श्रीमद्भागवत एकादश स्कन्ध अध्याय 28
श्रीमद्भागवत एकादश स्कन्ध अध्याय 28 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 11.28.1
परस्वभावकर्माणि न प्रशंसेन् न गर्हयेत् । विश्वम् एकामकं पश्यन् प्रकृत्या पुरुषेण च ॥ 1 ॥
श्लोक 11.28.2
परस्वभावकर्माणि यः प्रशंसति निन्दति । स आशु भ्रश्यते स्वार्थाद् असत्य् अभिनिवेशतः ॥ 2 ॥
श्लोक 11.28.3
तैजसे निद्रयापन्ने पिण्डस्थो नष्टचेतनः । मायां प्राप्नोति मृत्युं वा तद्वन् नानार्थदृक् पुमान् ॥ 3 ॥
श्लोक 11.28.4
किं भद्रं किम् अभद्रं वा द्वैतस्यावस्तुनः कियत् । वाचोदितं तद् अनृतं मनसा ध्यातम् एव च ॥ 4 ॥
श्लोक 11.28.5
छायाप्रत्याह्वयाभासा ह्य् असन्तो ऽप्य् अर्थकारिणः । एवं देहादयो भावा यच्छन्त्य् आमृत्युतो भयम् ॥ 5 ॥
श्लोक 11.28.6
आत्मैव तद् इदं विश्वं सृज्यते सृजति प्रभुः । त्रायते त्राति विश्वात्मा ह्रियते हरतीश्वरः ॥ 6 ॥
श्लोक 11.28.7
तस्मान् न ह्य् आत्मनो ऽन्यस्माद् अन्यो भावो निरूपितः । निरूपिते ऽयं त्रिविधा निर्मूल भातिर् आत्मनि । इदं गुणमयं विद्धि त्रिविधं मायया कृतम् ॥ 7 ॥
श्लोक 11.28.8
एतद् विद्वान् मद्उदितं ज्ञानविज्ञाननैपुणम् । न निन्दति न च स्तौति लोके चरति सूर्यवत् ॥ 8 ॥
श्लोक 11.28.9
प्रत्यक्षेणानुमानेन निगमेनात्मसंविदा । आद्य्अन्तवद् असज् ज्ञात्वा निःसङ्गो विचरेद् इह ॥ 9 ॥
श्लोक 11.28.10
नैवात्मनो न देहस्य संसृतिर् द्रष्टृदृश्ययोः । अनात्मस्वदृशोर् ईश कस्य स्याद् उपलभ्यते ॥ 10 ॥
श्लोक 11.28.11
आत्माव्ययो ऽगुणः शुद्धः स्वयंज्योतिर् अनावृतः । अग्निवद् दारुवद् अचिद् देहः कस्येह संसृतिः ॥ 11 ॥
श्लोक 11.28.12
यावद् देहेन्द्रियप्राणैर् आत्मनः सन्निकर्षणम् । संसारः फलवांस् तावद् अपार्थो ऽप्य् अविवेकिनः ॥ 12 ॥
श्लोक 11.28.13
अर्थे ह्य् अविद्यमाने ऽपि संसृतिर् न निवर्तते । ध्यायतो विषयान् अस्य स्वप्ने ऽनर्थागमो यथा ॥ 13 ॥
श्लोक 11.28.14
यथा ह्य् अप्रतिबुद्धस्य प्रस्वापो बह्व्अनर्थभृत् । स एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ 14 ॥
श्लोक 11.28.15
शोकहर्षभयक्रोधलोभमोहस्पृहादयः । अहङ्कारस्य दृश्यन्ते जन्ममृत्युश् च नात्मनः ॥ 15 ॥
श्लोक 11.28.16
