मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत एकादश स्कन्ध अध्याय 3

श्रीमद्भागवत एकादश स्कन्ध अध्याय 3 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 11.3.1

परस्य विष्णोर् ईशस्य मायिनाम् अपि मोहिनीम् । मायां वेदितुम् इच्छामो भगवन्तो ब्रुवन्तु नः ॥ 1 ॥

श्लोक 11.3.2

नानुतृप्ये जुषन् युष्मद्वचो हरिकथामृतम् । संसारतापनिस्तप्तो मर्त्यस् तत्तापभेषजम् ॥ 2 ॥

श्लोक 11.3.3

एभिर् भूतानि भूतात्मा महाभूतैर् महाभुज । ससर्जोच्चावचान्य् आद्यः स्वमात्रात्मप्रसिद्धये ॥ 3 ॥

श्लोक 11.3.4

एवं सृष्टानि भूतानि प्रविष्टः पञ्चधातुभिः । एकधा दशधात्मानं विभजन् जुषते गुणान् ॥ 4 ॥

श्लोक 11.3.5

गुणैर् गुणान् स भुञ्जान आत्मप्रद्योतितैः प्रभुः । मन्यमान इदं सृष्टम् आत्मानम् इह सज्जते ॥ 5 ॥

श्लोक 11.3.6

कर्माणि कर्मभिः कुर्वन् सनिमित्तानि देहभृत् । तत् तत् कर्मफलं गृह्णन् भ्रमतीह सुखेतरम् ॥ 6 ॥

श्लोक 11.3.7

इत्थं कर्मगतीर् गच्छन् बह्व्अभद्रवहाः पुमान् । आभूतसम्प्लवात् सर्गप्रलयाव् अश्नुते ऽवशः ॥ 7 ॥

श्लोक 11.3.8

धातूपप्लव आसन्ने व्यक्तं द्रव्यगुणात्मकम् । अनादिनिधनः कालो ह्य् अव्यक्तायापकर्षति ॥ 8 ॥

श्लोक 11.3.9

शतवर्षा ह्य् अनावृष्टिर् भविष्यत्य् उल्बणा भुवि । तत्कालोपचितोष्णार्को लोकांस् त्रीन् प्रतपिष्यति ॥ 9 ॥

श्लोक 11.3.10

पातालतलम् आरभ्य सङ्कर्षणमुखानलः । दहन्न् ऊर्ध्वशिखो विष्वग् वर्धते वायुनेरितः ॥ 10 ॥

श्लोक 11.3.11

संवर्तको मेघगणो वर्षति स्म शतं समाः । धाराभिर् हस्तिहस्ताभिर् लीयते सलिले विराट् ॥ 11 ॥

श्लोक 11.3.12

ततो विराजम् उत्सृज्य् वैराजः पुरुषो नृप । अव्यक्तं विशते सूक्ष्मं निरिन्धन इवानलः ॥ 12 ॥

श्लोक 11.3.13

वायुना हृतगन्धा भूः सलिलत्वाय कल्पते । सलिलं तद्धृतरसं ज्योतिष्ट्वायोपकल्पते ॥ 13 ॥

श्लोक 11.3.14

हृतरूपं तु तमसा वायौ ज्योतिः प्रलीयते । हृतस्पर्शो ऽवकाशेन वायुर् नभसि लीयते । कालात्मना हृतगुणं नभ आत्मनि लीयते ॥ 14 ॥

श्लोक 11.3.15

इन्द्रियाणि मनो बुद्धिः सह वैकारिकैर् नृप । प्रविशन्ति ह्य् अहङ्कारं स्वगुणैर् अहम् आत्मनि ॥ 15 ॥

श्लोक 11.3.16

एषा माया भगवतः सर्गस्थित्य्अन्तकारिणी । त्रिवर्णा वर्णितास्माभिः किं भूयः श्रोतुम् इच्छसि ॥ 16 ॥

श्लोक 11.3.17

यथैताम् ऐश्वरीं मायां दुस्तराम् अकृतात्मभिः । तरन्त्य् अञ्जः स्थूलधियो महर्ष इदम् उच्यताम् ॥ 17 ॥

श्लोक 11.3.18

कर्माण्य् आरभमाणानां दुःखहत्यै सुखाय च । पश्येत् पाकविपर्यासं मिथुनीचारिणां नृणाम् ॥ 18 ॥

श्लोक 11.3.19

नित्यार्तिदेन वित्तेन दुर्लभेनात्ममृत्युना । गृहापत्याप्तपशुभिः का प्रीतिः साधितैश् चलैः ॥ 19 ॥

