श्रीमद्भागवत एकादश स्कन्ध अध्याय 20
श्रीमद्भागवत एकादश स्कन्ध अध्याय 20 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 11.20.1
विधिश् च प्रतिषेधश् च निगमो हीश्वरस्य ते । अवेक्षते ऽरविण्डाक्ष गुणं दोषं च कर्मणाम् ॥ 1 ॥
श्लोक 11.20.2
वर्णाश्रमविकल्पं च प्रतिलोमानुलोमजम् । द्रव्यदेशवयःकालान् स्वर्गं नरकम् एव च ॥ 2 ॥
श्लोक 11.20.3
गुणदोषभिदादृष्टिम् अन्तरेण वचस् तव । निःश्रेयसं कथं नॄणां निषेधविधिलक्षणम् ॥ 3 ॥
श्लोक 11.20.4
पितृदेवमनुष्यानां वेदश् चक्षुस् तवेश्वर । श्रेयस् त्व् अनुपलब्धे ऽर्थे साध्यसाधनयोर् अपि ॥ 4 ॥
श्लोक 11.20.5
गुणदोषभिदादृष्टिर् निगमात् ते न हि स्वतः । निगमेनापवादश् च भिदाया इति ह भ्रमः ॥ 5 ॥
श्लोक 11.20.6
योगास् त्रयो मया प्रोक्ता नॄणां श्रेयोविधित्सया । ज्ञानं कर्म च भक्तिश् च नोपायो ऽन्यो ऽस्ति कुत्रचित् ॥ 6 ॥
श्लोक 11.20.7
निर्विण्णानां ज्ञानयोगो न्यासिनाम् इह कर्मसु । तेष्व् अनिर्विण्णचित्तानां कर्मयोगस् तु कामिनाम् ॥ 7 ॥
श्लोक 11.20.8
यदृच्छया मत्कथादौ जातश्रद्धस् तु यः पुमान् । न निर्विण्णो नातिसक्तो भक्तियोगो ऽस्य सिद्धिदः ॥ 8 ॥
श्लोक 11.20.9
तावत् कर्माणि कुर्वीत न निर्विद्येत यावता । मत्कथाश्रवणादौ वा श्रद्धा यावन् न जायते ॥ 9 ॥
श्लोक 11.20.10
स्वधर्मस्थो यजन् यज्ञैर् अनाशीःकाम उद्धव । न याति स्वर्गनरकौ यद्य् अन्यन् न समाचरेत् ॥ 10 ॥
श्लोक 11.20.11
अस्मिंल् लोके वर्तमानः स्वधर्मस्थो ऽनघः शुचिः । ज्ञानं विशुद्धम् आप्नोति मद्भक्तिं वा यदृच्छया ॥ 11 ॥
श्लोक 11.20.12
स्वर्गिणो ऽप्य् एतम् इच्छन्ति लोकं निरयिणस् तथा । साधकं ज्ञानभक्तिभ्याम् उभयं तद्असाधकम् ॥ 12 ॥
श्लोक 11.20.13
न नरः स्वर्गतिं काङ्क्षेन् नारकीं वा विचक्षणः । नेमं लोकं च काङ्क्षेत देहावेशात् प्रमाद्यति ॥ 13 ॥
श्लोक 11.20.14
एतद् विद्वान् पुरा मृत्योर् अभवाय घटेत सः । अप्रमत्त इदं ज्ञात्वा मर्त्यम् अप्य् अर्थसिद्धिदम् ॥ 14 ॥
श्लोक 11.20.15
छिद्यमानं यमैर् एतैः कृतनीडं वनस्पतिम् । खगः स्वकेतम् उत्सृज्य क्षेमं याति ह्य् अलम्पटः ॥ 15 ॥
श्लोक 11.20.16
अहोरात्रैश् छिद्यमानं बुद्ध्वायुर् भयवेपथुः । मुक्तसङ्गः परं बुद्ध्वा निरीह उपशाम्यति ॥ 16 ॥
श्लोक 11.20.17
नृदेहम् आद्यं सुलभं सुदुर्लभं प्लवं सुकल्पं गुरुकर्णधारम् &अम्प्; मयानुकूलेन नभस्वतेरितं पुमान् भवाब्धिं न तरेत् स आत्महा ॥ 17 ॥
श्लोक 11.20.18
यदारम्भेषु निर्विण्णो विरक्तः संयतेन्द्रियः । अभ्यासेनात्मनो योगी धारयेद् अचलं मनः ॥ 18 ॥
श्लोक 11.20.19
