मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत एकादश स्कन्ध अध्याय 22

श्रीमद्भागवत एकादश स्कन्ध अध्याय 22 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 11.22.1

कति तत्त्वानि विश्वेश सङ्ख्यातान्य् ऋषिभिः प्रभो । नवैकादश पञ्च त्रीण्य् आत्थ त्वम् इह शुश्रुम ॥ 1 ॥

श्लोक 11.22.2

केचित् षड्विंशतिं प्राहुर् अपरे पञ्चविंशतिं । सप्तैके नव षट् केचिच् चत्वार्य् एकादशापरे । केचित् सप्तदश प्राहुः षोडशैके त्रयोदश ॥ 2 ॥

श्लोक 11.22.3

एतावत्त्वं हि सङ्ख्यानाम् ऋषयो यद्विवक्षया । गायन्ति पृथग् आयुष्मन्न् इदं नो वक्तुम् अर्हसि ॥ 3 ॥

श्लोक 11.22.4

युक्तं च सन्ति सर्वत्र भाषन्ते ब्राह्मणा यथा । मायां मदीयाम् उद्गृह्य वदतां किं नु दुर्घटम् ॥ 4 ॥

श्लोक 11.22.5

नैतद् एवं यथात्थ त्वं यद् अहं वच्मि तत् तथा । एवं विवदतां हेतुं शक्तयो मे दुरत्ययाः ॥ 5 ॥

श्लोक 11.22.6

यासां व्यतिकराद् आसीद् विकल्पो वदतां पदम् । प्राप्ते शमदमे ऽप्येति वादस् तम् अनु शाम्यति ॥ 6 ॥

श्लोक 11.22.7

परस्परानुप्रवेशात् तत्त्वानां पुरुषर्षभ । पौर्वापर्यप्रसङ्ख्यानं यथा वक्तुर् विवक्षितम् ॥ 7 ॥

श्लोक 11.22.8

एकस्मिन्न् अपि दृश्यन्ते प्रविष्टानीतराणि च । पूर्वस्मिन् वा परस्मिन् वा तत्त्वे तत्त्वानि सर्वशः ॥ 8 ॥

श्लोक 11.22.9

पौर्वापर्यम् अतो ऽमीषां प्रसङ्ख्यानम् अभीप्सताम् । यथा विविक्तं यद्वक्त्रं गृह्णीमो युक्तिसम्भवात् ॥ 9 ॥

श्लोक 11.22.10

अनाद्य्अविद्यायुक्तस्य पुरुषस्यात्मवेदनम् । स्वतो न सम्भवाद् अन्यस् तत्त्वज्ञो ज्ञानदो भवेत् ॥ 10 ॥

श्लोक 11.22.11

पुरुषेश्वरयोर् अत्र न वैलक्षण्यम् अण्व् अपि । तद्अन्यकल्पनापार्था ज्ञानं च प्रकृतेर् गुणः ॥ 11 ॥

श्लोक 11.22.12

प्रकृतिर् गुणसाम्यं वै प्रकृतेर् नात्मनो गुणाः । सत्त्वं रजस् तम इति स्थित्य्उत्पत्त्य्अन्तहेतवः ॥ 12 ॥

श्लोक 11.22.13

सत्त्वं ज्ञानं रजः कर्म तमो ऽज्ञानम् इहोच्यते । गुणव्यतिकरः कालः स्वभावः सूत्रम् एव च ॥ 13 ॥

श्लोक 11.22.14

पुरुषः प्रकृतिर् व्यक्तम् अहङ्कारो नभो ऽनिलः । ज्योतिर् आपः क्षितिर् इति तत्त्वान्य् उक्तानि मे नव ॥ 14 ॥

श्लोक 11.22.15

श्रोत्रं त्वग् दर्शनं घ्राणो जिह्वेति ज्ञानशक्तयः । वाक्पाण्य्उपस्थपाय्व्अङ्घ्रिः कर्माण्य् अङ्गोभयं मनः ॥ 15 ॥

श्लोक 11.22.16

शब्दः स्पर्शो रसो गन्धो रूपं चेत्य् अर्थजातयः । गत्य्उक्त्य्उत्सर्गशिल्पानि कर्मायतनसिद्धयः ॥ 16 ॥

श्लोक 11.22.17

सर्गादौ प्रकृतिर् ह्य् अस्य कार्यकारणरूपिणी । सत्त्वादिभिर् गुणैर् धत्ते पुरुषो ऽव्यक्त ईक्षते ॥ 17 ॥

श्लोक 11.22.18

व्यक्तादायो विकुर्वाणा धातवः पुरुषेक्षया । लब्धवीर्याः सृजन्त्य् अण्डं संहताः प्रकृतेर् बलात् ॥ 18 ॥

श्लोक 11.22.19

सप्तैव धातव इति तत्रार्थाः पञ्च खादयः । ज्ञानम् आत्मोभयाधारस् ततो देहेन्द्रियासवः ॥ 19 ॥

श्लोक 11.22.20

षड् इत्य् अत्रापि भूतानि पञ्च षष्ठः परः पुमान् । तैर् युइत आत्मसम्भूतैः सृष्ट्वेदं समपाविशत् ॥ 20 ॥

