श्रीमद्भागवत एकादश स्कन्ध अध्याय 23
श्रीमद्भागवत एकादश स्कन्ध अध्याय 23 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 11.23.1
स एवम् आशंसित उद्धवेन भागवतमुख्येन दाशार्हमुख्यः । सभाजयन् भृत्यवचो मुकुन्दस् तम् आबभाषे श्रवणीयवीर्यः ॥ 1 ॥
श्लोक 11.23.2
बार्हस्पत्य स नास्त्य् अत्र साधुर् वै दुर्जनेरितैः । दुरक्तैर् भिन्नम् आत्मानं यः समाधातुम् ईश्वरः ॥ 2 ॥
श्लोक 11.23.3
न तथा तप्यते विद्धः पुमान् बाणैस् तु मर्मगैः । यथा तुदन्ति मर्मस्था ह्य् असतां परुषेषवः ॥ 3 ॥
श्लोक 11.23.4
कथयन्ति महत् पुण्यम् इतिहासम् इहोद्धव । तम् अहं वर्णयिष्यामि निबोध सुसमाहितः ॥ 4 ॥
श्लोक 11.23.5
केनचिद् भिक्षुणा गीतं परिभूतेन दुर्जनैः । स्मरता धृतियुक्तेन विपाकं निजकर्मणाम् ॥ 5 ॥
श्लोक 11.23.6
अवन्तिषु द्विजः कश्चिद् आसीद् आढ्यतमः श्रिया । वार्तावृत्तिः कदर्यस् तु कामी लुब्धो ऽतिकोपनः ॥ 6 ॥
श्लोक 11.23.7
ज्ञातयो ऽतिथयस् तस्य वाङ्मात्रेणापि नार्चिताः । शून्यावसथ आत्मापि काले कामैर् अनर्चितः ॥ 7 ॥
श्लोक 11.23.8
दुह्शीलस्य कदर्यस्य द्रुह्यन्ते पुत्रबान्धवाः । दारा दुहितरो भृत्या विषण्णा नाचरन् प्रियम् ॥ 8 ॥
श्लोक 11.23.9
तस्यैवं यक्षवित्तस्य च्युतस्योभयलोकतः । धर्मकामविहीनस्य चुक्रुधुः पञ्चभागिनः ॥ 9 ॥
श्लोक 11.23.10
तद्अवध्यानविस्रस्तपुण्यस्कन्धस्य भूरिद । अर्थो ऽप्य् अगच्छन् निधनं बह्व्आयासपरिश्रमः ॥ 10 ॥
श्लोक 11.23.11
ज्ञात्यो जगृहुः किञ्चित् किञ्चिद् दस्यव उद्धव । दैवतः कालतः किञ्चिद् ब्रह्मबन्धोर् नृपार्थिवात् ॥ 11 ॥
श्लोक 11.23.12
स एवं द्रविणे नष्टे धर्मकामविवर्जितः । उपेक्षितश् च स्वजनैश् चिन्ताम् आप दुरत्ययाम् ॥ 12 ॥
श्लोक 11.23.13
तस्यैवं ध्यायतो दीर्घं नष्टरायस् तपस्विनः । खिद्यतो बाष्पकण्ठस्य निर्वेदः सुमहान् अभूत् ॥ 13 ॥
श्लोक 11.23.14
स चाहेदम् अहो कष्टं वृथात्मा मे ऽनुतापितः । न धर्माय न कामाय यस्यार्थायास ईदृशः ॥ 14 ॥
श्लोक 11.23.15
प्रायेणाथाः कदर्याणां न सुखाय कदाचन । इह चात्मोपतापाय मृतस्य नरकाय च ॥ 15 ॥
श्लोक 11.23.16
यशो यशस्विनां शुद्धं श्लाघ्या ये गुणिनां गुणाः । लोभः स्व्अल्पो ऽपि तान् हन्ति श्वित्रो रूपम् इवेप्सितम् ॥ 16 ॥
श्लोक 11.23.17
