कालपक्वम् अथापि वा । उलूखलाश्मकुट्टो वा दन्तोलूखल एव वा ॥ 5 ॥
श्लोक 11.18.6
स्वयं सञ्चिनुयात् सर्वम् आत्मनो वृत्तिकारणम् । देशकालबलाभिज्ञो नाददीतान्यदाहृतम् ॥ 6 ॥
श्लोक 11.18.7
वन्यैश् चरुपुरोडाशैर् निर्वपेत् कालचोदितान् । न तु श्रौतेन पशुना मां यजेत वनाश्रमी ॥ 7 ॥
श्लोक 11.18.8
अग्निहोत्रं च दर्शश् च पौर्णमासश् च पूर्ववत् । चातुर्मास्यानि च मुनेर् आम्नातानि च नैगमैः ॥ 8 ॥
श्लोक 11.18.9
एवं चीर्णेन तपसा मुनिर् धमनिसन्ततः । मां तपोमयम् आराध्य ऋषिलोकाद् उपैति माम् ॥ 9 ॥
श्लोक 11.18.10
यस् त्व् एतत् कृच्छ्रतश् चीर्णं तपो निःश्रेयसं महत् । कामायाल्पीयसे युञ्ज्याद् बालिशः को ऽपरस् ततः ॥ 10 ॥
श्लोक 11.18.11
यदासौ नियमे ऽकल्पो जरया जातवेपथुः । आत्मन्य् अग्नीन् समारोप्य मच्चित्तो ऽग्निं समाविशेत् ॥ 11 ॥
श्लोक 11.18.12
यदा कर्मविपाकेषु लोकेषु निरयात्मसु । विरागो जायते सम्यङ् न्यस्ताग्निः प्रव्रजेत् ततः ॥ 12 ॥
श्लोक 11.18.13
इष्ट्वा यथोपदेशं मां दत्त्वा सर्वस्वम् ऋत्विजे । अग्नीन् स्वप्राण आवेश्य निरपेक्षः परिव्रजेत् ॥ 13 ॥
श्लोक 11.18.14
विप्रस्य वै सन्न्यसतो देवा दारादिरूपिणः । विघ्नान् कुर्वन्त्य् अयं ह्य् अस्मान् आक्रम्य समियात् परम् ॥ 14 ॥
श्लोक 11.18.15
बिभृयाच् चेन् मुनिर् वासः कौपीनाच्छादनं परम् । त्यक्तं न दण्डपात्राभ्याम् अन्यत् किञ्चिद् अनापदि ॥ 15 ॥
श्लोक 11.18.16
दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं पिबेज् जलम् । सत्यपूतां वदेद् वाचं मनःपूतं समाचरेत् ॥ 16 ॥
श्लोक 11.18.17
मौनानीहानिलायामा दण्डा वाग्देहचेतसाम् । न ह्य् एते यस्य सन्त्य् अङ्ग वेणुभिर् न भवेद् यतिः ॥ 17 ॥
श्लोक 11.18.18
भिक्षां चतुर्षु वर्णेषु विगर्ह्यान् वर्जयंश् चरेत् । सप्तागारान् असङ्कॢप्तांस् तुष्येल् लब्धेन तावता ॥ 18 ॥
श्लोक 11.18.19
बहिर् जलाशयं गत्वा तत्रोपस्पृश्य वाग्यतः । विभज्य पावितं शेषं भुञ्जीताशेषम् आहृतम् ॥ 19 ॥
श्लोक 11.18.20
एकश् चरेन् महीम् एतां निःसङ्गः संयतेन्द्रियः । आत्मक्रीड आत्मरत आत्मवान् समदर्शनः ॥ 20 ॥
श्लोक 11.18.21
विविक्तक्षेमशरणो मद्भावविमलाशयः । आत्मानं चिन्तयेद् एकम् अभेदेन मया मुनिः ॥ 21 ॥
श्लोक 11.18.22
अन्वीक्षेतात्मनो बन्धं मोक्षं च ज्ञाननिष्ठया । बन्ध इन्द्रियविक्षेपो मोक्ष एषां च संयमः ॥ 22 ॥
श्लोक 11.18.23
तस्मान् नियम्य षड्वर्गं मद्भावेन चरेन् मुनिः । विरक्तः क्षुद्रकामेभ्यो लब्ध्वात्मनि सुखं महत् ॥ 23 ॥
श्लोक 11.18.24
पुरग्रामव्रजान् सार्थान् भिक्षार्थं प्रविशंश् चरेत् । पुण्यदेशसरिच्छैलवनाश्रमवतीं महीम् ॥ 24 ॥
श्लोक 11.18.25
वानप्रस्थाश्रमपदेष्व् अभीक्ष्णं भैक्ष्यम् आचरेत् । संसिध्यत्य् आश्व् असम्मोहः शुद्धसत्त्वः शिलान्धसा ॥ 25 ॥
श्लोक 11.18.26
नैतद् वस्तुतया पश्येद् दृश्यमानं विनश्यति । असक्तचित्तो विरमेद् इहामुत्रचिकीर्षितात् ॥ 26 ॥
श्लोक 11.18.27
