श्रीमद्भागवत एकादश स्कन्ध अध्याय 7
श्रीमद्भागवत एकादश स्कन्ध अध्याय 7 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 11.7.1
यद् आत्थ मां महाभाग तच्चिकीर्षितम् एव मे । ब्रह्मा भवो लोकपालाः स्वर्वासं मे ऽभिकाङ्क्षिणः ॥ 1 ॥
श्लोक 11.7.2
मया निष्पादितं ह्य् अत्र देवकार्यम् अशेषतः । यद्अर्थम् अवतीर्णो ऽहम् अंशेन ब्रह्मणार्थितः ॥ 2 ॥
श्लोक 11.7.3
कुलं वै शापनिर्दग्धं नङ्क्ष्यत्य् अन्योन्यविग्रहात् । समुद्रः सप्तमे ह्य् एनां पुरीं च प्लावयिष्यति ॥ 3 ॥
श्लोक 11.7.4
यर्ह्य् एवायं मया त्यक्तो लोको ऽयं नष्टमङ्गलः । भविष्यत्य् अचिरात् साधो कलिनापि निराकृतः ॥ 4 ॥
श्लोक 11.7.5
न वस्तव्यं त्वयैवेह मया त्यक्ते महीतले । जनो ऽभद्ररुचिर् भद्र भविष्यति कलौ युगे ॥ 5 ॥
श्लोक 11.7.6
त्वं तु सर्वं परित्यज्य स्नेहं स्वजनबन्धुषु । मय्य् आवेश्य मनः संयक् समदृग् विचरस्व गाम् ॥ 6 ॥
श्लोक 11.7.7
यद् इदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः । नश्वरं गृह्यमाणं च विद्धि मायामनोमयम् ॥ 7 ॥
श्लोक 11.7.8
पुंसो ऽयुक्तस्य नानार्थो भ्रमः स गुणदोषभाक् । कर्माकर्मविकर्मेति गुणदोषधियो भिदा ॥ 8 ॥
श्लोक 11.7.9
तस्माद् युक्तेन्द्रियग्रामो युक्तचित्त इदम् जगत् । आत्मनीक्षस्व विततम् आत्मानं मय्य् अधीश्वरे ॥ 9 ॥
श्लोक 11.7.10
ज्ञानविज्ञानसंयुक्त आत्मभूतः शरीरिणाम् । अत्मानुभवतुष्टात्मा नान्तरायैर् विहन्यसे ॥ 10 ॥
श्लोक 11.7.11
दोषबुद्ध्योभयातीतो निषेधान् न निवर्तते । गुणबुद्ध्या च विहितं न करोति यथार्भकः ॥ 11 ॥
श्लोक 11.7.12
सर्वभूतसुहृच् छान्तो ज्ञानविज्ञाननिश्चयः । पश्यन् मद्आत्मकं विश्वं न विपद्येत वै पुनः ॥ 12 ॥
श्लोक 11.7.13
इत्य् आदिष्टो भगवता महाभागवतो नृप । उद्धवः प्रणिपत्याह तत्त्वं जिज्ञासुर् अच्युतम् ॥ 13 ॥
श्लोक 11.7.14
योगेश योगविन्यास योगात्मन् योगसम्भव । निःश्रेयसाय मे प्रोक्तस् त्यागः सन्न्यासलक्षणः ॥ 14 ॥
श्लोक 11.7.15
त्यागो ऽयं दुष्करो भूमन् कामानां विषयात्मभिः । सुतरां त्वयि सर्वात्मन्न् अभक्तैर् इति मे मतिः ॥ 15 ॥
श्लोक 11.7.16
सो ऽहं ममाहम् इति मूढमतिर् विगाढस् त्वन्मायया विरचितात्मनि सानुबन्धे &अम्प्; तत् त्व् अञ्जसा निगदितं भवता यथाहं संसाधयामि भगवन्न् अनुशाधि भृत्यम् ॥ 16 ॥
श्लोक 11.7.17