अर्थस्य साधने सिद्धे उत्कर्षे रक्षणे व्यये । नाशोपभोग आयासस् त्रासश् चिन्ता भ्रमो नृणाम् ॥ 17 ॥
श्लोक 11.23.18
स्तेयं हिंसानृतं दम्भः कामः क्रोधः स्मयो मदः । भेदो वैरम् अविश्वासः संस्पर्धा व्यसनानि च ॥ 18 ॥
श्लोक 11.23.19
एते पञ्चदशानर्था ह्य् अर्थमूला मता नृणाम् । तस्माद् अनर्थम् अर्थाख्यं श्रेयोऽर्थी दूरतस् त्यजेत् ॥ 19 ॥
श्लोक 11.23.20
भिद्यन्ते भ्रातरो दाराः पितरः सुहृदस् तथा । एकास्निग्धाः काकिणिना सद्यः सर्वे ऽरयः कृताः ॥ 20 ॥
श्लोक 11.23.21
अर्थेनाल्पीयसा ह्य् एते संरब्धा दीप्तमन्यवः । त्यजन्त्य् आशु स्पृधो घ्नन्ति सहसोत्सृज्य सौहृदम् ॥ 21 ॥
श्लोक 11.23.22
लब्ध्वा जन्मामरप्रार्थ्यं मानुष्यं तद् द्विजाग्र्यताम् । तद् अनादृत्य ये स्वार्थं घ्नन्ति यान्त्य् अशुभां गतिम् ॥ 22 ॥
श्लोक 11.23.23
स्वर्गापवर्गयोर् द्वारं प्राप्य लोकम् इमं पुमान् । द्रविणे को ऽनुषज्जेत मर्त्यो ऽनर्थस्य धामनि ॥ 23 ॥
श्लोक 11.23.24
देवर्षिपितृभूतानि ज्ञातीन् बन्धूंश् च भागिनः । असंविभज्य चात्मानं यक्षवित्तः पतत्य् अधः ॥ 24 ॥
श्लोक 11.23.25
व्यर्थयार्थेहया वित्तं प्रमत्तस्य वयो बलम् । कुशला येन सिध्यन्ति जरठः किं नु साधये ॥ 25 ॥
श्लोक 11.23.26
कस्मात् सङ्क्लिश्यते विद्वान् व्यर्थयार्थेहयासकृत् । कस्यचिन् मायया नूनं लोको ऽयं सुविमोहितः ॥ 26 ॥
श्लोक 11.23.27
किं धनैर् धनदैर् वा किं कामैर् वा कामदैर् उत । मृत्युना ग्रस्यमानस्य कर्मभिर् वोत जन्मदैः ॥ 27 ॥
श्लोक 11.23.28
नूनं मे भगवांस् तुष्टः सर्वदेवमयो हरिः । येन नीतो दशाम् एतां निर्वेदश् चात्मनः प्लवः ॥ 28 ॥
श्लोक 11.23.29
सो ऽहं कालावशेषेण शोषयिष्ये ऽङ्गम् आत्मनः । अप्रमत्तो ऽखिलस्वार्थे यदि स्यात् सिद्ध आत्मनि ॥ 29 ॥
श्लोक 11.23.30
तत्र माम् अनुमोदेरन् देवास् त्रिभुवनेश्वराः । मुहूर्तेन ब्रह्मलोकं खट्वाङ्गः समसाधयत् ॥ 30 ॥
श्लोक 11.23.31
इत्य् अभिप्रेत्य मनसा ह्य् आवन्त्यो द्विजसत्तमः । उन्मुच्य हृदयग्रन्थीन् शान्तो भिक्षुर् अभून् मुनिः ॥ 31 ॥
श्लोक 11.23.32
स चचार महीम् एतां संयतात्मेन्द्रियानिलः । भिक्षार्थं नगरग्रामान् असङ्गो ऽलक्षितो ऽविशत् ॥ 32 ॥
श्लोक 11.23.33
तं वै प्रवयसं भिक्षुम् अवधूतम् असज्जनाः । दृष्ट्वा पर्यभवन् भद्र बह्वीभिः परिभूतिभिः ॥ 33 ॥