देहेन्द्रियप्राणमनोऽभिमानो जीवो ऽन्तर्आत्मा गुणकर्ममूर्तिः । सूत्रं महान् इत्य् उरुधेव गीतः संसार आधावति कालतन्त्रः ॥ 16 ॥
श्लोक 11.28.17
अमूलम् एतद् बहुरूपरूपितं मनोवचःप्राणशरीरकर्म । ज्ञानासिनोपासनया शितेन च्छित्त्वा मुनिर् गां विचरत्य् अतृष्णः ॥ 17 ॥
श्लोक 11.28.18
ज्ञानं विवेको निगमस् तपश् च प्रत्यक्षम् ऐतिह्यम् अथानुमानम् । आद्य्अन्तयोर् अस्य यद् एव केवलं कालश् च हेतुश् च तद् एव मध्ये ॥ 18 ॥
श्लोक 11.28.19
यथा हिरण्यं स्व्अकृतं पुरस्तात् पश्चाच् च सर्वस्य हिरण्मयस्य । तद् एव मध्ये व्यवहार्यमाणं नानापदेशैर् अहम् अस्य तद्वत् ॥ 19 ॥
श्लोक 11.28.20
विज्ञानम् एतत् त्रिय्अवस्थम् अङ्ग गुणत्रयं कारणकर्यकर्तृ । समन्वयेन व्यतिरेकतश् च येनैव तुर्येण तद् एव सत्यम् ॥ 20 ॥
श्लोक 11.28.21
न यत् पुरस्ताद् उत यन् न पश्चान् मध्ये च तन् न व्यपदेशमात्रम् । भूतं प्रसिद्धं च परेण यद् यत् तद् एव तत् स्याद् इति मे मनीषा ॥ 21 ॥
श्लोक 11.28.22
अविद्यमानो ऽप्य् अवभासते यो वैकारिको राजससर्ग एसः । ब्रह्म स्वयं ज्योतिर् अतो विभाति ब्रह्मेन्द्रियार्थात्मविकारचित्रम् ॥ 22 ॥
श्लोक 11.28.23
एवं स्फुतं ब्रह्मविवेकहेतुभिः परापवादेन विशारदेन &अम्प्; छित्त्वात्मसन्देहम् उपारमेत स्वानन्दतुष्टो ऽखिलकामुकेभ्यः ॥ 23 ॥
श्लोक 11.28.24
नात्मा वपुः पार्थिवम् इन्द्रियाणि देवा ह्य् असुर् वायुर् जलम् हुताशः । मनो ऽन्नमात्रं धिषणा च सत्त्वम् अहङ्कृतिः खं क्षितिर् अर्थसाम्यम् ॥ 24 ॥
श्लोक 11.28.25
समाहितैः कः करणैर् गुणात्मभिर् गुणो भवेन् मत्सुविविक्तधाम्नः &अम्प्; विक्षिप्यमाणैर् उत किं नु दूषणं घनैर् उपेतैर् विगतै रवेः किम् ॥ 25 ॥
श्लोक 11.28.26
यथा नभो वाय्व्अनलाम्बुभूगुणैर् गतागतैर् वर्तुगुणैर् न सज्जते । तथाक्षरं सत्त्वरजस्तमोमलैर् अहंमतेः संसृतिहेतुभिः परम् ॥ 26 ॥
श्लोक 11.28.27
तथापि सङ्गः परिवर्जनीयो गुणेषु मायारचितेषु तावत् । मद्भक्तियोगेन दृढेन यावद् रजो निरस्येत मनःकषायः ॥ 27 ॥
श्लोक 11.28.28
यथामयो ऽसाधु चिकित्सितो नृणां पुनः पुनः सन्तुदति प्ररोहन् । एवं मनो ऽपक्वकषायकर्म कुयोगिनं विध्यति सर्वसङ्गम् ॥ 28 ॥
श्लोक 11.28.29
कुयोगिनो ये विहितान्तरायैर् मनुष्यभूतैस् त्रिदशोपसृष्टैः । ते प्राक्तनाभ्यासबलेन भूयो युञ्जन्ति योगं न तु कर्मतन्त्रम् ॥ 29 ॥
