मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत एकादश स्कन्ध अध्याय 6

श्रीमद्भागवत एकादश स्कन्ध अध्याय 6 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 11.6.1

अथ ब्रह्मात्मजैः देवैः प्रजेशैर् आवृतो ऽभ्यगात् । भवश् च भूतभव्येशो ययौ भूतगणैर् वृतः ॥ 1 ॥

श्लोक 11.6.2

इन्द्रो मरुद्भिर् भगवान् आदित्या वसवो ऽश्विनौ । ऋभवो ऽङ्गिरसो रुद्रा विश्वे साध्याश् च देवताः ॥ 2 ॥

श्लोक 11.6.3

गन्धर्वाप्सरसो नागाः सिद्धचारणगुह्यकाः । ऋषयः पितरश् चैव सविद्याधरकिन्नराः ॥ 3 ॥

श्लोक 11.6.4

द्वारकाम् उपसञ्जग्मुः सर्वे कृष्णदिदृक्षवः । वपुषा येन भगवान् नरलोकमनोरमः । यशो वितेने लोकेषु सर्वलोकमलापहम् ॥ 4 ॥

श्लोक 11.6.5

तस्यां विभ्राजमानायां समृद्धायां महर्द्धिभिः । व्यचक्षतावितृप्ताक्षाः कृष्णम् अद्भुतदर्शनम् ॥ 5 ॥

श्लोक 11.6.6

स्वर्गोद्यानोपगैर् माल्यैश् छादयन्तो युदूत्तमम् । गीर्भिश् चित्रपदार्थाभिस् तुष्टुवुर् जगद्ईश्वरम् ॥ 6 ॥

श्लोक 11.6.7

नताः स्म ते नाथ पदारविन्दं बुद्धीन्द्रियप्राणमनोवचोभिः । यच् चिन्त्यते ऽन्तर् हृदि भावयुक्तैर् मुमुक्षुभिः कर्ममयोरुपाशात् ॥ 7 ॥

श्लोक 11.6.8

त्वं मायया त्रिगुणयात्मनि दुर्विभाव्यं व्यक्तं सृजस्य् अवसि लुम्पसि तद्गुणस्थः &अम्प्; नैतैर् भवान् अजित कर्मभिर् अज्यते वै यत् स्वे सुखे ऽव्यवहिते ऽभिरतो ऽनवद्यः ॥ 8 ॥

श्लोक 11.6.9

शुद्धिर् नृणां न तु तथेड्य दुराशयानां विद्याश्रुताध्ययनदानतपःक्रियाभिः । सत्त्वात्मनाम् ऋषभ ते यशसि प्रवृद्धसच्छ्रद्धया श्रवणसम्भृतया यथा स्यात् ॥ 9 ॥

श्लोक 11.6.10

स्यान् नस् तवाङ्घ्रिर् अशुभाशयधूमकेतुः क्षेमाय यो मुनिभिर् आर्द्रहृदोह्यमानः । यः सात्वतैः समविभूतय आत्मवद्भिर् व्यूहे ऽर्चितः सवनशः स्वर्अतिक्रमाय ॥ 10 ॥

श्लोक 11.6.11

यस् चिन्त्यते प्रयतपाणिभिर् अध्वराग्नौ त्रय्या निरुक्तविधिनेश हविर् गृहीत्वा । अध्यात्मयोग उत योगिभिर् आत्ममायां जिज्ञासुभिः परमभागवतैः परीष्टः ॥ 11 ॥

श्लोक 11.6.12

पर्युष्टया तव विभो वनमालयेयं संस्पार्धिनी भगवती प्रतिपत्नीवच् छ्रीः । यः सुप्रणीतम् अमुयार्हणम् आददन् नो भूयात् सदाङ्घ्रिर् अशुभाशयधूमकेतुः ॥ 12 ॥

श्लोक 11.6.13

केतुस् त्रिविक्रमयुतस् त्रिपतत्पताको यस् ते भयाभयकरो ऽसुरदेवचम्वोः । स्वर्गाय साधुषु खलेष्व् इतराय भूमन् पदः पुनातु भगवन् भजताम् अघं नः ॥ 13 ॥

श्लोक 11.6.14

नस्य् ओतगाव इव यस्य वशे भवन्ति ब्रह्मादयस् तनुभृतो मिथुर् अर्द्यमानाः । कालस्य ते प्रकृतिपूरुषयोः परस्य शं नस् तनोतु चरणः पुरुषोत्तमस्य ॥ 14 ॥

