श्रीमद्भागवत एकादश स्कन्ध अध्याय 5
श्रीमद्भागवत एकादश स्कन्ध अध्याय 5 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 11.5.1
भगवन्तं हरिं प्रायो न भजन्त्य् आत्मवित्तमाः । तेषाम् अशान्तकामानां क निष्ठाविजितात्मनाम् ॥ 1 ॥
श्लोक 11.5.2
मुखबाहूरुपादेभ्यः पुरुषस्याश्रमैः सह । चत्वारो जज्ञिरे वर्णा गुणैर् विप्रादयः पृथक् ॥ 2 ॥
श्लोक 11.5.3
य एषां पुरुषं साक्षाद् आत्मप्रभवम् ईश्वरम् । न भजन्त्य् अवजानन्ति स्थानाद् भ्रष्टाः पतन्त्य् अधः ॥ 3 ॥
श्लोक 11.5.4
दूरे हरिकथाः केचिद् दूरे चाच्युतकीर्तनाः । स्त्रियः शूद्रादयश् चैव ते ऽनुकम्प्या भवादृशाम् ॥ 4 ॥
श्लोक 11.5.5
विप्रो राजन्यवैश्यौ वा हरेः प्राप्ताः पदान्तिकम् । श्रौतेन जन्मनाथापि मुह्यन्त्य् आम्नायवादिनः ॥ 5 ॥
श्लोक 11.5.6
कर्मण्य् अकोविदाः स्तब्धा मूर्खाः पण्डितमानिनः । वदन्ति चाटुकान् मूढा यया माध्व्या गिरोत्सुकाः ॥ 6 ॥
श्लोक 11.5.7
रजसा घोरसङ्कल्पाः कामुका अहिमन्यवः । दाम्भिका मानिनः पापा विहसन्त्य् अच्युतप्रियान् ॥ 7 ॥
श्लोक 11.5.8
वदन्ति ते ऽन्योन्यम् उपासितस्त्रियो गृहेषु मैथुन्यपरेषु चाशिषः । यजन्त्य् असृष्टान्नविधानदक्षिणं वृत्त्यै परं घ्नन्ति पशून् अतद्विदः ॥ 8 ॥
श्लोक 11.5.9
श्रिया विभूत्याभिजनेन विद्यया त्यागेन रूपेण बलेन कर्मणा । जातस्मयेनान्धधियः सहेश्वरान् सतो ऽवमन्यन्ति हरिप्रियान् खलाः ॥ 9 ॥
श्लोक 11.5.10
सर्वेषु शश्वत् तनुभृत्स्व् अवस्थितं यथा खम् आत्मानम् अभीष्टम् ईश्वरम् &अम्प्; वेदोपगीतं च न शृण्वते ऽबुधा मनोरथानां प्रवदन्ति वार्तया ॥ 10 ॥
श्लोक 11.5.11
लोके व्यवायामिषमद्यसेवा नित्या हि जन्तोर् न हि तत्र चोदना । व्यवस्थितिस् तेषु विवाहयज्ञ सुराग्रहैर् आसु निवृत्तिर् इष्टा ॥ 11 ॥
श्लोक 11.5.12
धनं च धर्मैकफलं यतो वै ज्ञानं सविज्ञानम् अनुप्रशान्ति &अम्प्; गृहेषु युञ्जन्ति कलेवरस्य मृत्युं न पश्यन्ति दुरन्तवीर्यम् ॥ 12 ॥
श्लोक 11.5.13
यद् घ्राणभक्षो विहितः सुरायास् तथा पशोर् आलभनं न हिंसा । एवं व्यवायः प्रजया न रत्या इमं विशुद्धं न विदुः स्वधर्मम् ॥ 13 ॥
श्लोक 11.5.14
ये त्व् अनेवंविदो ऽसन्तः स्तब्धाः सद्अभिमानिनः । पशून् द्रुह्यन्ति विश्रब्धाः प्रेत्य खादन्ति ते च तान् ॥ 14 ॥
श्लोक 11.5.15
द्विषन्तः परकायेषु स्वात्मानं हरिम् ईश्वरम् । मृतके सानुबन्धे ऽस्मिन् बद्धस्नेहाः पतन्त्य् अधः ॥ 15 ॥
श्लोक 11.5.16
ये कैवल्यम् असम्प्राप्ता ये चातीताश् च मूढताम् । त्रैवर्गिका ह्य् अक्षणिका आत्मानं घातयन्ति ते ॥ 16 ॥
