मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत एकादश स्कन्ध अध्याय 25

श्रीमद्भागवत एकादश स्कन्ध अध्याय 25 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 11.25.1

गुणानाम् असम्मिश्राणां पुमान् येन यथा भवेत् । तन् मे पुरुषवर्येदम् उपधारय शंसतः ॥ 1 ॥

श्लोक 11.25.2

शमो दमस् तितिक्षेक्षा तपः सत्यं दया स्मृतिः । तुष्टिस् त्यागो ऽस्पृहा श्रद्धा ह्रीर् दयादिः स्वनिर्वृतिः ॥ 2 ॥

श्लोक 11.25.3

काम ईहा मदस् तृष्णा स्तम्भ आशीर् भिदा सुखम् । मदोत्साहो यशःप्रीतिर् हास्यं वीर्यं बलोद्यमः ॥ 3 ॥

श्लोक 11.25.4

क्रोधो लोभो ऽनृतं हिंसा याच्ञा दम्भः क्लमः कलिः । शोकमोहौ विषादार्ती निद्राशा भीर् अनुद्यमः ॥ 4 ॥

श्लोक 11.25.5

सत्त्वस्य रजसश् चैतास् तमसश् चानुपूर्वशः । वृत्तयो वर्णितप्रायाः सन्निपातम् अथो शृणु ॥ 5 ॥

श्लोक 11.25.6

सन्निपातस् त्व् अहम् इति ममेत्य् उद्धव या मतिः । व्यवहारः सन्निपातो मनोमात्रेन्द्रियासुभिः ॥ 6 ॥

श्लोक 11.25.7

धर्मे चार्थे च कामे च यदासौ परिनिष्ठितः । गुणानां सन्निकर्षो ऽयं श्रद्धारतिधनावहः ॥ 7 ॥

श्लोक 11.25.8

प्रवृत्तिलक्षणे निष्ठा पुमान् यर्हि गृहाश्रमे । स्वधर्मे चानु तिष्ठेत गुणानां समितिर् हि सा ॥ 8 ॥

श्लोक 11.25.9

पुरुषं सत्त्वसंयुक्तम् अनुमीयाच् छमादिभिः । कामादिभी रजोयुक्तं क्रोधाद्यैस् तमसा युतम् ॥ 9 ॥

श्लोक 11.25.10

यदा भजति मां भक्त्या निरपेक्षः स्वकर्मभिः । तं सत्त्वप्रकृतिं विद्यात् पुरुषं स्त्रियम् एव वा ॥ 10 ॥

श्लोक 11.25.11

यदा आशिष आशास्य मां भजेत स्वकर्मभिः । तं रजःप्रकृतिं विद्यात् हिंसाम् आशास्य तामसम् ॥ 11 ॥

श्लोक 11.25.12

सत्त्वं रजस् तम इति गुणा जीवस्य नैव मे । चित्तजा यैस् तु भूतानां सज्जमानो निबध्यते ॥ 12 ॥

श्लोक 11.25.13

यदेतरौ जयेत् सत्त्वं भास्वरं विशदं शिवम् । तदा सुखेन युज्येत धर्मज्ञानादिभिः पुमान् ॥ 13 ॥

श्लोक 11.25.14

यदा जयेत् तमः सत्त्वं रजः सङ्गं भिदा चलम् । तदा दुःखेन युज्येत कर्मणा यशसा श्रिया ॥ 14 ॥

श्लोक 11.25.15

यदा जयेद् रजः सत्त्वं तमो मूढं लयं जडम् । युज्येत शोकमोहाभ्यां निद्रया हिंसयाशया ॥ 15 ॥

श्लोक 11.25.16

यदा चित्तं प्रसीदेत इन्द्रियाणां च निर्वृतिः । देहे ऽभयं मनोऽसङ्गं तत् सत्त्वं विद्धि मत्पदम् ॥ 16 ॥

श्लोक 11.25.17

विकुर्वन् क्रियया चाधीर् अनिवृत्तिश् च चेतसाम् । गात्रास्वास्थ्यं मनो भ्रान्तं रज एतैर् निशामय ॥ 17 ॥

श्लोक 11.25.18

सीदच् चित्तं विलीयेत चेतसो ग्रहणे ऽक्षमम् । मनो नष्टं तमो ग्लानिस् तमस् तद् उपधारय ॥ 18 ॥

