श्रीमद्भागवत एकादश स्कन्ध अध्याय 27
श्रीमद्भागवत एकादश स्कन्ध अध्याय 27 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 11.27.1
क्रियायोगं समाचक्ष्व भवद्आराधनं प्रभो । यस्मात् त्वां ये यथार्चन्ति सात्वताः सात्वतर्षभ ॥ 1 ॥
श्लोक 11.27.2
एतद् वदन्ति मुनयो मुहुर् निःश्रेयसं नृणाम् । नारदो भगवान् व्यास आचार्यो ऽङ्गिरसः सुतः ॥ 2 ॥
श्लोक 11.27.3
निःसृतं ते मुखाम्भोजाद् यद् आह भगवान् अजः । पुत्रेभ्यो भृगुमुख्येभ्यो देव्यै च भगवान् भवः ॥ 3 ॥
श्लोक 11.27.4
एतद् वै सर्ववर्णानाम् आश्रमाणां च सम्मतम् । श्रेयसाम् उत्तमं मन्ये स्त्रीशूद्राणां च मानद ॥ 4 ॥
श्लोक 11.27.5
एतत् कमलपत्राक्ष कर्मबन्धविमोचनम् । भक्ताय चानुरक्ताय ब्रूहि विश्वेश्वरेश्वर ॥ 5 ॥
श्लोक 11.27.6
न ह्य् अन्तो ऽनन्तपारस्य कर्मकाण्डस्य चोद्धव । सङ्क्षिप्तं वर्णयिष्यामि यथावद् अनुपूर्वशः ॥ 6 ॥
श्लोक 11.27.7
वैदिकस् तान्त्रिको मिश्र इति मे त्रिविधो मखः । त्रयाणाम् ईप्सितेनैव विधिना मां समर्चरेत् ॥ 7 ॥
श्लोक 11.27.8
यदा स्वनिगमेनोक्तं द्विजत्वं प्राप्य पूरुषः । यथा यजेत मां भक्त्या श्रद्धया तन् निबोध मे ॥ 8 ॥
श्लोक 11.27.9
अर्चायां स्थण्डिले ऽग्नौ वा सूर्ये वाप्सु हृदि द्विजः । द्रव्येण भक्तियुक्तो ऽर्चेत् स्वगुरुं माम् अमायया ॥ 9 ॥
श्लोक 11.27.10
पूर्वं स्नानं प्रकुर्वीत धौतदन्तो ऽङ्गशुद्धये । उभयैर् अपि च स्नानं मन्त्रैर् मृद्ग्रहणादिना ॥ 10 ॥
श्लोक 11.27.11
सन्ध्योपास्त्यादिकर्माणि वेदेनाचोदितानि मे । पूजां तैः कल्पयेत् सम्यक्सङ्कल्पः कर्मपावनीम् ॥ 11 ॥
श्लोक 11.27.12
शैली दारुमयी लौही लेप्या लेख्या च सैकती । मनोमयी मणिमयी प्रतिमाष्टविधा स्मृता ॥ 12 ॥
श्लोक 11.27.13
चलाचलेति द्विविधा प्रतिष्ठा जीवमन्दिरम् । उद्वासावाहने न स्तः स्थिरायाम् उद्धवार्चने ॥ 13 ॥
श्लोक 11.27.14
अस्थिरायां विकल्पः स्यात् स्थण्डिले तु भवेद् द्वयम् । स्नपनं त्व् अविलेप्यायाम् अन्यत्र परिमार्जनम् ॥ 14 ॥
श्लोक 11.27.15
द्रव्यैः प्रसिद्धैर् मद्यागः प्रतिमादिष्व् अमायिनः । भक्तस्य च यथालब्धैर् हृदि भावेन चैव हि ॥ 15 ॥
श्लोक 11.27.16
स्नानालङ्करणं प्रेष्ठम् अर्चायाम् एव तूद्धव । स्थण्डिले तत्त्वविन्यासो वह्नाव् आज्यप्लुतं हविः ॥ 16 ॥
श्लोक 11.27.17
सूर्ये चाभ्यर्हणं प्रेष्ठं सलिले सलिलादिभिः । श्रद्धयोपाहृतं प्रेष्ठं भक्तेन मम वार्य् अपि ॥ 17 ॥
श्लोक 11.27.18
भूर्य् अप्य् अभक्तोपाहृतं न मे तोषाय कल्पते । गन्धो धूपः सुमनसो दीपो ऽन्नाद्यं च किं पुनः ॥ 18 ॥