सत्यस्य ते स्वदृश आत्मन आत्मनो ऽन्यं वक्तारम् ईश विबुधेष्व् अपि नानुचक्षे । सर्वे विमोहितधियस् तव माययेमे ब्रह्मादयस् तनुभृतो बहिर्अर्थभावाः ॥ 17 ॥
श्लोक 11.7.18
तस्माद् भवन्तम् अनवद्यम् अनन्तपारं सर्वज्ञम् ईश्वरम् अकुण्ठविकुण्ठधिष्ण्यम् । निर्विण्णधीर् अहम् उ हे वृजिनाभितप्तो नारायणं नरसखं शरणं प्रपद्ये ॥ 18 ॥
श्लोक 11.7.19
प्रायेण मनुजा लोके लोकतत्त्वविचक्षणाः । समुद्धरन्ति ह्य् आत्मानम् आत्मनैवाशुभाशयात् ॥ 19 ॥
श्लोक 11.7.20
आत्मनो गुरुर् आत्मैव पुरुषस्य विशेषतः । यत् प्रत्यक्षानुमानाभ्यां श्रेयो ऽसाव् अनुविन्दते ॥ 20 ॥
श्लोक 11.7.21
पुरुषत्वे च मां धीराः साङ्ख्ययोगविशारदाः । आविस्तरां प्रपश्यन्ति सर्वशक्त्य्उपबृंहितम् ॥ 21 ॥
श्लोक 11.7.22
एकद्वित्रिचतुस्पादो बहुपादस् तथापदः । बह्व्यः सन्ति पुरः सृष्टास् तासां मे पौरुषी प्रिया ॥ 22 ॥
श्लोक 11.7.23
अत्र मां मृगयन्त्य् अद्धा युक्ता हेतुभिर् ईश्वरम् । गृह्यमाणैर् गुणैर् लिङ्गैर् अग्राह्यम् अनुमानतः ॥ 23 ॥
श्लोक 11.7.24
अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् । अवधूतस्य संवादं यदोर् अमिततेजसः ॥ 24 ॥
श्लोक 11.7.25
अवधूतं द्वियं कञ्चिच् चरन्तम् अकुतोभयम् । कविं निरीक्ष्य तरुणं यदुः पप्रच्छ धर्मवित् ॥ 25 ॥
श्लोक 11.7.26
कुतो बुद्धिर् इयं ब्रह्मन्न् अकर्तुः सुविशारदा । याम् आसाद्य भवाल् लोकं विद्वांश् चरति बालवत् ॥ 26 ॥
श्लोक 11.7.27
प्रायो धर्मार्थकामेषु विवित्सायां च मानवाः । हेतुनैव समीहन्त आयुषो यशसः श्रियः ॥ 27 ॥
श्लोक 11.7.28
त्वं तु कल्पः कविर् दक्षः सुभगो ऽमृतभाषणः । न कर्ता नेहसे किञ्चिज् जडोन्मत्तपिशाचवत् ॥ 28 ॥
श्लोक 11.7.29
जनेषु दह्यमानेषु कामलोभदवाग्निना । न तप्यसे ऽग्निना मुक्तो गङ्गाम्भःस्थ इव द्विपः ॥ 29 ॥
श्लोक 11.7.30
त्वं हि नः पृच्छतां ब्रह्मन्न् आत्मन्य् आनन्दकारणम् । ब्रूहि स्पर्शविहीनस्य भवतः केवलात्मनः ॥ 30 ॥
श्लोक 11.7.31
यदुनैवं महाभागो ब्रह्मण्येन सुमेधसा । पृष्टः सभाजितः प्राह प्रश्रयावनतं द्विजः ॥ 31 ॥
श्लोक 11.7.32
सन्ति मे गुरवो राजन् बहवो बुद्ध्य्उपश्रिताः । यतो बुद्धिम् उपादाय मुक्तो ऽटामीह तान् शृणु ॥ 32 ॥
श्लोक 11.7.33
पृथिवी वायुर् आकाशम् आपो ऽग्निश् चन्द्रमा रविः । कपोतो ऽजगरः सिन्धुः पतङ्गो मधुकृद् गजः ॥ 33 ॥
श्लोक 11.7.34