श्लोक 11.25.19

एधमाने गुणे सत्त्वे देवानां बलम् एधते । असुराणां च रजसि तमस्य् उद्धव रक्षसाम् ॥ 19 ॥

श्लोक 11.25.20

सत्त्वाज् जागरणं विद्याद् रजसा स्वप्नम् आदिशेत् । प्रस्वापं तमसा जन्तोस् तुरीयं त्रिषु सन्ततम् ॥ 20 ॥

श्लोक 11.25.21

उपर्य् उपरि गच्छन्ति सत्त्वेन ब्राह्मणा जनाः । तमसाधो ऽध आमुख्याद् रजसान्तरचारिणः ॥ 21 ॥

श्लोक 11.25.22

सत्त्वे प्रलीनाः स्वर् यान्ति नरलोकं रजोलयाः । तमोलयास् तु निरयं यान्ति माम् एव निर्गुणाः ॥ 22 ॥

श्लोक 11.25.23

मद्अर्पणं निष्फलं वा सात्त्विकं निजकर्म तत् । राजसं फलसङ्कल्पं हिंसाप्रायादि तामसम् ॥ 23 ॥

श्लोक 11.25.24

कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं च यत् । प्राकृतं तामसं ज्ञानं मन्निष्ठं निर्गुणं स्मृतम् ॥ 24 ॥

श्लोक 11.25.25

वनं तु सात्त्विको वासो ग्रामो राजस उच्यते । तामसं द्यूतसदनं मन्निकेतं तु निर्गुणम् ॥ 25 ॥

श्लोक 11.25.26

सात्त्विकः कारको ऽसङ्गी रागान्धो राजसः स्मृतः । तामसः स्मृतिविभ्रष्टो निर्गुणो मद्अपाश्रयः ॥ 26 ॥

श्लोक 11.25.27

सात्त्विक्य् आध्यात्मिकी श्रद्धा कर्मश्रद्धा तु राजसी । तामस्य् अधर्मे या श्रद्धा मत्सेवायां तु निर्गुणा ॥ 27 ॥

श्लोक 11.25.28

पथ्यं पूतम् अनायस्तम् आहार्यं सात्त्विकं स्मृतम् । राजसं चेन्द्रियप्रेष्ठं तामसं चार्तिदाशुचि ॥ 28 ॥

श्लोक 11.25.29

सात्त्विकं सुखम् आत्मोत्थं विषयोत्थं तु राजसम् । तामसं मोहदैन्योत्थं निर्गुणं मद्अपाश्रयम् ॥ 29 ॥

श्लोक 11.25.30

द्रव्यं देशः फलं कालो ज्ञानं कर्म च कारकः । श्रद्धावस्थाकृतिर् निष्ठा त्रैगुण्यः सर्व एव हि ॥ 30 ॥

श्लोक 11.25.31

सर्वे गुणमया भावाः पुरुषाव्यक्तधिष्ठिताः । दृष्टं श्रुतं अनुध्यातं बुद्ध्या वा पुरुषर्षभ ॥ 31 ॥

श्लोक 11.25.32

एताः संसृतयः पुंसो गुणकर्मनिबन्धनाः । येनेमे निर्जिताः सौम्य गुणा जीवेन चित्तजाः । भक्तियोगेन मन्निष्ठो मद्भावाय प्रपद्यते ॥ 32 ॥

श्लोक 11.25.33

तस्माद् देहम् इमं लब्ध्वा ज्ञानविज्ञानसम्भवम् । गुणसङ्गं विनिर्धूय मां भजन्तु विचक्षणाः ॥ 33 ॥

श्लोक 11.25.34

निःसङ्गो मां भजेद् विद्वान् अप्रमत्तो जितेन्द्रियः । रजस् तमश् चाभिजयेत् सत्त्वसंसेवया मुनिः ॥ 34 ॥

श्लोक 11.25.35

सत्त्वं चाभिजयेद् युक्तो नैरपेक्ष्येण शान्तधीः । सम्पद्यते गुणैर् मुक्तो जीवो जीवं विहाय माम् ॥ 35 ॥

श्लोक 11.25.36

जीवो जीवविनिर्मुक्तो गुणैश् चाशयसम्भवैः । मयैव ब्रह्मणा पूर्णो न बहिर् नान्तरश् चरेत् ॥ 36 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