श्लोक 11.5.17
एत आत्महनो ऽशान्ता अज्ञाने ज्ञानमानिनः । सीदन्त्य् अकृतकृत्या वै कालध्वस्तमनोरथाः ॥ 17 ॥
श्लोक 11.5.18
हित्वात्ममायारचिता गृहापत्यसुहृत्स्त्रियः । तमो विशन्त्य् अनिच्छन्तो वासुदेवपराङ्मुखाः ॥ 18 ॥
श्लोक 11.5.19
कस्मिन् काले स भगवान् किं वर्णः कीदृशो नृभिः । नाम्ना वा केन विधिना पूज्यते तद् इहोच्यताम् ॥ 19 ॥
श्लोक 11.5.20
कृतं त्रेता द्वापरं च कलिर् इत्य् एषु केशवः । नानावर्णाभिधाकारो नानैव विधिनेज्यते ॥ 20 ॥
श्लोक 11.5.21
कृते शुक्लश् चतुर्बाहुर् जटिलो वल्कलाम्बरः । कृष्णाजिनोपवीताक्षान् बिभ्रद् दण्डकमण्डलू ॥ 21 ॥
श्लोक 11.5.22
मनुष्यास् तु तदा शान्ता निर्वैराः सुहृदः समाः । यजन्ति तपसा देवं शमेन च दमेन च ॥ 22 ॥
श्लोक 11.5.23
हंसः सुपर्णो वैकुण्ठो धर्मो योगेश्वरो ऽमलः । ईश्वरः पुरुषो ऽव्यक्तः परमात्मेति गीयते ॥ 23 ॥
श्लोक 11.5.24
त्रेतायां रक्तवर्णो ऽसौ चतुर्बाहुस् त्रिमेखलः । हिरण्यकेशस् त्रय्य्आत्मा स्रुक्स्रुवाद्य्उपलक्षणः ॥ 24 ॥
श्लोक 11.5.25
तं तदा मनुजा देवं सर्वदेवमयं हरिम् । यजन्ति विद्यया त्रय्या धर्मिष्ठा ब्रह्मवादिनः ॥ 25 ॥
श्लोक 11.5.26
विष्णुर् यज्ञः पृश्निगर्भः सर्वदेव उरुक्रमः । वृषाकपिर् जयन्तश् च उरुगाय इतीर्यते ॥ 26 ॥
श्लोक 11.5.27
द्वापरे भगवाञ् श्यामः पीतवासा निजायुधः । श्रीवत्सादिभिर् अङ्कैश् च लक्षणैर् उपलक्षितः ॥ 27 ॥
श्लोक 11.5.28
तं तदा पुरुषं मर्त्या महाराजोपलक्षणम् । यजन्ति वेदतन्त्राभ्यां परं जिज्ञासवो नृप ॥ 28 ॥
श्लोक 11.5.29
नमस् ते वासुदेवाय नमः सङ्कर्षणाय च । प्रद्युम्नायानिरुद्धाय तुभ्यं भगवते नमः ॥ 29 ॥
श्लोक 11.5.30
नारायणाय ऋषये पुरुषाय महात्मने । विश्वेश्वराय विश्वाय सर्वभूतात्मने नमः ॥ 30 ॥
श्लोक 11.5.31
इति द्वापर उर्व्ईश स्तुवन्ति जगद्ईश्वरम् । नानातन्त्रविधानेन कलाव् अपि तथा शृणु ॥ 31 ॥
श्लोक 11.5.32
कृष्णवर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्रपार्षदम् । यज्ञैः सङ्कीर्तनप्रायैर् यजन्ति हि सुमेधसः ॥ 32 ॥
श्लोक 11.5.33
ध्येयं सदा परिभवघ्नम् अभीष्टदोहं तीर्थास्पदं शिवविरिञ्चिनुतं शरण्यम् &अम्प्; भृत्यार्तिहं प्रणतपाल भवाब्धिपोतं वन्दे महापुरुष ते चरणारविन्दम् ॥ 33 ॥
श्लोक 11.5.34
त्यक्त्वा सुदुस्त्यजसुरेप्सितराज्यलक्ष्मीं धर्मिष्ठ आर्यवचसा यद् अगाद् अरण्यम् । मायामृगं दयितयेप्सितम् अन्वधावद् वन्दे महापुरुष ते चरणारविन्दम् ॥ 34 ॥