श्लोक 11.22.21

चत्वार्य् एवेति तत्रापि तेज आपो ऽन्नम् आत्मनः । जातानि तैर् इदं जातं जन्मावयविनः खलु ॥ 21 ॥

श्लोक 11.22.22

सङ्ख्याने सप्तदशके भूतमात्रेन्द्रियाणि च । पञ्च पञ्चैकमनसा आत्मा सप्तदशः स्मृतः ॥ 22 ॥

श्लोक 11.22.23

तद्वत् षोडशसङ्ख्याने आत्मैव मन उच्यते । भूतेन्द्रियाणि पञ्चैव मन आत्मा त्रयोदश ॥ 23 ॥

श्लोक 11.22.24

एकादशत्व आत्मासौ महाभूतेन्द्रियाणि च । अष्टौ प्रकृतयश् चैव पुरुषश् च नवेत्य् अथ ॥ 24 ॥

श्लोक 11.22.25

इति नानाप्रसङ्ख्यानं तत्त्वानाम् ऋषिभिः कृतम् । सर्वं न्याय्यं युक्तिमत्त्वाद् विदुषां किम् अशोभनम् ॥ 25 ॥

श्लोक 11.22.26

प्रकृतिः पुरुषश् चोभौ यद्य् अप्य् आत्मविलक्षणौ । अन्योन्यापाश्रयात् कृष्ण दृश्यते न भिदा तयोः । प्रकृतौ लक्ष्यते ह्य् आत्मा प्रकृतिश् च तथात्मनि ॥ 26 ॥

श्लोक 11.22.27

एवं मे पुण्डरीकाक्ष महान्तं संशयं हृदि । छेत्तुम् अर्हसि सर्वज्ञ वचोभिर् नयनैपुणैः ॥ 27 ॥

श्लोक 11.22.28

त्वत्तो ज्ञानं हि जीवानां प्रमोषस् ते ऽत्र शक्तितः । त्वम् एव ह्य् आत्ममायाया गतिं वेत्थ न चापरः ॥ 28 ॥

श्लोक 11.22.29

प्रकृतिः पुरुषश् चेति विकल्पः पुरुषर्षभ । एष वैकारिकः सर्गो गुणव्यतिकरात्मकः ॥ 29 ॥

श्लोक 11.22.30

ममाङ्ग माया गुणमय्य् अनेकधा विकल्पबुद्धीश् च गुणैर् विधत्ते । वैकारिकस् त्रिविधो ऽध्यात्मम् एकम् अथाधिदैवम् अधिभूतम् अन्यत् ॥ 30 ॥

श्लोक 11.22.31

दृग् रूपम् आर्कं वपुर् अत्र रन्ध्रे परस्परं सिध्यति यः स्वतः खे । आत्मा यद् एषाम् अपरो य आद्यः स्वयानुभूत्याखिलसिद्धसिद्धिः ॥ 31 ॥

श्लोक 11.22.32

एवं त्वग्आदि श्रवणादि चक्षुर् जिह्वादि नासादि च चित्तयुक्तम् ॥ 32 ॥

श्लोक 11.22.33

यो ऽसौ गुणक्षोभकृतो विकारः प्रधानमूलान् महतः प्रसूतः । अहं त्रिवृन् मोहविकल्पहेतुर् वैकारिकस् तामस ऐन्द्रियश् च ॥ 33 ॥

श्लोक 11.22.34

आत्मापरिज्ञानमयो विवादो ह्य् अस्तीति नास्तीति भिदार्थनिष्ठः । व्यर्थो ऽपि नैवोपरमेत पुंसां मत्तः परावृत्तधियां स्वलोकात् ॥ 34 ॥

श्लोक 11.22.35

त्वत्तः परावृत्तधियः स्वकृतैः कर्मभिः प्रभो । उच्चावचान् यथा देहान् गृह्णन्ति विसृजन्ति च ॥ 35 ॥

श्लोक 11.22.36

तन् ममाख्याहि गोविन्द दुर्विभाव्यम् अनात्मभिः । न ह्य् एतत् प्रायशो लोके विद्वांसः सन्ति वञ्चिताः ॥ 36 ॥

श्लोक 11.22.37

मनः कर्ममयं णॄणाम् इन्द्रियैः पञ्चभिर् युतम् । लोकाल् लोकं प्रयात्य् अन्य आत्मा तद् अनुवर्तते ॥ 37 ॥

श्लोक 11.22.38

ध्यायन् मनो ऽनु विषयान् दृष्टान् वानुश्रुतान् अथ । उद्यत् सीदत् कर्मतन्त्रं स्मृतिस् तद् अनु शाम्यति ॥ 38 ॥

श्लोक 11.22.39

विषयाभिनिवेशेन नात्मानं यत् स्मरेत् पुनः । जन्तोर् वै कस्यचिद् धेतोर् मृत्युर् अत्यन्तविस्मृतिः ॥ 39 ॥

श्लोक 11.22.40

जन्म त्व् आत्मतया पुंसः सर्वभावेन भूरिद । विषयस्वीकृतिं प्राहुर् यथा स्वप्नमनोरथः ॥ 40 ॥

