मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत एकादश स्कन्ध अध्याय 26

श्रीमद्भागवत एकादश स्कन्ध अध्याय 26 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 11.26.1

मल्लक्षणम् इमं कायं लब्ध्वा मद्धर्म आस्थितः । आनन्दं परमात्मानम् आत्मस्थं समुपैति माम् ॥ 1 ॥

श्लोक 11.26.2

गुणमय्या जीवयोन्या विमुक्तो ज्ञाननिष्ठया । गुणेषु मायामात्रेषु दृश्यमानेष्व् अवस्तुतः । वर्तमानो ऽपि न पुमान् युज्यते ऽवस्तुभिर् गुणैः ॥ 2 ॥

श्लोक 11.26.3

सङ्गं न कुर्याद् असतां शिश्नोदरतृपां क्वचित् । तस्यानुगस् तमस्य् अन्धे पतत्य् अन्धानुगान्धवत् ॥ 3 ॥

श्लोक 11.26.4

ऐलः सम्राड् इमां गाथाम् अगायत बृहच्छ्रवाः । उर्वशीविरहान् मुह्यन् निर्विण्णः शोकसंयमे ॥ 4 ॥

श्लोक 11.26.5

त्यक्त्वात्मानं व्रयन्तीं तां नग्न उन्मत्तवन् नृपः । विलपन्न् अन्वगाज् जाये घोरे तिष्ठेति विक्लवः ॥ 5 ॥

श्लोक 11.26.6

कामान् अतृप्तो ऽनुजुषन् क्षुल्लकान् वर्षयामिनीः । न वेद यान्तीर् नायान्तीर् उर्वश्य्आकृष्टचेतनः ॥ 6 ॥

श्लोक 11.26.7

अहो मे मोहविस्तारः कामकश्मलचेतसः । देव्या गृहीतकण्ठस्य नायुःखण्डा इमे स्मृताः ॥ 7 ॥

श्लोक 11.26.8

नाहं वेदाभिनिर्मुक्तः सूर्यो वाभ्युदितो ऽमुया । मूषितो वर्षपूगानां बताहानि गतान्य् उत ॥ 8 ॥

श्लोक 11.26.9

अहो मे आत्मसम्मोहो येनात्मा योषितां कृतः । क्रीडामृगश् चक्रवर्ती नरदेवशिखामणिः ॥ 9 ॥

श्लोक 11.26.10

सपरिच्छदम् आत्मानं हित्वा तृणम् इवेश्वरम् । यान्तीं स्त्रियं चान्वगमं नग्न उन्मत्तवद् रुदन् ॥ 10 ॥

श्लोक 11.26.11

कुतस् तस्यानुभावः स्यात् तेज ईशत्वम् एव वा । यो ऽन्वगच्छं स्त्रियं यान्तीं खरवत् पादताडितः ॥ 11 ॥

श्लोक 11.26.12

किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा । किं विविक्तेन मौनेन स्त्रीभिर् यस्य मनो हृतम् ॥ 12 ॥

श्लोक 11.26.13

स्वार्थस्याकोविदं धिङ् मां मूर्खं पण्डितमानिनम् । यो ऽहम् ईश्वरतां प्राप्य स्त्रीभिर् गोखरवज् जितः ॥ 13 ॥

श्लोक 11.26.14

सेवतो वर्षपूगान् मे उर्वश्या अधरासवम् । न तृप्यत्य् आत्मभूः कामो वह्निर् आहुतिभिर् यथा ॥ 14 ॥

श्लोक 11.26.15

पुंश्चल्यापहृतं चित्तं को न्व् अन्यो मोचितुं प्रभुः । आत्मारामेश्वरम् ऋते भगवन्तम् अधोक्षजम् ॥ 15 ॥

श्लोक 11.26.16

बोधितस्यापि देव्या मे सूक्तवाक्येन दुर्मतेः । मनोगतो महामोहो नापयात्य् अजितात्मनः ॥ 16 ॥

श्लोक 11.26.17

किम् एतया नो ऽपकृतं रज्ज्वा वा सर्पचेतसः । द्रष्टुः स्वरूपाविदुषो यो ऽहं यद् अजितेन्द्रियः ॥ 17 ॥