धार्यमाणं मनो यर्हि भ्राम्यद् अश्व् अनवस्थितम् । अतन्द्रितो ऽनुरोधेन मार्गेणात्मवशं नयेत् ॥ 19 ॥
श्लोक 11.20.20
मनोगतिं न विसृजेज् जितप्राणो जितेन्द्रियः । सत्त्वसम्पन्नया बुद्ध्या मन आत्मवशं नयेत् ॥ 20 ॥
श्लोक 11.20.21
एष वै परमो योगो मनसः सङ्ग्रहः स्मृतः । हृदयज्ञत्वम् अन्विच्छन् दम्यस्येवार्वतो मुहुः ॥ 21 ॥
श्लोक 11.20.22
साङ्ख्येन सर्वभावानां प्रतिलोमानुलोमतः । भवाप्ययाव् अनुध्यायेन् मनो यावत् प्रसीदति ॥ 22 ॥
श्लोक 11.20.23
निर्विण्णस्य विरक्तस्य पुरुषस्योक्तवेदिनः । मनस् त्यजति दौरात्म्यं चिन्तितस्यानुचिन्तया ॥ 23 ॥
श्लोक 11.20.24
यमादिभिर् योगपथैर् आन्वीक्षिक्या च विद्यया । ममार्चोपासनाभिर् वा नान्यैर् योग्यं स्मरेन् मनः ॥ 24 ॥
श्लोक 11.20.25
यदि कुर्यात् प्रमादेन योगी कर्म विगर्हितम् । योगेनैव दहेद् अंहो नान्यत् तत्र कदाचन ॥ 25 ॥
श्लोक 11.20.26
स्वे स्वे ऽधिकारे या निष्ठा स गुणः परिकीर्तितः । कर्मणां जात्य्अशुद्धानाम् अनेन नियमः कृतः । गुणदोषविधानेन सङ्गानां त्याजनेच्छया ॥ 26 ॥
श्लोक 11.20.27
जातश्रद्धो मत्कथासु निर्विण्णः सर्वकर्मसु । वेद दुःखात्मकान् कामान् परित्यागे ऽप्य् अनीश्वरः ॥ 27 ॥
श्लोक 11.20.28
ततो भजेत मां प्रीतः श्रद्धालुर् दृढनिश्चयः । जुषमाणश् च तान् कामान् दुःखोदर्कांश् च गर्हयन् ॥ 28 ॥
श्लोक 11.20.29
प्रोक्तेन भक्तियोगेन भजतो मासकृन् मुनेः । कामा हृदय्या नश्यन्ति सर्वे मयि हृदि स्थिते ॥ 29 ॥
श्लोक 11.20.30
भिद्यते हृदयग्रन्थिश् छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि मयि दृष्टे ऽखिलात्मनि ॥ 30 ॥
श्लोक 11.20.31
तस्मान् मद्भक्तियुक्तस्य योगिनो वै मद्आत्मनः । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह ॥ 31 ॥
श्लोक 11.20.32
यत् कर्मभिर् यत् तपसा ज्ञानवैराग्यतश् च यत् । योगेन दानधर्मेण श्रेयोभिर् इतरैर् अपि ॥ 32 ॥
श्लोक 11.20.33
सर्वं मद्भक्तियोगेन मद्भक्तो लभते ऽञ्जसा । स्वर्गापवर्गं मद्धाम कथञ्चिद् यदि वाञ्छति ॥ 33 ॥
श्लोक 11.20.34
न किञ्चित् साधवो धीरा भक्ता ह्य् एकान्तिनो मम । वाञ्छन्त्य् अपि मया दत्तं कैवल्यम् अपुनर्भवम् ॥ 34 ॥
श्लोक 11.20.35
नैरपेक्ष्यं परं प्राहुर् निःश्रेयसम् अनल्पकम् । तस्मान् निराशिषो भक्तिर् निरपेक्षस्य मे भवेत् ॥ 35 ॥
श्लोक 11.20.36
न मय्य् एकान्तभक्तानां गुणदोषोद्भवा गुणाः । साधूनां समचित्तानां बुद्धेः परम् उपेयुषाम् ॥ 36 ॥
श्लोक 11.20.37
एवम् एतान् मया दिष्टान् अनुतिष्ठन्ति मे पथः । क्षेमं विन्दन्ति मत्स्थानं यद् ब्रह्म परमं विदुः ॥ 37 ॥