यद् एतद् आत्मनि जगन् मनोवाक्प्राणसंहतम् । सर्वं मायेति तर्केण स्वस्थस् त्यक्त्वा न तत् स्मरेत् ॥ 27 ॥
श्लोक 11.18.28
ज्ञाननिष्ठो विरक्तो वा मद्भक्तो वानपेक्षकः । सलिङ्गान् आश्रमांस् त्यक्त्वा चरेद् अविधिगोचरः ॥ 28 ॥
श्लोक 11.18.29
बुधो बालकवत् क्रीडेत् कुशलो जडवच् चरेत् । वदेद् उन्मत्तवद् विद्वान् गोचर्यां नैगमश् चरेत् ॥ 29 ॥
श्लोक 11.18.30
वेदवादरतो न स्यान् न पाषण्डी न हैतुकः । शुष्कवादविवादे न कञ्चित् पक्षं समाश्रयेत् ॥ 30 ॥
श्लोक 11.18.31
नोद्विजेत जनाद् धीरो जनं चोद्वेजयेन् न तु । अतिवादांस् तितिक्षेत नावमन्येत कञ्चन । देहम् उद्दिश्य पशुवद् वैरं कुर्यान् न केनचित् ॥ 31 ॥
श्लोक 11.18.32
एक एव परो ह्य् आत्मा भूतेष्व् आत्मन्य् अवस्थितः । यथेन्दुर् उदपात्रेषु भूतान्य् एकात्मकानि च ॥ 32 ॥
श्लोक 11.18.33
अलब्ध्वा न विषीदेत काले काले ऽशनं क्वचित् । लब्ध्वा न हृष्येद् धृतिमान् उभयं दैवतन्त्रितम् ॥ 33 ॥
श्लोक 11.18.34
आहारार्थं समीहेत युक्तं तत्प्राणधारणम् । तत्त्वं विमृश्यते तेन तद् विज्ञाय विमुच्यते ॥ 34 ॥
श्लोक 11.18.35
यदृच्छयोपपन्नान्नम् अद्याच् छ्रेष्ठम् उतापरम् । तथा वासस् तथा शय्यां प्राप्तं प्राप्तं भजेन् मुनिः ॥ 35 ॥
श्लोक 11.18.36
शौचम् आचमनं स्नानं न तु चोदनया चरेत् । अन्यांश् च नियमाञ् ज्ञानी यथाहं लीलयेश्वरः ॥ 36 ॥
श्लोक 11.18.37
न हि तस्य विकल्पाख्या या च मद्वीक्षया हता । आदेहान्तात् क्वचित् ख्यातिस् ततः सम्पद्यते मया ॥ 37 ॥
श्लोक 11.18.38
दुःखोदर्केषु कामेषु जातनिर्वेद आत्मवान् । अज्ज्ञासितमद्धर्मो मुनिं गुरुम् उपव्रजेत् ॥ 38 ॥
श्लोक 11.18.39
तावत् परिचरेद् भक्तः श्रद्धावान् अनसूयकः । यावद् ब्रह्म विजानीयान् माम् एव गुरुम् आदृतः ॥ 39 ॥
श्लोक 11.18.40
यस् त्व् असंयतषड्वर्गः प्रचण्डेन्द्रियसारथिः । ज्ञानवैराग्यरहितस् त्रिदण्डम् उपजीवति ॥ 40 ॥
श्लोक 11.18.41
सुरान् आत्मानम् आत्मस्थं निह्नुते मां च धर्महा । अविपक्वकषायो ऽस्माद् अमुष्माच् च विहीयते ॥ 41 ॥
श्लोक 11.18.42
भिक्षोर् धर्मः शमो ऽहिंसा तप ईक्षा वनौकसः । गृहिणो भूतरक्षेज्या द्विजस्याचार्यसेवनम् ॥ 42 ॥
श्लोक 11.18.43
ब्रह्मचर्यं तपः शौचं सन्तोषो भूतसौहृदम् । गृहस्थस्याप्य् ऋतौ गन्तुः सर्वेषां मद्उपासनम् ॥ 43 ॥
श्लोक 11.18.44
इति मां यः स्वधर्मेण भजेन् नित्यम् अनन्यभाक् । सर्वभूतेषु मद्भावो मद्भक्तिं विन्दते दृढाम् ॥ 44 ॥
श्लोक 11.18.45
भक्त्योद्धवानपायिन्या सर्वलोकमहेश्वरम् । सर्वोत्पत्त्य्अप्ययं ब्रह्म कारणं मोपयाति सः ॥ 45 ॥
श्लोक 11.18.46
इति स्वधर्मनिर्णिक्तसत्त्वो निर्ज्ञातमद्गतिः । ज्ञानविज्ञानसम्पन्नो न चिरात् समुपैति माम् ॥ 46 ॥
श्लोक 11.18.47
वर्णाश्रमवतां धर्म एष आचारलक्षणः । स एव मद्भक्तियुतो निःश्रेयसकरः परः ॥ 47 ॥
श्लोक 11.18.48
एतत् ते ऽभिहितं साधो भवान् पृच्छति यच् च माम् । यथा स्वधर्मसंयुक्तो भक्तो मां समियात् परम् ॥ 48 ॥