श्लोक 11.5.35
एवं युगानुरूपाभ्यां भगवान् युगवर्तिभिः । मनुजैर् इज्यते राजन् श्रेयसाम् ईश्वरो हरिः ॥ 35 ॥
श्लोक 11.5.36
कलिं सभाजयन्त्य् आर्या गुण ज्ञाः सारभागिनः । यत्र सङ्कीर्तनेनैव सर्वस्वार्थो ऽभिलभ्यते ॥ 36 ॥
श्लोक 11.5.37
न ह्य् अतः परमो लाभो देहिनां भ्राम्यताम् इह । यतो विन्देत परमां शान्तिं नश्यति संसृतिः ॥ 37 ॥
श्लोक 11.5.38
कृतादिषु प्रजा राजन् कलाव् इच्छन्ति सम्भवम् । कलौ खलु भविष्यन्ति नारायणपरायणाः ॥ 38 ॥
श्लोक 11.5.39
क्वचित् क्वचिन् महाराज द्रविडेषु च भूरिशः । ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी ॥ 39 ॥
श्लोक 11.5.40
कावेरी च महापुण्या प्रतीची च महानदी । ये पिबन्ति जलं तासां मनुजा मनुजेश्वर । प्रायो भक्ता भगवति वासुदेवे ऽमलाशयाः ॥ 40 ॥
श्लोक 11.5.41
देवर्षिभूताप्तनृणां पितॄणां न किङ्करो नायम् ऋणी च राजन् । सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिहृत्य कर्तम् ॥ 41 ॥
श्लोक 11.5.42
स्वपादमूलम् भजतः प्रियस्य त्यक्तान्यभावस्य हरिः परेशः । विकर्म यच् चोत्पतितं कथञ्चिद् धुनोति सर्वं हृदि सन्निविष्टः ॥ 42 ॥
श्लोक 11.5.43
धर्मान् भागवतान् इत्थं श्रुत्वाथ मिथिलेश्वरः । जायन्तेयान् मुनीन् प्रीतः सोपाध्यायो ह्य् अपूजयत् ॥ 43 ॥
श्लोक 11.5.44
ततो ऽन्तर्दधिरे सिद्धाः सर्वलोकस्य पश्यतः । राजा धर्मान् उपातिष्ठन्न् अवाप परमां गतिम् ॥ 44 ॥
श्लोक 11.5.45
त्वम् अप्य् एतान् महाभाग धर्मान् भागवतान् श्रुतान् । आस्थितः श्रद्धया युक्तो निःसङ्गो यास्यसे परम् ॥ 45 ॥
श्लोक 11.5.46
युवयोः खलु दम्पत्योर् यशसा पूरितं जगत् । पुत्रताम् अगमद् यद् वां भगवान् ईश्वरो हरिः ॥ 46 ॥
श्लोक 11.5.47
दर्शनालिङ्गनालापैः शयनासनभोजनैः । आत्मा वां पावितः कृष्णे पुत्रस्नेहं प्रकुर्वतोः ॥ 47 ॥
श्लोक 11.5.48
वैरेण यं नृपतयः शिशुपालपौण्ड्रशाल्वादयो गतिविलासविलोकनाद्यैः &अम्प्; ध्यायन्त आकृतधियः शयनासनादौ तत्साम्यम् आपुर् अनुरक्तधियां पुनः किम् ॥ 48 ॥
श्लोक 11.5.49
मापत्यबुद्धिम् अकृथाः कृष्णे सर्वात्मनीश्वरे । मायामनुष्यभावेन गूढैश्वर्ये परे ऽव्यये ॥ 49 ॥
श्लोक 11.5.50
भूभारासुरराजन्यहन्तवे गुप्तये सताम् । अवतीर्णस्य निर्वृत्यै यशो लोके वितन्यते ॥ 50 ॥
श्लोक 11.5.51
एतच् छ्रुत्वा महाभागो वसुदेवो ऽतिविस्मितः । देवकी च महाभागा जहतुर् मोहम् आत्मनः ॥ 51 ॥
श्लोक 11.5.52
इतिहासम् इमं पुण्यं धारयेद् यः समाहितः । स विधूयेह शमलं ब्रह्मभूयाय कल्पते ॥ 52 ॥