श्रीमद्भागवत एकादश स्कन्ध अध्याय 29
श्रीमद्भागवत एकादश स्कन्ध अध्याय 29 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 11.29.1
सुदुस्तराम् इमां मन्ये योगचर्याम् अनात्मनः । यथाञ्जसा पुमान् सिद्ध्येत् तन् मे ब्रूह्य् अञ्जसाच्युत ॥ 1 ॥
श्लोक 11.29.2
प्रायशः पुण्दरीकाक्ष युञ्यन्तो योगिनो मनः । विषीदन्त्य् असमाधानान् मनोनिग्रहकर्शिताः ॥ 2 ॥
श्लोक 11.29.3
अथात आनन्ददुघं पदाम्बुजं हंसाः श्रयेरन्न् अरविन्दलोचन । सुखं नु विश्वेश्वर योगकर्मभिस् त्वन्माययामी विहता न मानिनः ॥ 3 ॥
श्लोक 11.29.4
किं चित्रम् अच्युत तवैतद् अशेषबन्धो दासेष्व् अनन्यशरणेसु यद् आत्मसात्त्वम् । यो ऽरोचयत् सह मृगैः स्वयम् ईश्वराणां श्रीमत्किरीटतटपीडितपादपीठः ॥ 4 ॥
श्लोक 11.29.5
तं त्वाखिलात्मदयितेश्वरम् आश्रितानां सर्वार्थदं स्वकृतविद् विसृजेत को नु &अम्प्; को वा भजेत् किम् अपि विस्मृतये ऽनु भूत्यै किं वा भवेन् न तव पादरजोजुषां नः ॥ 5 ॥
श्लोक 11.29.6
नैवोपयन्त्य् अपचितिं कवयस् तवेश ब्रह्मायुषापि कृतम् ऋद्धमुदः स्मरन्तः । यो ऽन्तर् बहिस् तनुभृताम् अशुभं विधुन्वन्न् आचार्यचैत्त्यवपुषा स्वगतिं व्यनक्ति ॥ 6 ॥
श्लोक 11.29.7
इत्य् उद्धवेनात्य्अनुरक्तचेतसा पृष्टो जगत्क्रीडनकः स्वशक्तिभिः । गृहीतमूर्तित्रय ईश्वरेश्वरो जगाद सप्रेममनोहरस्मितः ॥ 7 ॥
श्लोक 11.29.8
हन्त ते कथयिष्यामि मम धर्मान् सुमङ्गलान् । यान् श्रद्धयाचरन् मर्त्यो मृत्युं जयति दुर्जयम् ॥ 8 ॥
श्लोक 11.29.9
कुर्यात् सर्वाणि कर्माणि मद्अर्थं शनकैः स्मरन् । मय्य् अर्पितमनश्चित्तो मद्धर्मात्ममनोरतिः ॥ 9 ॥
श्लोक 11.29.10
देशान् पुण्यान् आश्रयेत मद्भक्तैः साधुभिः श्रितान् । देवासुरमनुष्येषु मद्भक्ताचरितानि च ॥ 10 ॥
श्लोक 11.29.11
पृथक् सत्रेण वा मह्यं पर्वयात्रामहोत्सवान् । कारयेद् गीतनृत्याद्यैर् महाराजविभूतिभिः ॥ 11 ॥
श्लोक 11.29.12
माम् एव सर्वभूतेषु बहिर् अन्तर् अपावृतम् । ईक्षेतात्मनि चात्मानं यथा खम् अमलाशयः ॥ 12 ॥
श्लोक 11.29.13
इति सर्वाणि भूतानि मद्भावेन महाद्युते । सभाजयन् मन्यमानो ज्ञानं केवलम् आश्रितः ॥ 13 ॥
श्लोक 11.29.14
ब्राह्मणे पुक्कसे स्तेने ब्रह्मण्ये ऽर्के स्फुलिङ्गके । अक्रूरे क्रूरके चैव समदृक् पण्डितो मतः ॥ 14 ॥
श्लोक 11.29.15
नरेष्व् अभीक्ष्णं मद्भावं पुंसो भावयतो ऽचिरात् । स्पर्धासूयातिरस्काराः साहङ्कारा वियन्ति हि ॥ 15 ॥
श्लोक 11.29.16
