श्रीमद्भागवत एकादश स्कन्ध अध्याय 21
श्रीमद्भागवत एकादश स्कन्ध अध्याय 21 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 11.21.1
य एतान् मत्पथो हित्वा भक्तिज्ञानक्रियात्मकान् । क्षुद्रान् कामांश् चलैः प्राणैर् जुषन्तः संसरन्ति ते ॥ 1 ॥
श्लोक 11.21.2
स्वे स्वे ऽधिकारे या निष्ठा स गुणः परिकीर्तितः । विपर्ययस् तु दोषः स्याद् उभयोर् एष निश्चयः ॥ 2 ॥
श्लोक 11.21.3
शुद्ध्य्अशुद्धी विधीयेते समानेष्व् अपि वस्तुषु । द्रव्यस्य विचिकित्सार्थं गुणदोषौ शुभाशुभौ ॥ 3 ॥
श्लोक 11.21.4
धर्मार्थं व्यवहारार्थं यात्रार्थम् इति चानघ । दर्शितो ऽयं मयाचारो धर्मम् उद्वहतां धुरम् ॥ 4 ॥
श्लोक 11.21.5
भूम्य्अम्ब्व्अग्न्य्अनिलाकाशा भूतानां पञ्चधातवः । आब्रह्मस्थावरादीनां शारीरा आत्मसंयुताः ॥ 5 ॥
श्लोक 11.21.6
वेदेन नामरूपाणि विषमाणि समेष्व् अपि । धातुषूद्धव कल्प्यन्त एतेषां स्वार्थसिद्धये ॥ 6 ॥
श्लोक 11.21.7
देशकालादिभावानां वस्तूनां मम सत्तम । गुणदोषौ विधीयेते नियमार्थं हि कर्मणाम् ॥ 7 ॥
श्लोक 11.21.8
अकृष्णसारो देशानाम् अब्रह्मण्यो ऽसुचिर् भवेत् । कृष्णसारो ऽप्य् असौवीरकीकटासंस्कृतेरिणम् ॥ 8 ॥
श्लोक 11.21.9
कर्मण्यो गुणवान् कालो द्रव्यतः स्वत एव वा । यतो निवर्तते कर्म स दोषो ऽकर्मकः स्मृतः ॥ 9 ॥
श्लोक 11.21.10
द्रव्यस्य शुद्ध्य्अशुद्धी च द्रव्येण वचनेन च । संस्कारेणाथ कालेन महत्वाल्पतयाथ वा ॥ 10 ॥
श्लोक 11.21.11
शक्त्याशक्त्याथ वा बुद्ध्या समृद्ध्या च यद् आत्मने । अघं कुर्वन्ति हि यथा देशावस्थानुसारतः ॥ 11 ॥
श्लोक 11.21.12
धान्यदार्व्अस्थितन्तूनां रसतैजसचर्मणाम् । कालवाय्व्अग्निमृत्तोयैः पार्थिवानां युतायुतैः ॥ 12 ॥
श्लोक 11.21.13
अमेध्यलिप्तं यद् येन गन्धलेपं व्यपोहति । भजते प्रकृतिं तस्य तच् छौचं तावद् इष्यते ॥ 13 ॥
श्लोक 11.21.14
स्नानदानतपोऽवस्थावीर्यसंस्कारकर्मभिः । मत्स्मृत्या चात्मनः शौचं शुद्धः कर्माचरेद् द्विजः ॥ 14 ॥
श्लोक 11.21.15
मन्त्रस्य च परिज्ञानं कर्मशुद्धिर् मद्अर्पणम् । धर्मः सम्पद्यते षड्भिर् अधर्मस् तु विपर्ययः ॥ 15 ॥
श्लोक 11.21.16
क्वचिद् गुणो ऽपि दोषः स्याद् दोषो ऽपि विधिना गुणः । गुणदोषार्थनियमस् तद्भिदाम् एव बाधते ॥ 16 ॥
श्लोक 11.21.17
समानकर्माचरणं पतितानां न पातकम् । औत्पत्तिको गुणः सङ्गो न शयानः पतत्य् अधः ॥ 17 ॥
श्लोक 11.21.18
यतो यतो निवर्तेत विमुच्येत ततस् ततः । एष धर्मो नृणां क्षेमः शोकमोहभयापहः ॥ 18 ॥
श्लोक 11.21.19
विषयेषु गुणाध्यासात् पुंसः सङ्गस् ततो भवेत् । सङ्गात् तत्र भवेत् कामः कामाद् एव कलिर् नृणाम् ॥ 19 ॥
श्लोक 11.21.20
कलेर् दुर्विषहः क्रोधस् तमस् तम् अनुवर्तते । तमसा ग्रस्यते पुंसश् चेतना व्यापिनी द्रुतम् ॥ 20 ॥
श्लोक 11.21.21
तया विरहितः साधो जन्तुः शून्याय कल्पते । ततो ऽस्य स्वार्थविभ्रंशो मूर्च्छितस्य मृतस्य च ॥ 21 ॥
श्लोक 11.21.22