श्लोक 11.6.15

अस्यासि हेतुर् उदयस्थितिसंयमानाम् अव्यक्तजीवमहताम् अपि कालम् आहुः । सो ऽयं त्रिणाभिर् अखिलापचये प्रवृत्तः कालो गभीररय उत्तमपूरुषस् त्वम् ॥ 15 ॥

श्लोक 11.6.16

त्वत्तः पुमान् समधिगम्य ययास्य वीर्यं धत्ते महान्तम् इव गर्भम् अमोघवीर्यः । सो ऽयं तयानुगत आत्मन आण्डकोशं हैमं ससर्ज बहिर् आवरणैर् उपेतम् ॥ 16 ॥

श्लोक 11.6.17

तत् तस्थूषश् च जगतश् च भवान् अधीशो यन् माययोत्थगुणविक्रिययोपनीतान् । अर्थाञ् जुषन्न् अपि हृषीकपते न लिप्तो ये ऽन्ये स्वतः परिहृताद् अपि बिभ्यति स्म ॥ 17 ॥

श्लोक 11.6.18

स्मायावलोकलवदर्शितभावहारिभ्रूमण्डलप्रहितसौरतमन्त्रशौण्डैः । पत्न्यस् तु षोडशसहस्रम् अनङ्गबाणैर् यस्येन्द्रियं विमथितुं करणैर् न विभ्व्यः ॥ 18 ॥

श्लोक 11.6.19

विभ्व्यस् तवामृतकथोदवहास् त्रिलोक्याः पादावनेजसरितः शमलानि हन्तुम् । आनुश्रवं श्रुतिभिर् अङ्घ्रिजम् अङ्गसङ्गैस् तीर्थद्वयं शुचिषदस् त उपस्पृशन्ति ॥ 19 ॥

श्लोक 11.6.20

इत्य् अभिष्टूय विबुधैः सेशः शतधृतिर् हरिम् । अभ्यभाषत गोविन्दं प्रणम्याम्बरम् आश्रितः ॥ 20 ॥

श्लोक 11.6.21

भूमेर् भारावताराय पुरा विज्ञापितः प्रभो । त्वम् अस्माभिर् अशेषात्मन् तत् तथैवोपपादितम् ॥ 21 ॥

श्लोक 11.6.22

धर्मश् च स्थापितः सत्सु सत्यसन्धेषु वै त्वया । कीर्तिश् च दिक्षु विक्षिप्ता सर्वलोकमलापहा ॥ 22 ॥

श्लोक 11.6.23

अवतीर्य यदोर् वंशे बिभ्रद् रूपम् अनुत्तमम् । कर्माण्य् उद्दामवृत्तानि हिताय जगतो ऽकृथाः ॥ 23 ॥

श्लोक 11.6.24

यानि ते चरितानीश मनुष्याः साधवः कलौ । शृण्वन्तः कीर्तयन्तश् च तरिष्यन्त्य् अञ्जसा तमः ॥ 24 ॥

श्लोक 11.6.25

यदुवंशे ऽवतीर्णस्य भवतः पुरुषोत्तम । शरच्छतं व्यतीयाय पञ्चविंशाधिकं प्रभो ॥ 25 ॥

श्लोक 11.6.26

नाधुना ते ऽखिलाधार देवकार्यावशेषितम् । कुलं च विप्रशापेन नष्टप्रायम् अभूद् इदम् ॥ 26 ॥

श्लोक 11.6.27

ततः स्वधाम परमं विशस्व यदि मन्यसे । सलोकाल् लोकपालान् नः पाहि वैकुण्ठकिङ्करान् ॥ 27 ॥

श्लोक 11.6.28

अवधारितम् एतन् मे यद् आत्थ विबुधेश्वर । कृतं वः कार्यम् अखिलं भूमेर् भारो ऽवतारितः ॥ 28 ॥

श्लोक 11.6.29

तद् इदं यादवकुलं वीर्यशौर्यश्रियोद्धतम् । लोकं जिघृक्षद् रुद्धं मे वेलयेव महार्णवः ॥ 29 ॥

श्लोक 11.6.30

यद्य् असंहृत्य दृप्तानां यदूनां विपुलं कुलम् । गन्तास्म्य् अनेन लोको ऽयम् उद्वेलेन विनङ्क्ष्यति ॥ 30 ॥

श्लोक 11.6.31

इदानीं नाश आरब्धः कुलस्य द्विजशापजः । यास्यामि भवनं ब्रह्मन्न् एतद्अन्ते तवानघ ॥ 31 ॥