श्लोक 11.27.19
शुचिः सम्भृतसम्भारः प्राग्दर्भैः कल्पितासनः । आसीनः प्राग् उदग् वार्चेद् अर्चायां त्व् अथ सम्मुखः ॥ 19 ॥
श्लोक 11.27.20
कृतन्यासः कृतन्यासां मद्अर्चां पाणिनामृजेत् । कलशं प्रोक्षणीयं च यथावद् उपसाधयेत् ॥ 20 ॥
श्लोक 11.27.21
तद्अद्भिर् देवयजनं द्रव्याण्य् आत्मानम् एव च । प्रोक्ष्य पात्राणि त्रीण्य् अद्भिस् तैस् तैर् द्रव्यैश् च साधयेत् ॥ 21 ॥
श्लोक 11.27.22
पाद्यार्घ्याचमनीयार्थं त्रीणि पात्राणि देशिकः । हृदा शीर्ष्णाथ शिखया गायत्र्या चाभिमन्त्रयेत् ॥ 22 ॥
श्लोक 11.27.23
पिण्डे वाय्व्अग्निसंशुद्धे हृत्पद्मस्थां परां मम । अण्वीं जीवकलां ध्यायेन् नादान्ते सिद्धभाविताम् ॥ 23 ॥
श्लोक 11.27.24
तयात्मभूतया पिण्डे व्याप्ते सम्पूज्य तन्मयः । आवाह्यार्चादिषु स्थाप्य न्यस्ताङ्गं मां प्रपूजयेत् ॥ 24 ॥
श्लोक 11.27.25
पाद्योपस्पर्शार्हणादीन् उपचारान् प्रकल्पयेत् । धर्मादिभिश् च नवभिः कल्पयित्वासनं मम ॥ 25 ॥
श्लोक 11.27.26
पद्मम् अष्टदलं तत्र कर्णिकाकेसरोज्ज्वलम् । उभाभ्यां वेदतन्त्राभ्यां मह्यं तूभयसिद्धये ॥ 26 ॥
श्लोक 11.27.27
सुदर्शनं पाञ्चजन्यं गदासीषुधनुर्हलान् । मुषलं कौस्तुभं मालां श्रीवत्सं चानुपूजयेत् ॥ 27 ॥
श्लोक 11.27.28
नन्दं सुनन्दं गरुडं प्रचण्डं चण्डं एव च । महाबलं बलं चैव कुमुदं कमुदेक्षणम् ॥ 28 ॥
श्लोक 11.27.29
दुर्गां विनायकं व्यासं विष्वक्षेनं गुरून् सुरान् । स्वे स्वे स्थाने त्व् अभिमुखान् पूजयेत् प्रोक्षणादिभिः ॥ 29 ॥
श्लोक 11.27.30
चन्दनोशीरकर्पूरकुङ्कुमागुरुवासितैः । सलिलैः स्नापयेन् मन्त्रैर् नित्यदा विभवे सति ॥ 30 ॥
श्लोक 11.27.31
स्वर्णघर्मानुवाकेन महापुरुषविद्यया । पौरुषेणापि सूक्तेन सामभी राजनादिभिः ॥ 31 ॥
श्लोक 11.27.32
वस्त्रोपवीताभरणपत्रस्रग्गन्धलेपनैः । अलङ्कुर्वीत सप्रेम मद्भक्तो मां यथोचितम् ॥ 32 ॥
श्लोक 11.27.33
पाद्यम् आचमनीयं च गन्धं सुमनसो ऽक्षतान् । धूपदीपोपहार्याणि दद्यान् मे श्रद्धयार्चकः ॥ 33 ॥
श्लोक 11.27.34
गुडपायससर्पींषि शष्कुल्य्आपूपमोदकान् । संयावदधिसूपांश् च नैवेद्यं सति कल्पयेत् ॥ 34 ॥
श्लोक 11.27.35
अभ्यङ्गोन्मर्दनादर्शदन्तधावाभिषेचनम् । अन्नाद्यगीतनृत्यानि पर्वणि स्युर् उतान्व्अहम् ॥ 35 ॥
श्लोक 11.27.36
विधिना विहिते कुण्डे मेखलागर्तवेदिभिः । अग्निम् आधाय परितः समूहेत् पाणिनोदितम् ॥ 36 ॥
श्लोक 11.27.37