विसृज्य स्मयमानान् स्वान् दृशं व्रीडां च दैहिकीम् । प्रणमेद् दण्डवद् भूमाव् आश्वचाण्डालगोखरम् ॥ 16 ॥
श्लोक 11.29.17
यावत् सर्वेषु भूतेषु मद्भावो नोपजायते । तावद् एवम् उपासीत वाङ्मनःकायवृत्तिभिः ॥ 17 ॥
श्लोक 11.29.18
सर्वं ब्रह्मात्मकं तस्य विद्ययात्ममनीषया । परिपश्यन्न् उपरमेत् सर्वतो मुइतसंशयः ॥ 18 ॥
श्लोक 11.29.19
अयं हि सर्वकल्पानां सध्रीचीनो मतो मम । मद्भावः सर्वभूतेषु मनोवाक्कायवृत्तिभिः ॥ 19 ॥
श्लोक 11.29.20
न ह्य् अङ्गोपक्रमे ध्वंसो मद्धर्मस्योद्धवाण्व् अपि । मया व्यवसितः सम्यङ् निर्गुणत्वाद् अनाशिषः ॥ 20 ॥
श्लोक 11.29.21
यो यो मयि परे धर्मः कल्प्यते निष्फलाय चेत् । तद्आयासो निरर्थः स्याद् भयादेर् इव सत्तम ॥ 21 ॥
श्लोक 11.29.22
एषा बुद्धिमतां बुद्धिर् मनीषा च मनीषिणाम् । यत् सत्यम् अनृतेनेह मर्त्येनाप्नोति मामृतम् ॥ 22 ॥
श्लोक 11.29.23
एष ते ऽभिहितः कृत्स्नो ब्रह्मवादस्य सङ्ग्रहः । समासव्यासविधिना देवानाम् अपि दुर्गमः ॥ 23 ॥
श्लोक 11.29.24
अभीक्ष्णशस् ते गदितं ज्ञानं विस्पष्टयुक्तिमत् । एतद् विज्ञाय मुच्येत पुरुषो नष्टसंशयः ॥ 24 ॥
श्लोक 11.29.25
सुविविक्तं तव प्रश्नं मयैतद् अपि धारयेत् । सनातनं ब्रह्मगुह्यं परं ब्रह्माधिगच्छति ॥ 25 ॥
श्लोक 11.29.26
य एतन् मम भक्तेषु सम्प्रदद्यात् सुपुष्कलम् । तस्याहं ब्रह्मदायस्य ददाम्य् आत्मानम् आत्मना ॥ 26 ॥
श्लोक 11.29.27
य एतत् समधीयीत पवित्रं परमं शुचि । स पूयेताहर् अहर् मां ज्ञानदीपेन दर्शयन् ॥ 27 ॥
श्लोक 11.29.28
य एतच् छ्रद्धया नित्यम् अव्यग्रः शृणुयान् नरः । मयि भक्तिं परां कुर्वन् कर्मभिर् न स बध्यते ॥ 28 ॥
श्लोक 11.29.29
अप्य् उद्धव त्वया ब्रह्म सखे समवधारितम् । अपि ते विगतो मोहः शोकश् चासौ मनोभवः ॥ 29 ॥
श्लोक 11.29.30
नैतत् त्वया दाम्भिकाय नास्तिकाय शठाय च । अशुश्रूषोर् अभक्ताय दुर्विनीताय दीयताम् ॥ 30 ॥
श्लोक 11.29.31
एतैर् दोषैर् विहीनाय ब्रह्मण्याय प्रियाय च । साधवे शुचये ब्रूयाद् भक्तिः स्याच् छूद्रयोषिताम् ॥ 31 ॥
श्लोक 11.29.32
नैतद् विज्ञाय जिज्ञासोर् ज्ञातव्यम् अवशिष्यते । पीत्वा पीयूषम् अमृतं पातव्यं नावशिष्यते ॥ 32 ॥
श्लोक 11.29.33
ज्ञाने कर्मणि योगे च वार्तायां दण्डधारणे । यावान् अर्थो नृणां तात तावांस् ते ऽहं चतुर्विधः ॥ 33 ॥
श्लोक 11.29.34
मर्त्यो यदा त्यक्तसमस्तकर्मा निवेदितात्मा विचिकीर्षितो मे । तदामृतत्वं प्रतिपद्यमानो मयात्मभूयाय च कल्पते वै ॥ 34 ॥
