श्रीमद्भागवत एकादश स्कन्ध अध्याय 24
श्रीमद्भागवत एकादश स्कन्ध अध्याय 24 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 11.24.1
अथ ते सम्प्रवक्ष्यामि साङ्ख्यं पूर्वैर् विनिश्चितम् । यद् विज्ञाय पुमान् सद्यो जह्याद् वैकल्पिकं भ्रमम् ॥ 1 ॥
श्लोक 11.24.2
आसीज् ज्ञानम् अथो अर्थ एकम् एवाविकल्पितम् । यदा विवेकनिपुणा आदौ कृतयुगे ऽयुगे ॥ 2 ॥
श्लोक 11.24.3
तन् मायाफलरूपेण केवलं निर्विकल्पितम् । वाङ्मनोऽगोचरं सत्यं द्विधा समभवद् बृहत् ॥ 3 ॥
श्लोक 11.24.4
तयोर् एकतरो ह्य् अर्थः प्रकृतिः सोभयात्मिका । ज्ञानं त्व् अन्यतमो भावः पुरुषः सो ऽभिधीयते ॥ 4 ॥
श्लोक 11.24.5
तमो रजः सत्त्वम् इति प्रकृतेर् अभवन् गुणाः । मया प्रक्षोभ्यमाणायाः पुरुषानुमतेन च ॥ 5 ॥
श्लोक 11.24.6
तेभ्यः समभवत् सूत्रं महान् सूत्रेण संयुतः । ततो विकुर्वतो जातो यो ऽहङ्कारो विमोहनः ॥ 6 ॥
श्लोक 11.24.7
वैकारिकस् तैजसश् च तामसश् चेत्य् अहं त्रिवृत् । तन्मात्रेन्द्रियमनसां कारणं चिद्अचिन्मयः ॥ 7 ॥
श्लोक 11.24.8
अर्थस् तन्मात्रिकाज् जज्ञे तामसाद् इन्द्रियाणि च । तैजसाद् देवता आसन्न् एकादश च वैकृतात् ॥ 8 ॥
श्लोक 11.24.9
मया सञ्चोदिता भावाः सर्वे संहत्यकारिणः । अण्डम् उत्पादयाम् आसुर् ममायतनम् उत्तमम् ॥ 9 ॥
श्लोक 11.24.10
तस्मिन्न् अहं समभवम् अण्डे सलिलसंस्थितौ । मम नाभ्याम् अभूत् पद्मं विश्वाख्यं तत्र चात्मभूः ॥ 10 ॥
श्लोक 11.24.11
सो ऽसृजत् तपसा युक्तो रजसा मद्अनुग्रहात् । लोकान् सपालान् विश्वात्मा भूर् भुवः स्वर् इति त्रिधा ॥ 11 ॥
श्लोक 11.24.12
देवानाम् ओक आसीत् स्वर् भूतानां च भुवः पदम् । मर्त्यादीनां च भूर् लोकः सिद्धानां त्रितयात् परम् ॥ 12 ॥
श्लोक 11.24.13
अधो ऽसुराणां नागानां भूमेर् ओको ऽसृजत् प्रभुः । त्रिलोक्यां गतयः सर्वाः कर्मणां त्रिगुणात्मनाम् ॥ 13 ॥
श्लोक 11.24.14
योगस्य तपसश् चैव न्यासस्य गतयो ऽमलाः । महर् जनस् तपः सत्यं भक्तियोगस्य मद्गतिः ॥ 14 ॥
श्लोक 11.24.15
मया कालात्मना धात्रा कर्मयुक्तम् इदं जगत् । गुणप्रवाह एतस्मिन्न् उन्मज्जति निमज्जति ॥ 15 ॥
श्लोक 11.24.16
अणुर् बृहत् कृशः स्थूलो यो यो भावः प्रसिध्यति । सर्वो ऽप्य् उभयसंयुक्तः प्रकृत्या पुरुषेण च ॥ 16 ॥
श्लोक 11.24.17
यस् तु यस्यादिर् अन्तश् च स वै मध्यं च तस्य सन् । विकारो व्यवहारार्थो यथा तैजसपार्थिवाः ॥ 17 ॥
श्लोक 11.24.18
यद् उपादाय पूर्वस् तु भावो विकुरुते ऽपरम् । आदिर् अन्तो यदा यस्य तत् सत्यम् अभिधीयते ॥ 18 ॥
श्लोक 11.24.19
प्रकृतिर् यस्योपादानम् आधारः पुरुषः परः । सतो ऽभिव्यञ्जकः कालो ब्रह्म तत् त्रितयं त्व् अहम् ॥ 19 ॥
श्लोक 11.24.20
सर्गः प्रवर्तते तावत् पौर्वापर्येण नित्यशः । महान् गुणविसर्गार्थः स्थित्य्अन्तो यावद् ईक्षणम् ॥ 20 ॥
श्लोक 11.24.21
विराण् मयासाद्यमानो लोककल्पविकल्पकः । पञ्चत्वाय विशेषाय कल्पते भुवनैः सह ॥ 21 ॥
श्लोक 11.24.22
अन्ने प्रलीयते मर्त्यम् अन्नं धानासु लीयते । धाना भूमौ प्रलीयन्ते भूमिर् गन्धे प्रलीयते ॥ 22 ॥
श्लोक 11.24.23
अप्सु प्रलीयते गन्ध आपश् च स्वगुणे रसे । लीयते ज्योतिषि रसो ज्योती रूपे प्रलीयते ॥ 23 ॥
श्लोक 11.24.24
रूपं वायौ स च स्पर्शे लीयते सो ऽपि चाम्बरे । अम्बरं शब्दतन्मात्र इन्द्रियाणि स्वयोनिषु ॥ 24 ॥
श्लोक 11.24.25
योनिर् वैकारिके सौम्य लीयते मनसीश्वरे । शब्दो भूतादिम् अप्येति भूतादिर् महति प्रभुः ॥ 25 ॥
श्लोक 11.24.26
स लीयते महान् स्वेषु गुणेसु गुणवत्तमः । ते ऽव्यक्ते सम्प्रलीयन्ते तत् काले लीयते ऽव्यये ॥ 26 ॥
श्लोक 11.24.27
कालो मायामये जीवे जीव आत्मनि मय्य् अजे । आत्मा केवल आत्मस्थो विकल्पापायलक्षणः ॥ 27 ॥
श्लोक 11.24.28
एवम् अन्वीक्षमाणस्य कथं वैकल्पिको भ्रमः । मनसो हृदि तिष्ठेत व्योम्नीवार्कोदये तमः ॥ 28 ॥
श्लोक 11.24.29
एष साङ्ख्यविधिः प्रोक्तः संशयग्रन्थिभेदनः । प्रतिलोमानुलोमाभ्यां परावरदृश मया ॥ 29 ॥