परिस्तीर्याथ पर्युक्षेद् अन्वाधाय यथाविधि । प्रोक्षण्यासाद्य द्रव्याणि प्रोक्ष्याग्नौ भावयेत माम् ॥ 37 ॥
श्लोक 11.27.38
तप्तजाम्बूनदप्रख्यं शङ्खचक्रगदाम्बुजैः । लसच्चतुर्भुजं शान्तं पद्मकिञ्जल्कवाससम् ॥ 38 ॥
श्लोक 11.27.39
स्फुरत्किरीटकटक कटिसूत्रवराङ्गदम् । श्रीवत्सवक्षसं भ्राजत्कौस्तुभं वनमालिनम् ॥ 39 ॥
श्लोक 11.27.40
ध्यायन्न् अभ्यर्च्य दारूणि हविषाभिघृतानि च । प्रास्याज्यभागाव् आघारौ दत्त्वा चाज्यप्लुतं हविः ॥ 40 ॥
श्लोक 11.27.41
जुहुयान् मूलमन्त्रेण षोडशर्चावदानतः । धर्मादिभ्यो यथान्यायं मन्त्रैः स्विष्टिकृतं बुधः ॥ 41 ॥
श्लोक 11.27.42
अभ्यर्च्याथ नमस्कृत्य पार्षदेभ्यो बलिं हरेत् । मूलमन्त्रं जपेद् ब्रह्म स्मरन् नारायणात्मकम् ॥ 42 ॥
श्लोक 11.27.43
दत्त्वाचमनम् उच्छेषं विष्वक्षेनाय कल्पयेत् । मुखवासं सुरभिमत् ताम्बूलाद्यम् अथार्हयेत् ॥ 43 ॥
श्लोक 11.27.44
उपगायन् गृणन् नृत्यन् कर्माण्य् अभिनयन् मम । मत्कथाः श्रावयन् शृण्वन् मुहूर्तं क्षणिको भवेत् ॥ 44 ॥
श्लोक 11.27.45
स्तवैर् उच्चावचैः स्तोत्रैः पौराणैः प्राकृतैर् अपि । स्तुत्वा प्रसीद भगवन्न् इति वन्देत दण्डवत् ॥ 45 ॥
श्लोक 11.27.46
शिरो मत्पादयोः कृत्वा बाहुभ्यां च परस्परम् । प्रपन्नं पाहि माम् ईश भीतं मृत्युग्रहार्णवात् ॥ 46 ॥
श्लोक 11.27.47
इति शेषां मया दत्तां शिरस्य् आधाय सादरम् । उद्वासयेच् चेद् उद्वास्यं ज्योतिर् ज्योतिषि तत् पुनः ॥ 47 ॥
श्लोक 11.27.48
अर्चादिषु यदा यत्र श्रद्धा मां तत्र चार्चयेत् । सर्वभूतेष्व् आत्मनि च सर्वात्माहम् अवस्थितः ॥ 48 ॥
श्लोक 11.27.49
एवं क्रियायोगपथैः पुमान् वैदिकतान्त्रिकैः । अर्चन्न् उभयतः सिद्धिं मत्तो विन्दत्य् अभीप्सिताम् ॥ 49 ॥
श्लोक 11.27.50
मद्अर्चां सम्प्रतिष्ठाप्य मन्दिरं कारयेद् दृढम् । पुष्पोद्यानानि रम्याणि पूजायात्रोत्सवाश्रितान् ॥ 50 ॥
श्लोक 11.27.51
पूजादीनां प्रवाहार्थं महापर्वस्व् अथान्व्अहम् । क्षेत्रापणपुरग्रामान् दत्त्वा मत्सार्ष्टिताम् इयात् ॥ 51 ॥
श्लोक 11.27.52
प्रतिष्ठया सार्वभौमं सद्मना भुवनत्रयम् । पूजादिना ब्रह्मलोकं त्रिभिर् मत्साम्यताम् इयात् ॥ 52 ॥
श्लोक 11.27.53
माम् एव नैरपेक्ष्येण भक्तियोगेन विन्दति । भक्तियोगं स लभत एवं यः पूजयेत माम् ॥ 53 ॥
श्लोक 11.27.54
यः स्वदत्तां परैर् दत्तां हरेत सुरविप्रयोः । वृत्तिं स जायते विड्भुग् वर्षाणाम् अयुतायुतम् ॥ 54 ॥
श्लोक 11.27.55
कर्तुश् च सारथेर् हेतोर् अनुमोदितुर् एव च । कर्मणां भागिनः प्रेत्य भूयो भूयसि तत्फलम् ॥ 55 ॥