श्लोक 11.22.41

स्वप्नं मनोरथं चेत्थं प्राक्तनं न स्मरत्य् असौ । तत्र पूर्वम् इवात्मानम् अपूर्वम् चानुपश्यति ॥ 41 ॥

श्लोक 11.22.42

इन्द्रियायनसृष्ट्येदं त्रैविध्यं भाति वस्तुनि । बहिर्अन्तर्भिदाहेतुर् जनो ऽसज्जनकृद् यथा ॥ 42 ॥

श्लोक 11.22.43

नित्यदा ह्य् अङ्ग भूतानि भवन्ति न भवन्ति च । कालेनालक्ष्यवेगेन सूक्ष्मत्वात् तन् न दृश्यते ॥ 43 ॥

श्लोक 11.22.44

यथार्चिषां स्रोतसां च फलानां वा वनस्पतेः । तथैव सर्वभूतानां वयोऽवस्थादयः कृताः ॥ 44 ॥

श्लोक 11.22.45

सो ऽयं दीपो ऽर्चिषां यद्वत् स्रोतसां तद् इदं जलम् । सो ऽयं पुमान् इति नृणां मृषा गीर् धीर् मृषायुषाम् ॥ 45 ॥

श्लोक 11.22.46

मा स्वस्य कर्मबीजेन जायते सो ऽप्य् अयं पुमान् । म्रियते वामरो भ्रान्त्या यथाग्निर् दारुसंयुतः ॥ 46 ॥

श्लोक 11.22.47

निषेकगर्भजन्मानि बाल्यकौमारयौवनम् । वयोमध्यं जरा मृत्युर् इत्य् अवस्थास् तनोर् नव ॥ 47 ॥

श्लोक 11.22.48

एता मनोरथमयीर् हान्यस्योच्चावचास् तनूः । गुणसङ्गाद् उपादत्ते क्वचित् कश्चिज् जहाति च ॥ 48 ॥

श्लोक 11.22.49

आत्मनः पितृपुत्राभ्याम् अनुमेयौ भवाप्ययौ । न भवाप्ययवस्तूनाम् अभिज्ञो द्वयलक्षणः ॥ 49 ॥

श्लोक 11.22.50

तरोर् बीजविपाकाभ्यां यो विद्वाञ् जन्मसंयमौ । तरोर् विलक्षणो द्रष्टा एवं द्रष्टा तनोः पृथक् ॥ 50 ॥

श्लोक 11.22.51

प्रकृतेर् एवम् आत्मानम् अविविच्याबुधः पुमान् । तत्त्वेन स्पर्शसम्मूढः संसारं प्रतिपद्यते ॥ 51 ॥

श्लोक 11.22.52

सत्त्वसङ्गाद् ऋषीन् देवान् रजसासुरमानुषान् । तमसा भूततिर्यक्त्वं भ्रामितो याति कर्मभिः ॥ 52 ॥

श्लोक 11.22.53

नृत्यतो गायतः पश्यन् यथैवानुकरोति तान् । एवं बुद्धिगुणान् पश्यन्न् अनीहो ऽप्य् अनुकार्यते ॥ 53 ॥

श्लोक 11.22.54

यथाम्भसा प्रचलता तरवो ऽपि चला इव । चक्षुसा भ्राम्यमाणेन दृश्यते भ्रमतीव भूः ॥ 54 ॥

श्लोक 11.22.55

यथा मनोरथधियो विषय्षानुभवो मृषा । स्वप्नदृष्टाश् च दाशार्ह तथा संसार आत्मनः ॥ 55 ॥

श्लोक 11.22.56

अर्थे ह्य् अविद्यमाने ऽपि संसृतिर् न निवर्तते । ध्यायतो विषयान् अस्य स्वप्ने ऽनर्थागमो यथा ॥ 56 ॥

श्लोक 11.22.57

तस्माद् उद्धव मा भुङ्क्ष्व विषयान् असद्इन्द्रियैः । आत्माग्रहणनिर्भातं पश्य वैकल्पिकं भ्रमम् ॥ 57 ॥

श्लोक 11.22.58

क्षिप्तो ऽवमानितो ऽसद्भिः प्रलब्धो ऽसूयितो ऽथ वा । ताडितः सन्निरुद्धो वा वृत्त्या वा परिहापितः ॥ 58 ॥

श्लोक 11.22.59

निष्ठ्युतो मूत्रितो वाज्ञैर् बहुधैवं प्रकम्पितः । श्रेयस्कामः कृच्छ्रगत आत्मनात्मानम् उद्धरेत् ॥ 59 ॥

श्लोक 11.22.60

यथैवम् अनुबुध्येयं वद नो वदतां वर । सुदुःषहम् इमं मन्य आत्मन्य् असद्अतिक्रमम् ॥ 60 ॥

श्लोक 11.22.61

विदुषाम् अपि विश्वात्मन् प्रकृतिर् हि बलीयसी । ऋते त्वद्धर्मनिरतान् शान्तांस् ते चरणालयान् ॥ 61 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