श्रीमद्भागवत एकादश स्कन्ध अध्याय 19
श्रीमद्भागवत एकादश स्कन्ध अध्याय 19 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 11.19.1
यो विद्याश्रुतसम्पन्नः आत्मवान् नानुमानिकः । मयामात्रम् इदं ज्ञात्वा ज्ञानं च मयि सन्न्यसेत् ॥ 1 ॥
श्लोक 11.19.2
ज्ञानिनस् त्व् अहम् एवेष्टः स्वार्थो हेतुश् च सम्मतः । स्वर्गश् चैवापवर्गश् च नान्यो ऽर्थो मद्ऋते प्रियः ॥ 2 ॥
श्लोक 11.19.3
ज्ञानविज्ञानसंसिद्धाः पदं श्रेष्ठं विदुर् मम । ज्ञानी प्रियतमो ऽतो मे ज्ञानेनासौ बिभर्ति माम् ॥ 3 ॥
श्लोक 11.19.4
तपस् तीर्थं जपो दानं पवित्राणीतराणि च । नालं कुर्वन्ति तां सिद्धिं या ज्ञानकलया कृता ॥ 4 ॥
श्लोक 11.19.5
तस्माज् ज्ञानेन सहितं ज्ञात्वा स्वात्मानम् उद्धव । ज्ञानविज्ञानसम्पन्नो भज मां भक्तिभावतः ॥ 5 ॥
श्लोक 11.19.6
ज्ञानविज्ञानयज्ञेन माम् इष्ट्वात्मानम् आत्मनि । सर्वयज्ञपतिं मां वै संसिद्धिं मुनयो ऽगमन् ॥ 6 ॥
श्लोक 11.19.7
त्वय्य् उद्धवाश्रयति यस् त्रिविधो विकारो मायान्तरापतति नाद्य्अपवर्गयोर् यत् &अम्प्; जन्मादयो ऽस्य यद् अमी तव तस्य किं स्युर् आद्य्अन्तयोर् यद् असतो ऽस्ति तद् एव मध्ये ॥ 7 ॥
श्लोक 11.19.8
ज्ञानं विशुद्धं विपुलं यथैतद् वैराग्यविज्ञानयुतं पुराणम् । आख्याहि विश्वेश्वर विश्वमूर्ते त्वद्भक्तियोगं च महद्विमृग्यम् ॥ 8 ॥
श्लोक 11.19.9
तापत्रयेणाभिहतस्य घोरे सन्तप्यमानस्य भवाध्वनीश । पश्यामि नान्यच् छरणं तवाङ्घ्रिद्वन्द्वातपत्राद् अमृताभिवर्षात् ॥ 9 ॥
श्लोक 11.19.10
दष्टं जनं सम्पतितं बिले ऽस्मिन् कालाहिना क्षुद्रसुखोरुतर्षम् । समुद्धरैनं कृपयापवर्ग्यैर् वचोभिर् आसिञ्च महानुभाव ॥ 10 ॥
श्लोक 11.19.11
इत्थम् एतत् पुरा राजा भीष्मं धर्मभृतां वरम् । अजातशत्रुः पप्रच्छ सर्वेषां नो ऽनुशृण्वताम् ॥ 11 ॥
श्लोक 11.19.12
निवृत्ते भारते युद्धे सुहृन्निधनविह्वलः । श्रुत्वा धर्मान् बहून् पश्चान् मोक्षधर्मान् अपृच्छत ॥ 12 ॥
श्लोक 11.19.13
तान् अहं ते ऽभिधास्यामि देवव्रतमखाच् छ्रुतान् । ज्ञानवैराग्यविज्ञानश्रद्धाभक्त्य्उपबृंहितान् ॥ 13 ॥
श्लोक 11.19.14
नवैकादश पञ्च त्रीन् भावान् भूतेषु येन वै । ईक्षेताथाइकम् अप्य् एषु तज् ज्ञानं मम निश्चितम् ॥ 14 ॥
श्लोक 11.19.15
एतद् एव हि विज्ञानं न तथैकेन येन यत् । स्थित्य्उत्पत्त्य्अप्ययान् पश्येद् भावानां त्रिगुणात्मनाम् ॥ 15 ॥
श्लोक 11.19.16
आदाव् अन्ते च मध्ये च सृज्यात् सृज्यं यद् अन्वियात् । पुनस् तत्प्रतिसङ्क्रामे यच् छिष्येत तद् एव सत् ॥ 16 ॥
श्लोक 11.19.17
श्रुतिः प्रत्यक्षम् ऐतिह्यम् अनुमानं चतुष्टयम् । प्रमाणेष्व् अनवस्थानाद् विकल्पात् स विरज्यते ॥ 17 ॥
श्लोक 11.19.18
कर्मणां परिणामित्वाद् आविरिञ्च्याद् अमङ्गलम् । विपश्चिन् नश्वरं पश्येद् अदृष्टम् अपि दृष्टवत् ॥ 18 ॥
श्लोक 11.19.19
भक्तियोगः पुरैवोक्तः प्रीयमाणाय ते ऽनघ । पुनश् च कथयिष्यामि मद्भक्तेः कारणं परं ॥ 19 ॥
श्लोक 11.19.20
श्रद्धामृतकथायां मे शश्वन् मद्अनुकीर्तनम् । परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम ॥ 20 ॥
श्लोक 11.19.21
आदरः परिचर्यायां सर्वाङ्गैर् अभिवन्दनम् । मद्भक्तपूजाभ्यधिका सर्वभूतेषु मन्मतिः ॥ 21 ॥
श्लोक 11.19.22
मद्अर्थेष्व् अङ्गचेष्टा च वचसा मद्गुणेरणम् । मय्य् अर्पणं च मनसः सर्वकामविवर्जनम् ॥ 22 ॥