विषयाभिनिवेशेन नात्मानं वेद नापरम् । वृक्ष जीविकया जीवन् व्यर्थं भस्त्रेव यः श्वसन् ॥ 22 ॥
श्लोक 11.21.23
फलश्रुतिर् इयं नॄणां न श्रेयो रोचनं परम् । श्रेयोविवक्षया प्रोक्तं यथा भैषज्यरोचनम् ॥ 23 ॥
श्लोक 11.21.24
उत्पत्त्यैव हि कामेषु प्राणेषु स्वजनेषु च । आसक्तमनसो मर्त्या आत्मनो ऽनर्थहेतुषु ॥ 24 ॥
श्लोक 11.21.25
नतान् अविदुषः स्वार्थं भ्राम्यतो वृजिनाध्वनि । कथं युञ्ज्यात् पुनस् तेषु तांस् तमो विशतो बुधः ॥ 25 ॥
श्लोक 11.21.26
एवं व्यवसितं केचिद् अविज्ञाय कुबुद्धयः । फलश्रुतिं कुसुमितां न वेदज्ञा वदन्ति हि ॥ 26 ॥
श्लोक 11.21.27
कामिनः कृपणा लुब्धाः पुष्पेषु फलबुद्धयः । अग्निमुग्धा धूमतान्ताः स्वं लोकं न विदन्ति ते ॥ 27 ॥
श्लोक 11.21.28
न ते माम् अङ्ग जानन्ति हृदिस्थं य इदं यतः । उक्थशस्त्रा ह्य् असुतृपो यथा नीहारचक्षुषः ॥ 28 ॥
श्लोक 11.21.29
ते मे मतम् अविज्ञाय परोक्षं विषयात्मकाः । हिंसायां यदि रागः स्याद् यज्ञ एव न चोदना ॥ 29 ॥
श्लोक 11.21.30
हिंसाविहारा ह्य् आलब्धैः पशुभिः स्वसुखेच्छया । यजन्ते देवता यज्ञैः पितृभूतपतीन् खलाः ॥ 30 ॥
श्लोक 11.21.31
स्वप्नोपमम् अमुं लोकम् असन्तं श्रवणप्रियम् । आशिषो हृदि सङ्कल्प्य त्यजन्त्य् अर्थान् यथा वणिक् ॥ 31 ॥
श्लोक 11.21.32
रजःसत्त्वतमोनिष्ठा रजःसत्त्वतमोजुषः । उपासत इन्द्रमुख्यान् देवादीन् न यथैव माम् ॥ 32 ॥
श्लोक 11.21.33
इष्ट्वेह देवता यज्ञैर् गत्वा रंस्यामहे दिवि । तस्यान्त इह भूयास्म महाशाला महाकुलाः ॥ 33 ॥
श्लोक 11.21.34
एवं पुष्पितया वाचा व्याक्षिप्तमनसां नृणाम् । मानिनां चातिलुब्धानां मद्वार्तापि न रोचते ॥ 34 ॥
श्लोक 11.21.35
वेदा ब्रह्मात्मविषयास् त्रिकाण्डविषया इमे । परोक्षवादा ऋषयः परोक्षं मम च प्रियम् ॥ 35 ॥
श्लोक 11.21.36
शब्दब्रह्म सुदुर्बोधं प्राणेन्द्रियमनोमयम् । अनन्तपारं गम्भीरं दुर्विगाह्यं समुद्रवत् ॥ 36 ॥
श्लोक 11.21.37
मयोपबृंहितं भूम्ना ब्रह्मणानन्तशक्तिना । भूतेषु घोषरूपेण विसेषूर्णेव लक्ष्यते ॥ 37 ॥
श्लोक 11.21.38
यथोर्णनाभिर् हृदयाद् ऊर्णाम् उद्वमते मुखात् । आकाशाद् घोषवान् प्राणो मनसा स्पर्शरूपिणा ॥ 38 ॥
श्लोक 11.21.39
छन्दोमयो ऽमृतमयः सहस्रपदवीं प्रभुः । ओंकाराद् व्यञ्जितस्पर्शस्वरोष्मान्तस्थभूषिताम् ॥ 39 ॥
श्लोक 11.21.40
विचित्रभाषाविततां छन्दोभिश् चतुर्उत्तरैः । अनन्तपारां बृहतीं सृजत्य् आक्षिपते स्वयम् ॥ 40 ॥
श्लोक 11.21.41
गायत्र्य् उष्णिग् अनुष्टुप् च बृहती पङ्क्तिर् एव च । त्रिष्टुब् जगत्य् अतिच्छन्दो ह्य् अत्यष्ट्य्अतिजगद्विराट् ॥ 41 ॥
श्लोक 11.21.42
किं विधत्ते किम् आचष्टे किम् अनूद्य विकल्पयेत् । इत्य् अस्या हृदयं लोके नान्यो मद् वेद कश्चन ॥ 42 ॥
श्लोक 11.21.43
मां विधत्ते ऽभिधत्ते मां विकल्प्यापोह्यते त्व् अहम् । एतावान् सर्ववेदार्थः शब्द आस्थाय मां भिदाम् । मायामात्रम् अनूद्यान्ते प्रतिषिध्य प्रसीदति ॥ 43 ॥