श्लोक 11.26.18

क्वायं मलीमसः कायो दौर्गन्ध्याद्य्आत्मको ऽशुचिः । क्व गुणाः सौमनस्याद्या ह्य् अध्यासो ऽविद्यया कृतः ॥ 18 ॥

श्लोक 11.26.19

पित्रोः किं स्वं नु भार्यायाः स्वामिनो ऽग्नेः श्वगृध्रयोः । किम् आत्मनः किं सुहृदाम् इति यो नावसीयते ॥ 19 ॥

श्लोक 11.26.20

तस्मिन् कलेवरे ऽमेध्ये तुच्छनिष्ठे विषज्जते । अहो सुभद्रं सुनसं सुस्मितं च मुखं स्त्रियः ॥ 20 ॥

श्लोक 11.26.21

त्वङ्मांसरुधिरस्नायुमेदोमज्जास्थिसंहतौ । विण्मूत्रपूये रमतां कृमीणां कियद् अन्तरम् ॥ 21 ॥

श्लोक 11.26.22

अथापि नोपसज्जेत स्त्रीषु स्त्रैणेषु चार्थवित् । विषयेन्द्रियसंयोगान् मनः क्षुभ्यति नान्यथा ॥ 22 ॥

श्लोक 11.26.23

अदृष्टाद् अश्रुताद् भावान् न भाव उपजायते । असम्प्रयुञ्जतः प्राणान् शाम्यति स्तिमितं मनः ॥ 23 ॥

श्लोक 11.26.24

तस्मात् सङ्गो न कर्तव्यः स्त्रीषु स्त्रैणेषु चेन्द्रियैः । विदुषां चाप्य् अविस्रब्धः षड्वर्गः किम् उ मादृशाम् ॥ 24 ॥

श्लोक 11.26.25

एवं प्रगायन् नृपदेवदेवः स उर्वशीलोकम् अथो विहाय । आत्मानम् आत्मन्य् अवगम्य मां वै उपारमज् ज्ञाअनविधूतमोहः ॥ 25 ॥

श्लोक 11.26.26

ततो दुःसङ्गम् उत्सृज्य सत्सु सज्जेत बुद्धिमान् । सन्त एवास्य छिन्दन्ति मनोव्यासङ्गम् उक्तिभिः ॥ 26 ॥

श्लोक 11.26.27

सन्तो ऽनपेक्षा मच्चित्ताः प्रशान्ताः समदर्शिनः । निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः ॥ 27 ॥

श्लोक 11.26.28

तेषु नित्यं महाभाग महाभागेषु मत्कथाः । सम्भवन्ति हि ता नॄणां जुषतां प्रपुनन्त्य् अघम् ॥ 28 ॥

श्लोक 11.26.29

ता ये शृण्वन्ति गायन्ति ह्य् अनुमोदन्ति चादृताः । मत्पराः श्रद्दधानाश् च भक्तिं विन्दन्ति ते मयि ॥ 29 ॥

श्लोक 11.26.30

भक्तिं लब्धवतः साधोः किम् अन्यद् अवशिष्यते । मय्य् अनन्तगुणे ब्रह्मण्य् आनन्दानुभवात्मनि ॥ 30 ॥

श्लोक 11.26.31

यथोपश्रयमाणस्य भगवन्तं विभावसुम् । शीतं भयं तमो ऽप्येति साधून् संसेवतस् तथा ॥ 31 ॥

श्लोक 11.26.32

निमज्ज्योन्मज्जतां घोरे भवाब्धौ परमायणम् । सन्तो ब्रह्मविदः शान्ता नौर् दृढेवाप्सु मज्जताम् ॥ 32 ॥

श्लोक 11.26.33

अन्नं हि प्राणिनां प्राण आर्तानां शरणं त्व् अहम् । धर्मो वित्तं नृणां प्रेत्य सन्तो ऽर्वाग् बिभ्यतो ऽरणम् ॥ 33 ॥

श्लोक 11.26.34

सन्तो दिशन्ति चक्षूंसि बहिर् अर्कः समुत्थितः । देवता बान्धवाः सन्तः सन्त आत्माहम् एव च ॥ 34 ॥

श्लोक 11.26.35

वैतसेनस् ततो ऽप्य् एवम् उर्वश्या लोकनिष्पृहः । मुक्तसङ्गो महीम् एताम् आत्मारामश् चचार ह ॥ 35 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