श्लोक 11.19.23
मद्अर्थे ऽर्थपरित्यागो भोगस्य च सुखस्य च । इष्टं दत्तं हुतं जप्तं मद्अर्थं यद् व्रतं तपः ॥ 23 ॥
श्लोक 11.19.24
एवं धर्मैर् मनुष्याणाम् उद्धवात्मनिवेदिनाम् । मयि सञ्जायते भक्तिः को ऽन्यो ऽर्थो ऽस्यावशिष्यते ॥ 24 ॥
श्लोक 11.19.25
यदात्मन्य् अर्पितं चित्तं शान्तं सत्त्वोपबृंहितम् । धर्मं ज्ञानं स वैराग्यम् ऐश्वर्यं चाभिपद्यते ॥ 25 ॥
श्लोक 11.19.26
यद् अर्पितं तद् विकल्पे इन्द्रियैः परिधावति । रजस्वलं चासन्निष्ठं चित्तं विद्धि विपर्ययम् ॥ 26 ॥
श्लोक 11.19.27
धर्मो मद्भक्तिकृत् प्रोक्तो ज्ञानं चैकात्म्यदर्शनम् । गुणेस्व् असङ्गो वैराग्यम् ऐश्वर्यं चाणिमादयः ॥ 27 ॥
श्लोक 11.19.28
श्रीउद्धव उवाच यमः कतिविधः प्रोक्तो । नियमो वारिकर्षण कः शमः को दमः कृष्ण ॥ 28 ॥
श्लोक 11.19.29
का तितिक्षा धृतिः प्रभो किं दानं किं तपः शौर्यं । किम् सत्यम् ऋतम् उच्यते कस् त्यागः किं धनं चेष्टं ॥ 29 ॥
श्लोक 11.19.30
को यज्ञः का च दक्षिणा पुंसः किं स्विद् बलं श्रीमन् । भगो लाभश् च केशव का विद्या ह्रीः परा का श्रीः ॥ 30 ॥
श्लोक 11.19.31
किं सुखं दुःखम् एव च कः पण्डितः कश् च मूर्खः । कः पन्था उत्पथश् च कः कः स्वर्गो नरकः कः स्वित् ॥ 31 ॥
श्लोक 11.19.32
को बन्धुर् उत किं गृहम् क आढ्यः को दरिद्रो वा । कृपणः कः क ईश्वरः एतान् प्रश्नान् मम ब्रूहि । विपरीतांश् च सत्पते श्रीभगवान् उवाच ॥ 32 ॥
श्लोक 11.19.33
अहिंसा सत्यम् अस्तेयम् असङ्गो ह्रीर् असञ्चयः । आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्यं क्षमाभयम् ॥ 33 ॥
श्लोक 11.19.34
शौचं जपस् तपो होमः श्रद्धातिथ्यं मद्अर्चनम् । तीर्थाटनं परार्थेहा तुष्टिर् आचार्यसेवनम् ॥ 34 ॥
श्लोक 11.19.35
एते यमाः सनियमा उभयोर् द्वादश स्मृताः । पुंसाम् उपासितास् तात यथाकामं दुहन्ति हि ॥ 35 ॥
श्लोक 11.19.36
शमो मन्निष्ठता बुद्धेर् दम इन्द्रियसंयमः । तितिक्षा दुःखसम्मर्षो जिह्वोपस्थजयो धृतिः ॥ 36 ॥
श्लोक 11.19.37
दण्डन्यासः परं दानं कामत्यागस् तपः स्मृतम् । स्वभावविजयः शौर्यं सत्यं च समदर्शनम् ॥ 37 ॥
श्लोक 11.19.38
अन्यच् च सुनृता वाणी कविभिः परिकीर्तिता । कर्मस्व् असङ्गमः शौचं त्यागः सन्न्यास उच्यते ॥ 38 ॥
श्लोक 11.19.39
धर्म इष्टं धनं नॄणां यज्ञो ऽहं भगवत्तमः । दक्षिणा ज्ञानसन्देशः प्राणायामः परं बलम् ॥ 39 ॥
श्लोक 11.19.40
भगो म ऐश्वरो भावो लाभो मद्भक्तिर् उत्तमः । विद्यात्मनि भिदाबाधो जुगुप्सा ह्रीर् अकर्मसु ॥ 40 ॥
श्लोक 11.19.41
श्रीर् गुणा नैरपेक्ष्याद्याः सुखं दुःखसुखात्ययः । दुःखं कामसुखापेक्षा पण्डितो बन्धमोक्षवित् ॥ 41 ॥
श्लोक 11.19.42
मूर्खो देहाद्य्अहंबुद्धिः पन्था मन्निगमः स्मृतः । उत्पथश् चित्तविक्षेपः स्वर्गः सत्त्वगुणोदयः ॥ 42 ॥
श्लोक 11.19.43
नरकस् तमउन्नाहो बन्धुर् गुरुर् अहं सखे । गृहं शरीरं मानुष्यं गुणाढ्यो ह्य् आढ्य उच्यते ॥ 43 ॥
श्लोक 11.19.44
दरिद्रो यस् त्व् असन्तुष्टः कृपणो यो ऽजितेन्द्रियः । गुणेष्व् असक्तधीर् ईशो गुणसङ्गो विपर्ययः ॥ 44 ॥
श्लोक 11.19.45
एत उद्धव ते प्रश्नाः सर्वे साधु निरूपिताः । किं वर्णितेन बहुना लक्षणं गुणदोषयोः । गुणदोषदृशिर् दोषो गुणस् तूभयवर्जितः ॥ 45 ॥