श्लोक 11.28.30
करोति कर्म क्रियते च जन्तुः केनाप्य् असौ चोदित आनिपतात् । न तत्र विद्वान् प्रकृतौ स्थितो ऽपि निवृत्ततृष्णः स्वसुखानुभूत्या ॥ 30 ॥
श्लोक 11.28.31
तिष्ठन्तम् आसीनम् उत व्रजन्तं शयानम् उक्षन्तम् अदन्तम् अन्नम् । स्वभावम् अन्यत् किम् अपीहमानम् आत्मानम् आत्मस्थमतिर् न वेद ॥ 31 ॥
श्लोक 11.28.32
यदि स्म पश्यत्य् असद्इन्द्रियार्थं नानानुमानेन विरुद्धम् अन्यत् । न मन्यते वस्तुतया मनीषी स्वाप्नं यथोत्थाय तिरोदधानम् ॥ 32 ॥
श्लोक 11.28.33
पूर्वं गृहीतं गुणकर्मचित्रम् अज्ञानम् आत्मन्य् अविविक्तम् अङ्ग । निवर्तते तत् पुनर् ईक्षयैव न गृह्यते नापि विसृय्य आत्मा ॥ 33 ॥
श्लोक 11.28.34
यथा हि भानोर् उदयो नृचक्षुषां तमो निहन्यान् न तु सद् विधत्ते । एवं समीक्षा निपुणा सती मे हन्यात् तमिस्रं पुरुषस्य बुद्धेः ॥ 34 ॥
श्लोक 11.28.35
एष स्वयंज्योतिर् अजो ऽप्रमेयो महानुभूतिः सकलानुभूतिः । एको ऽद्वितीयो वचसां विरामे येनेषिता वाग्असवश् चरन्ति ॥ 35 ॥
श्लोक 11.28.36
एतावान् आत्मसम्मोहो यद् विकल्पस् तु केवले । आत्मन् ऋते स्वम् आत्मानम् अवलम्बो न यस्य हि ॥ 36 ॥
श्लोक 11.28.37
यन् नामाकृतिभिर् ग्राह्यं पञ्चवर्णम् अबाधितम् । व्यर्थेनाप्य् अर्थवादो ऽयं द्वयं पण्डितमानिनाम् ॥ 37 ॥
श्लोक 11.28.38
योगिनो ऽपक्वयोगस्य युञ्जतः काय उत्थितैः । उपसर्गैर् विहन्येत तत्रायं विहितो विधिः ॥ 38 ॥
श्लोक 11.28.39
योगधारणया कांश्चिद् आसनैर् धारणान्वितैः । तपोमन्त्रौषधैः कांश्चिद् उपसर्गान् विनिर्दहेत् ॥ 39 ॥
श्लोक 11.28.40
कांश्चिन् ममानुध्यानेन नामसङ्कीर्तनादिभिः । योगेश्वरानुवृत्त्या वा हन्याद् अशुभदान् शनैः ॥ 40 ॥
श्लोक 11.28.41
केचिद् देहम् इमं धीराः सुकल्पं वयसि स्थिरम् । विधाय विविधोपायैर् अथ युञ्जन्ति सिद्धये ॥ 41 ॥
श्लोक 11.28.42
न हि तत् कुशलादृत्यं तद्आयासो ह्य् अपार्थकः । अन्तवत्त्वाच् छरीरस्य फलस्येव वनस्पतेः ॥ 42 ॥
श्लोक 11.28.43
योगं निषेवतो नित्यं कायश् चेत् कल्पताम् इयात् । तच् छ्रद्दध्यान् न मतिमान् योगम् उत्सृज्य मत्परः ॥ 43 ॥
श्लोक 11.28.44
योगचर्याम् इमां योगी विचरन् मद्अपाश्रयः । नान्तरायैर् विहन्येत निःस्पृहः स्वसुखानुभूः ॥ 44 ॥