श्लोक 11.3.20

एवं लोकं परम् विद्यान् नश्वरं कर्मनिर्मितम् । सतुल्यातिशयध्वंसं यथा मण्डलवर्तिनाम् ॥ 20 ॥

श्लोक 11.3.21

तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् । शाब्दे परे च निष्णातं ब्रह्मण्य् उपशमाश्रयम् ॥ 21 ॥

श्लोक 11.3.22

तत्र भागवतान् धर्मान् शिक्षेद् गुर्व्आत्मदैवतः । अमाययानुवृत्त्या यैस् तुष्येद् आत्मात्मदो हरिः ॥ 22 ॥

श्लोक 11.3.23

सर्वतो मनसो ऽसङ्गम् आदौ सङ्गं च साधुषु । दयां मैत्रीं प्रश्रयं च भूतेष्व् अद्धा यथोचितम् ॥ 23 ॥

श्लोक 11.3.24

शौचं तपस् तितिक्षां च मौनं स्वाध्यायम् आर्जवम् । ब्रह्मचर्यम् अहिंसां च समत्वं द्वन्द्वसंज्ञयोः ॥ 24 ॥

श्लोक 11.3.25

सर्वत्रात्मेश्वरान्वीक्षां कैवल्यम् अनिकेतताम् । विविक्तचीरवसनं सन्तोषं येन केनचित् ॥ 25 ॥

श्लोक 11.3.26

श्रद्धां भागवते शास्त्रे ऽनिन्दाम् अन्यत्र चापि हि । मनोवाक्कर्मदण्डं च सत्यं शमदमाव् अपि ॥ 26 ॥

श्लोक 11.3.27

श्रवणं कीर्तनं ध्यानं हरेर् अद्भुतकर्मणः । जन्मकर्मगुणानां च तद्अर्थे ऽखिलचेष्टितम् ॥ 27 ॥

श्लोक 11.3.28

इष्टं दत्तं तपो जप्तं वृत्तं यच् चात्मनः प्रियम् । दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनम् ॥ 28 ॥

श्लोक 11.3.29

एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम् । परिचर्यां चोभयत्र महत्सु नृषु साधुषु ॥ 29 ॥

श्लोक 11.3.30

परस्परानुकथनं पावनं भगवद्यशः । मिथो रतिर् मिथस् तुष्टिर् निवृत्तिर् मिथ आत्मनः ॥ 30 ॥

श्लोक 11.3.31

स्मरन्तः स्मारयन्तश् च मिथो ऽघौघहरं हरिम् । भक्त्या सञ्जातया भक्त्या बिभ्रत्य् उत्पुलकां तनुम् ॥ 31 ॥

श्लोक 11.3.32

क्वचिद् रुदन्त्य् अच्युतचिन्तया क्वचिद् धसन्ति नन्दन्ति वदन्त्य् अलौकिकाः &अम्प्; नृत्यन्ति गायन्त्य् अनुशीलयन्त्य् अजं भवन्ति तूष्णीं परम् एत्य निर्वृताः ॥ 32 ॥

श्लोक 11.3.33

इति भागवतान् धर्मान् शिक्षन् भक्त्या तद्उत्थया । नारायणपरो मायाम् अञ्जस् तरति दुस्तराम् ॥ 33 ॥

श्लोक 11.3.34

नारायणाभिधानस्य ब्रह्मणः परमात्मनः । निष्ठाम् अर्हथ नो वक्तुं यूयं हि ब्रह्मवित्तमाः ॥ 34 ॥

श्लोक 11.3.35

स्थित्य्उद्भवप्रलयहेतुर् अहेतुर् अस्य यत् स्वप्नजागरसुषुप्तिषु सद् बहिश् च । देहेन्द्रियासुहृदयानि चरन्ति येन सञ्जीवितानि तद् अवेहि परं नरेन्द्र ॥ 35 ॥

श्लोक 11.3.36

नैतन् मनो विशति वाग् उत चक्षुर् आत्मा प्राणेन्द्रियाणि च यथानलम् अर्चिषः स्वाः । शब्दो ऽपि बोधकनिषेधतयात्ममूलम् अर्थोक्तम् आह यद्ऋते न निषेधसिद्धिः ॥ 36 ॥

श्लोक 11.3.37

सत्त्वं रजस् तम इति त्रिवृद् एकम् आदौ सूत्रं महान् अहम् इति प्रवदन्ति जीवम् । ज्ञानक्रियार्थफलरूपतयोरुशक्ति ब्रह्मैव भाति सद् असच् च तयोः परं यत् ॥ 37 ॥