श्लोक 11.29.35
स एवम् आदर्शितयोगमार्गस् तदोत्तमःश्लोकवचो निशम्य । बद्धाञ्जलिः प्रीत्य्उपरुद्धकण्ठो न किञ्चिद् ऊचे ऽश्रुपरिप्लुताक्षः ॥ 35 ॥
श्लोक 11.29.36
विष्टभ्य चित्तं प्रणयावघूर्णं धैर्येण राजन् बहुमन्यमानः । कृताञ्जलिः प्राह यदुप्रवीरं शीर्ष्णा स्पृशंस् तच्चरणारविन्दम् ॥ 36 ॥
श्लोक 11.29.37
विद्रावितो मोहमहान्धकारो य आश्रितो मे तव सन्निधानात् । विभावसोः किं नु समीपगस्य शीतं तमो भीः प्रभवन्त्य् अजाद्य ॥ 37 ॥
श्लोक 11.29.38
प्रत्यर्पितो मे भवतानुकम्पिना भृत्याय विज्ञानमयः प्रदीपः । हित्वा कृतज्ञस् तव पादमूलं को ऽन्यं समीयाच् छरणं त्वदीयम् ॥ 38 ॥
श्लोक 11.29.39
वृक्णश् च मे सुदृढः स्नेहपाशो दाशार्हवृष्ण्य्अन्धकसात्वतेषु । प्रसारितः सृष्टिविवृद्धये त्वया स्वमायया ह्य् आत्मसुबोधहेतिना ॥ 39 ॥
श्लोक 11.29.40
नमो ऽस्तु ते महायोगिन् प्रपन्नम् अनुशाधि माम् । यथा त्वच्चरणाम्भोजे रतिः स्याद् अनपायिनी ॥ 40 ॥
श्लोक 11.29.41
गच्छोद्धव मयादिष्टो बदर्य्आख्यं ममाश्रमम् । तत्र मत्पादतीर्थोदे स्नानोपस्पर्शनैः शुचिः ॥ 41 ॥
श्लोक 11.29.42
ईक्षयालकनन्दाया विधूताशेषकल्मषः । वसानो वल्कलान्य् अङ्ग वन्यभुक् सुखनिःस्पृहः ॥ 42 ॥
श्लोक 11.29.43
तितिक्षुर् द्वन्द्वमात्राणां सुशीलः संयतेन्द्रियः । शान्तः समाहितधिया ज्ञानविज्ञानसंयुतः ॥ 43 ॥
श्लोक 11.29.44
मत्तो ऽनुशिक्षितं यत् ते विविक्तम् अनुभावयन् । मय्य् आवेशितवाक्चित्तो मद्धर्मनिरतो भव । अतिव्रज्य गतीस् तिस्रो माम् एष्यसि ततः परम् ॥ 44 ॥
श्लोक 11.29.45
स एवम् उक्तो हरिमेधसोद्धवः प्रदक्षिणं तं परिसृत्य पादयोः । शिरो निधायाश्रुकलाभिर् आर्द्रधीर् न्यषिञ्चद् अद्वन्द्वपरो ऽप्य् अपक्रमे ॥ 45 ॥
श्लोक 11.29.46
सुदुस्त्यजस्नेहवियोगकातरो न शक्नुवंस् तं परिहातुम् आतुरः । कृच्छ्रं ययौ मूर्धनि भर्तृपादुके बिभ्रन् नमस्कृत्य ययौ पुनः पुनः ॥ 46 ॥
श्लोक 11.29.47
ततस् तम् अन्तर् हृदि सन्निवेश्य गतो महाभागवतो विशालाम् । यथोपदिष्टां जगद्एकबन्धुना तपः समास्थाय हरेर् अगाद् गतिम् ॥ 47 ॥
श्लोक 11.29.48
य एतद् आनन्दसमुद्रसम्भृतं ज्ञानामृतं भागवताय भाषितम् । कृष्णेन योगेश्वरसेविताङ्घ्रिणा सच्छ्रद्धयासेव्य जगद् विमुच्यते ॥ 48 ॥
श्लोक 11.29.49
भवभयम् अपहन्तुं ज्ञानविज्ञानसारं निगमकृद् उपजह्रे भृङ्गवद् वेदसारम् &अम्प्; अमृतम् उदधितश् चापाययद् भृत्यवर्गान् पुरुषम् ऋषभम् आद्यं कृष्णसंज्ञं नतो ऽस्मि ॥ 49 ॥