श्लोक 11.6.32

इत्य् उक्तो लोकनाथेन स्वयम्भूः प्रणिपत्य तम् । सह देवगणैर् देवः स्वधाम समपद्यत ॥ 32 ॥

श्लोक 11.6.33

अथ तस्यां महोत्पातान् द्वारवत्यां समुत्थितान् । विलोक्य भगवान् आह यदुवृद्धान् समागतान् ॥ 33 ॥

श्लोक 11.6.34

एते वै सुमहोत्पाता व्युत्तिष्ठन्तीह सर्वतः । शापश् च नः कुलस्यासीद् ब्राह्मणेभ्यो दुरत्ययः ॥ 34 ॥

श्लोक 11.6.35

न वस्तव्यम् इहास्माभिर् जिजीविषुभिर् आर्यकाः । प्रभासं सुमहत्पुण्यं यास्यामो ऽद्यैव मा चिरम् ॥ 35 ॥

श्लोक 11.6.36

यत्र स्नात्वा दक्षशापाद् गृहीतो यक्ष्मणोदुराट् । विमुक्तः किल्बिषात् सद्यो भेजे भूयः कलोदयम् ॥ 36 ॥

श्लोक 11.6.37

वयं च तस्मिन्न् आप्लुत्य तर्पयित्वा पितॄन् सुरान् । भोजयित्वोषिजो विप्रान् नानागुणवतान्धसा ॥ 37 ॥

श्लोक 11.6.38

तेषु दानानि पात्रेषु श्रद्धयोप्त्वा महान्ति वै । वृजिनानि तरिष्यामो दानैर् नौभिर् इवार्णवम् ॥ 38 ॥

श्लोक 11.6.39

एवं भगवतादिष्टा यादवाः कुरुनन्दन । गन्तुं कृतधियस् तीर्थं स्यन्दनान् समयूयुजन् ॥ 39 ॥

श्लोक 11.6.40

तन् निरीक्ष्योद्धवो राजन् श्रुत्वा भगवतोदितम् । दृष्ट्वारिष्टानि घोराणि नित्यं कृष्णम् अनुव्रतः ॥ 40 ॥

श्लोक 11.6.41

विविक्त उपसङ्गम्य जगताम् ईश्वरेश्वरम् । प्रणम्य शिरिसा पादौ प्राञ्जलिस् तम् अभाषत ॥ 41 ॥

श्लोक 11.6.42

देवदेवेश योगेश पुण्यश्रवणकीर्तन । संहृत्यैतत् कुलं नूनं लोकं सन्त्यक्ष्यते भवान् । विप्रशापं समर्थो ऽपि प्रत्यहन् न यद् ईश्वरः ॥ 42 ॥

श्लोक 11.6.43

नाहं तवाङ्घ्रिकमलं क्षणार्धम् अपि केशव । त्यक्तुं समुत्सहे नाथ स्वधाम नय माम् अपि ॥ 43 ॥

श्लोक 11.6.44

तव विक्रीडितं कृष्ण नृनां परममङ्गलम् । कर्णपीयूषम् आसाद्य त्यजन्त्य् अन्यस्पृहां जनाः ॥ 44 ॥

श्लोक 11.6.45

शय्यासनाटनस्थानस्नानक्रीडाशनादिषु । कथं त्वां प्रियम् आत्मानं वयं भक्तास् त्यजेम हि ॥ 45 ॥

श्लोक 11.6.46

त्वयोपभुक्तस्रग्गन्धवासोऽलङ्कारचर्चिताः । उच्छिष्टभोजिनो दासास् तव मायां जयेम हि ॥ 46 ॥

श्लोक 11.6.47

वातवसना य ऋषयः श्रमणा ऊर्ध्रमन्थिनः । ब्रह्माख्यं धाम ते यान्ति शान्ताः सन्न्यासीनो ऽमलाः ॥ 47 ॥

श्लोक 11.6.48

वयं त्व् इह महायोगिन् भ्रमन्तः कर्मवर्त्मसु । त्वद्वार्तया तरिष्यामस् तावकैर् दुस्तरं तमः ॥ 48 ॥

श्लोक 11.6.49

स्मरन्तः कीर्तयन्तस् ते कृतानि गदितानि च । गत्य्उत्स्मितेक्षणक्ष्वेलि यन् नृलोकविडम्बनम् ॥ 49 ॥

श्लोक 11.6.50

एवं विज्ञापितो राजन् भगवान् देवकीसुतः । एकान्तिनं प्रियं भृत्यम् उद्धवं समभाषत ॥ 50 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