श्लोक 11.23.34
केचित् त्रिवेणुं जगृहुर् एके पात्रं कमण्डलुम् । पीठं चैके ऽक्षसूत्रं च कन्थां चीराणि केचन । प्रदाय च पुनस् तानि दर्शितान्य् आददुर् मुनेः ॥ 34 ॥
श्लोक 11.23.35
अन्नं च भैक्ष्यसम्पन्नं भुञ्जानस्य सरित्तटे । मूत्रयन्ति च पापिष्ठाः ष्ठीवन्त्य् अस्य च मूर्धनि ॥ 35 ॥
श्लोक 11.23.36
यतवाचं वाचयन्ति ताडयन्ति न वक्ति चेत् । तर्जयन्त्य् अपरे वाग्भिः स्तेनो ऽयम् इति वादिनः । बध्नन्ति रज्ज्वा तं केचिद् बध्यतां बध्यताम् इति ॥ 36 ॥
श्लोक 11.23.37
क्षिपन्त्य् एके ऽवजानन्त एष धर्मध्वजः शठः । क्षीणवित्त इमां वृत्तिम् अग्रहीत् स्वजनोज्झितः ॥ 37 ॥
श्लोक 11.23.38
अहो एष महासारो धृतिमान् गिरिराड् इव । मौनेन साधयत्य् अर्थं बकवद् दृढनिश्चयः ॥ 38 ॥
श्लोक 11.23.39
इत्य् एके विहसन्त्य् एनम् एके दुर्वातयन्ति च । तं बबन्धुर् निरुरुधुर् यथा क्रीडनकं द्विजम् ॥ 39 ॥
श्लोक 11.23.40
एवं स भौतिकं दुःखं दैविकं दैहिकं च यत् । भोक्तव्यम् आत्मनो दिष्टं प्राप्तं प्राप्तम् अबुध्यत ॥ 40 ॥
श्लोक 11.23.41
परिभूत इमां गाथाम् अगायत नराधमैः । पातयद्भिः स्व धर्मस्थो धृतिम् आस्थाय सात्त्विकीम् ॥ 41 ॥
श्लोक 11.23.42
नायं जनो मे सुखदुःखहेतुर् न देवतात्मा ग्रहकर्मकालाः । मनः परं कारणम् आमनन्ति संसारचक्रं परिवर्तयेद् यत् ॥ 42 ॥
श्लोक 11.23.43
मनो गुणान् वै सृजते बलीयस् ततश् च कर्माणि विलक्षणानि । शुक्लानि कृष्णान्य् अथ लोहितानि तेभ्यः सवर्णाः सृतयो भवन्ति ॥ 43 ॥
श्लोक 11.23.44
अनीह आत्मा मनसा समीहता हिरण्मयो मत्सख उद्विचष्टे । मनः स्वलिङ्गं परिगृह्य कामान् जुषन् निबद्धो गुणसङ्गतो ऽसौ ॥ 44 ॥
श्लोक 11.23.45
दानं स्वधर्मो नियमो यमश् च श्रुतं च कर्माणि च सद्व्रतानि । सर्वे मनोनिग्रहलक्षणान्ताः परो हि योगो मनसः समाधिः ॥ 45 ॥
श्लोक 11.23.46
समाहितं यस्य मनः प्रशान्तं दानादिभिः किं वद तस्य कृत्यम् । असंयतं यस्य मनो विनश्यद् दानादिभिश् चेद् अपरं किम् एभिः ॥ 46 ॥
श्लोक 11.23.47
मनोवशे ऽन्ये ह्य् अभवन् स्म देवा मनश् च नान्यस्य वशं समेति । भीष्मो हि देवः सहसः सहीयान् युञ्ज्याद् वशे तं स हि देवदेवः ॥ 47 ॥
श्लोक 11.23.48