श्लोक 11.3.38

नात्मा जजान न मरिष्यति नैधते ऽसौ न क्षीयते सवनविद् व्यभिचारिणां हि । सर्वत्र शश्वद् अनपाय्य् उपलब्धिमात्रं प्राणो यथेन्द्रियबलेन विकल्पितं सत् ॥ 38 ॥

श्लोक 11.3.39

अण्डेषु पेशिषु तरुष्व् अविनिश्चितेषु प्राणो हि जीवम् उपधावति तत्र तत्र । सन्ने यद् इन्द्रियगणे ऽहमि च प्रसुप्ते कूटस्थ आशयम् ऋते तद्अनुस्मृतिर् नः ॥ 39 ॥

श्लोक 11.3.40

यर्ह्य् अब्जनाभचरणैषणयोरुभक्त्या चेतोमलानि विधमेद् गुणकर्मजानि &अम्प्; तस्मिन् विशुद्ध उपलभ्यत आत्मतत्त्वं शाक्षाद् यथामलदृशोः सवितृप्रकाशः ॥ 40 ॥

श्लोक 11.3.41

कर्मयोगं वदत नः पुरुषो येन संस्कृतः । विधूयेहाशु कर्माणि नैष्कर्म्यं विन्दते परम् ॥ 41 ॥

श्लोक 11.3.42

एवं प्रश्नम् ऋषीन् पूर्वम् अपृच्छं पितुर् अन्तिके । नाब्रुवन् ब्रह्मणः पुत्रास् तत्र कारणम् उच्यताम् ॥ 42 ॥

श्लोक 11.3.43

कर्माकर्म विकर्मेति वेदवादो न लौकिकः । वेदस्य चेश्वरात्मत्वात् तत्र मुह्यन्ति सूरयः ॥ 43 ॥

श्लोक 11.3.44

परोक्षवादो वेदो ऽयं बालानाम् अनुशासनम् । कर्ममोक्षाय कर्माणि विधत्ते ह्य् अगदं यथा ॥ 44 ॥

श्लोक 11.3.45

नाचरेद् यस् तु वेदोक्तं स्वयम् अज्ञो ऽजितेन्द्रियः । विकर्मणा ह्य् अधर्मेण मृत्योर् मृत्युम् उपैति सः ॥ 45 ॥

श्लोक 11.3.46

वेदोक्तम् एव कुर्वाणो निःसङ्गो ऽर्पितम् ईश्वरे । नैष्कर्म्यं लभते सिद्धिं रोचनार्था फलश्रुतिः ॥ 46 ॥

श्लोक 11.3.47

य आशु हृदयग्रन्थिं निर्जिहीऋषुः परात्मनः । विधिनोपचरेद् देवं तन्त्रोक्तेन च केशवम् ॥ 47 ॥

श्लोक 11.3.48

लब्ध्वानुग्रह आचार्यात् तेन सन्दर्शितागमः । महापुरुषम् अभ्यर्चेन् मूर्त्याभिमतयात्मनः ॥ 48 ॥

श्लोक 11.3.49

शुचिः सम्मुखम् आसीनः प्राणसंयमनादिभिः । पिण्डं विशोध्य सन्न्यासकृतरक्षो ऽर्चयेद् धरिम् ॥ 49 ॥

श्लोक 11.3.50

अर्चादौ हृदये चापि यथालब्धोपचारकैः । द्रव्यक्षित्य्आत्मलिण्गानि निष्पाद्य प्रोक्ष्य चासनम् ॥ 50 ॥

श्लोक 11.3.51

पाद्यादीन् उपकल्प्याथ सन्निधाप्य समाहितः । हृद्आदिभिः कृतन्यासो मूलमन्त्रेण चार्चयेत् ॥ 51 ॥

श्लोक 11.3.52

साङ्गोपाङ्गां सपार्षदां तां तां मूर्तिं स्वमन्त्रतः । पाद्यार्घ्याचमनीयाद्यैः स्नानवासोविभूषणैः ॥ 52 ॥

श्लोक 11.3.53

गन्धमाल्याक्षतस्रग्भिर् धूपदीपोपहारकैः । साङ्गम् सम्पूज्य विधिवत् स्तवैः स्तुत्वा नमेद् धरिम् ॥ 53 ॥

श्लोक 11.3.54

आत्मानम् तन्मयम् ध्यायन् मूर्तिं सम्पूजयेद् धरेः । शेषाम् आधाय शिरसा स्वधाम्न्य् उद्वास्य सत्कृतम् ॥ 54 ॥

श्लोक 11.3.55

एवम् अग्न्य्अर्कतोयादाव् अतिथौ हृदये च यः । यजतीश्वरम् आत्मानम् अचिरान् मुच्यते हि सः ॥ 55 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