मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत एकादश स्कन्ध अध्याय 4

श्रीमद्भागवत एकादश स्कन्ध अध्याय 4 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 11.4.1

यानि यानीह कर्माणि यैर् यैः स्वच्छन्दजन्मभिः । चक्रे करोति कर्ता वा हरिस् तानि ब्रुवन्तु नः ॥ 1 ॥

श्लोक 11.4.2

यो वा अनन्तस्य गुनान् अनन्तान् अनुक्रमिष्यन् स तु बालबुद्धिः । रजांसि भूमेर् गणयेत् कथञ्चित् कालेन नैवाखिलशक्तिधाम्नः ॥ 2 ॥

श्लोक 11.4.3

भूतैर् यदा पञ्चभिर् आत्मसृष्टैः पुरं विराजं विरचय्य तस्मिन् &अम्प्; स्वांशेन विष्टः पुरुषाभिधानम् अवाप नारायण आदिदेवः ॥ 3 ॥

श्लोक 11.4.4

यत्काय एष भुवनत्रयसन्निवेशो यस्येन्द्रियैस् तनुभृताम् उभयेन्द्रियाणि । ज्ञानं स्वतः श्वसनतो बलम् ओज ईहा सत्त्वादिभिः स्थितिलयोद्भव आदिकर्ता ॥ 4 ॥

श्लोक 11.4.5

आदाव् अभूच् छतधृती रजसास्य सर्गे विष्णुः स्थितौ क्रतुपतिर् द्विजधर्मसेतुः । रुद्रो ऽप्ययाय तमसा पुरुषः स आद्य इत्य् उद्भवस्थितिलयाः सततं प्रजासु ॥ 5 ॥

श्लोक 11.4.6

धर्मस्य दक्षदुहितर्य् अजनिष्ट मूर्त्यां नारायणो नर ऋषिप्रवरः प्रशान्तः । नैष्कर्म्यलक्षणम् उवाच चचार कर्म यो ऽद्यापि चास्त ऋषिवर्यनिषेविताङ्घ्रिः ॥ 6 ॥

श्लोक 11.4.7

इन्द्रो विशङ्क्य मम धाम जिघृक्षतीति कामं न्ययुङ्क्त सगणं स बदर्य्उपाख्यम् । गत्वाप्सरोगणवसन्तसुमन्दवातैः स्त्रीप्रेक्षणेषुभिर् अविध्यद् अतन्महिज्ञः ॥ 7 ॥

श्लोक 11.4.8

विज्ञाय शक्रकृतम् अक्रमम् आदिदेवः प्राह प्रहस्य गतविस्मय एजमानान् । मा भैर् विभो मदन मारुत देववध्वो गृह्णीत नो बलिम् अशून्यम् इमं कुरुध्वम् ॥ 8 ॥

श्लोक 11.4.9

इत्थं ब्रुवत्य् अभयदे नरदेव देवाः सव्रीडनम्रशिरसः सघृणं तम् ऊचुः । नैतद् विभो त्वयि परे ऽविकृते विचित्रं स्वारामधीरनिकरानतपादपद्मे ॥ 9 ॥

श्लोक 11.4.10

त्वां सेवतां सुरकृता बहवो ऽन्तरायाः स्वौको विलङ्घ्य परमं व्रजतां पदं ते । नान्यस्य बर्हिषि बलीन् ददतः स्वभागान् धत्ते पदं त्वम् अविता यदि विघ्नमूर्ध्नि ॥ 10 ॥

श्लोक 11.4.11

क्षुत्तृट्त्रिकालगुणमारुतजैह्वशैष्णान् अस्मान् अपारजलधीन् अतितीर्य केचित् । क्रोधस्य यान्ति विफलस्य वशं पदे गोर् मज्जन्ति दुश्चरतपश् च वृथोत्सृजन्ति ॥ 11 ॥

श्लोक 11.4.12

इति प्रगृणतां तेषां स्त्रियो ऽत्य्अद्भुतदर्शनाः । दर्शयाम् आस शुश्रूषां स्व्अर्चिताः कुर्वतीर् विभुः ॥ 12 ॥

श्लोक 11.4.13

ते देवानुचरा दृष्ट्वा स्त्रियः श्रीर् इव रूपिणीः । गन्धेन मुमुहुस् तासां रूपौदार्यहतश्रियः ॥ 13 ॥

श्लोक 11.4.14

तान् आह देवदेवेशः प्रणतान् प्रहसन्न् इव । आसाम् एकतमां वृङ्ध्वं सवर्णां स्वर्गभूषणाम् ॥ 14 ॥

श्लोक 11.4.15

ॐ इत्य् आदेशम् आदाय नत्वा तं सुरवन्दिनः । उर्वशीम् अप्सरःश्रेष्ठां पुरस्कृत्य दिवं ययुः ॥ 15 ॥

श्लोक 11.4.16

इन्द्रायानम्य सदसि शृण्वतां त्रिदिवौकसाम् । ऊचुर् नारायणबलं शक्रस् तत्रास विस्मितः ॥ 16 ॥

श्लोक 11.4.17

हंसस्वरूप्य् अवदद् अच्युत आत्मयोगं दत्तः कुमार ऋषभो भगवान् पिता नः &अम्प्; विष्णुः शिवाय जगतां कलयावतिर्णस् तेनाहृता मधुभिदा श्रुतयो हयास्ये ॥ 17 ॥

श्लोक 11.4.18

गुप्तो ऽप्यये मनुर् इलौषधयश् च मात्स्ये क्रौडे हतो दितिज उद्धरताम्भसः क्ष्माम् । कौर्मे धृतो ऽद्रिर् अमृतोन्मथने स्वपृष्ठे ग्राहात् प्रपन्नम् इभराजम् अमुञ्चद् आर्तम् ॥ 18 ॥

श्लोक 11.4.19

संस्तुन्वतो निपतितान् श्रमणान् ऋषींश् च शक्रं च वृत्रवधतस् तमसि प्रविष्टम् । देवस्त्रियो ऽसुरगृहे पिहिता अनाथा जघ्ने ऽसुरेन्द्रम् अभयाय सतां नृसिंहे ॥ 19 ॥

श्लोक 11.4.20

देवासुरे युधि च दैत्यपतीन् सुरार्थे हत्वान्तरेषु भुवनान्य् अदधात् कलाभिः । भूत्वाथ वामन इमाम् अहरद् बलेः क्ष्मां याच्ञाच्छलेन समदाद् अदितेः सुतेभ्यः ॥ 20 ॥

श्लोक 11.4.21

निःक्षत्रियाम् अकृत गां च त्रिःसप्तकृत्वो रामस् तु हैहयकुलाप्ययभार्गवाग्निः । सो ऽब्धिं बबन्ध दशवक्त्रम् अहन् सलङ्कं सीतापतिर् जयति लोकमलघ्नकीऋतिः ॥ 21 ॥

श्लोक 11.4.22

भूमेर् भरावतरणाय यदुष्व् अजन्मा जातः करिष्यति सुरैर् अपि दुष्कराणि । वादैर् विमोहयति यज्ञकृतो ऽतद्अर्हान् शूद्रान् कलौ क्षितिभुजो न्यहनिष्यद् अन्ते ॥ 22 ॥

श्लोक 11.4.23

एवंविधानि जन्मानि कर्माणि च जगत्पतेः । भूरीणि भूरियशसो वर्णितानि महाभुज ॥ 23 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