तम् दुर्जयं शत्रुम् असह्यवेगम् अरुन्तुदं तन् न विजित्य केचित् । कुर्वन्त्य् असद्विग्रहम् अत्र मर्त्यैर् मित्राण्य् उदासीनरिपून् विमूढाः ॥ 48 ॥
श्लोक 11.23.49
देहं मनोमात्रम् इमं गृहीत्वा ममाहम् इत्य् अन्धधियो मनुष्याः । एषो ऽहम् अन्यो ऽयम् इति भ्रमेण दुरन्तपारे तमसि भ्रमन्ति ॥ 49 ॥
श्लोक 11.23.50
जनस् तु हेतुः सुखदुःखयोश् चेत् किम् आत्मनश् चात्र हि भौमयोस् तत् । जिह्वां क्वचित् सन्दशति स्वदद्भिस् तद्वेदनायां कतमाय कुप्येत् ॥ 50 ॥
श्लोक 11.23.51
दुःखस्य हेतुर् यदि देवतास् तु किम् आत्मनस् तत्र विकारयोस् तत् । यद् अङ्गम् अङ्गेन निहन्यते क्वचित् क्रुध्येत कस्मै पुरुषः स्वदेहे ॥ 51 ॥
श्लोक 11.23.52
आत्मा यदि स्यात् सुखदुःखहेतुः किम् अन्यतस् तत्र निजस्वभावः । न ह्य् आत्मनो ऽन्यद् यदि तन् मृषा स्यात् क्रुध्येत कस्मान् न सुखं न दुःखम् ॥ 52 ॥
श्लोक 11.23.53
ग्रहा निमित्तं सुखदुःखयोश् चेत् किम् आत्मनो ऽजस्य जनस्य ते वै । ग्रहैर् ग्रहस्यैव वदन्ति पीडां क्रुध्येत कस्मै पुरुषस् ततो ऽन्यः ॥ 53 ॥
श्लोक 11.23.54
कर्मास्तु हेतुः सुखदुःखयोश् चेत् किम् आत्मनस् तद् धि जडाजडत्वे । देहस् त्व् अचित् पुरुषो ऽयं सुपर्णः क्रुध्येत कस्मै न हि कर्म मूलम् ॥ 54 ॥
श्लोक 11.23.55
कालस् तु हेतुः सुखदुःखयोश् चेत् किम् आत्मनस् तत्र तद्आत्मको ऽसौ । नाग्नेर् हि तापो न हिमस्य तत् स्यात् क्रुध्येत कस्मै न परस्य द्वन्द्वम् ॥ 55 ॥
श्लोक 11.23.56
न केनचित् क्वापि कथञ्चनास्य द्वन्द्वोपरागः परतः परस्य । यथाहमः संसृतिरूपिणः स्याद् एवं प्रबुद्धो न बिभेति भूतैः ॥ 56 ॥
श्लोक 11.23.57
एतां स आस्थाय परात्मनिष्ठाम् अध्यासितां पूर्वतमैर् महर्षिभिः । अहं तरिष्यामि दुरन्तपारं तमो मुकुन्दाङ्घ्रिनिषेवयैव ॥ 57 ॥
श्लोक 11.23.58
निर्विद्य नष्टद्रविणे गतक्लमः प्रव्रज्य गां पर्यटमान इत्थम् । निराकृतो ऽसद्भिर् अपि स्वधर्माद् अकम्पितो ऽमूं मुनिर् आह गाथाम् ॥ 58 ॥
श्लोक 11.23.59
सुखदुःखप्रदो नान्यः पुरुषस्यात्मविभ्रमः । मित्रोदासीनरिपवः संसारस् तमसः कृतः ॥ 59 ॥
श्लोक 11.23.60
तस्मात् सर्वात्मना तात निगृहाण मनो धिया । मय्य् आवेशितया युक्त एतावान् योगसङ्ग्रहः ॥ 60 ॥
श्लोक 11.23.61
य एतां भिक्षुणा गीतां ब्रह्मनिष्ठां समाहितः । धारयञ् छ्रावयञ् छृण्वन् द्वन्द्वैर् नैवाभिभूयते ॥ 61 ॥