मधुहा हरिणो मीनः पिङ्गला कुररो ऽर्भकः । कुमारी शरकृत् सर्प ऊर्णनाभिः सुपेशकृत् ॥ 34 ॥
श्लोक 11.7.35
एते मे गुरवो राजन् चतुर्विंशतिर् आश्रिताः । शिक्षा वृत्तिभिर् एतेषाम् अन्वशिक्षम् इहात्मनः ॥ 35 ॥
श्लोक 11.7.36
यतो यद् अनुशिक्षामि यथा वा नाहुषात्मज । तत् तथा पुरुषव्याघ्र निबोध कथयामि ते ॥ 36 ॥
श्लोक 11.7.37
भूतैर् आक्रम्यमाणो ऽपि धीरो दैववशानुगैः । तद् विद्वान् न चलेन् मार्गाद् अन्वशिक्षं क्षितेर् व्रतम् ॥ 37 ॥
श्लोक 11.7.38
शश्वत् परार्थसर्वेहः परार्थैकान्तसम्भवः । साधुः शिक्षेत भूभृत्तो नगशिष्यः परात्मताम् ॥ 38 ॥
श्लोक 11.7.39
प्राणवृत्त्यैव सन्तुष्येन् मुनिर् नैवेन्द्रियप्रियैः । ज्ञानं यथा न नश्येत नावकीर्येत वाङ्मनः ॥ 39 ॥
श्लोक 11.7.40
विषयेष्व् आविशन् योगी नानाधर्मेषु सर्वतः । गुणदोषव्यपेतात्मा न विषज्जेत वायुवत् ॥ 40 ॥
श्लोक 11.7.41
पार्थिवेष्व् इह देहेषु प्रविष्टस् तद्गुणाश्रयः । गुणैर् न युज्यते योगी गन्धैर् वायुर् इवात्मदृक् ॥ 41 ॥
श्लोक 11.7.42
अन्तर्हितश् च स्थिरजङ्गमेषु ब्रह्मात्मभावेन समन्वयेन । व्याप्त्याव्यवच्छेदम् असङ्गम् आत्मनो मुनिर् नभस्त्वं विततस्य भावयेत् ॥ 42 ॥
श्लोक 11.7.43
तेजोऽब्अन्नमयैर् भावैर् मेघाद्यैर् वायुनेरितैः । न स्पृश्यते नभस् तद्वत् कालसृष्टैर् गुणैः पुमान् ॥ 43 ॥
श्लोक 11.7.44
स्वच्छः प्रकृतितः स्निग्धो माधुर्यस् तीर्थभूर् नृणाम् । मुनिः पुनात्य् अपां मित्रम् ईक्षोपस्पर्शकीर्तनैः ॥ 44 ॥
श्लोक 11.7.45
तेजस्वी तपसा दीप्तो दुर्धर्षोदरभाजनः । सर्वभक्ष्यो ऽपि युक्तात्मा नादत्ते मलम् अग्निवत् ॥ 45 ॥
श्लोक 11.7.46
क्वचिच् छन्नः क्वचित् स्पष्ट उपास्यः श्रेय इच्छताम् । भुङ्क्ते सर्वत्र दातृणां दहन् प्राग्उत्तराशुभम् ॥ 46 ॥
श्लोक 11.7.47
स्वमायया सृष्टम् इदं सद्असल्लक्षणं विभुः । प्रविष्ट ईयते तत्तत्स्वरूपो ऽग्निर् इवैधसि ॥ 47 ॥
श्लोक 11.7.48
विसर्गाद्याः श्मशानान्ता भावा देहस्य नात्मनः । कलानाम् इव चन्द्रस्य कालेनाव्यक्तवर्त्मना ॥ 48 ॥
श्लोक 11.7.49
कालेन ह्य् ओघवेगेन भूतानां प्रभवाप्ययौ । नित्याव् अपि न दृश्येते आत्मनो ऽग्नेर् यथार्चिषाम् ॥ 49 ॥
श्लोक 11.7.50
गुणैर् गुणान् उपादत्ते यथाकालं विमुञ्चति । न तेषु युज्यते योगी गोभिर् गा इव गोपतिः ॥ 50 ॥
श्लोक 11.7.51
बुध्यते स्वे न भेदेन व्यक्तिस्थ इव तद्गतः । लक्ष्यते स्थूलमतिभिर् आत्मा चावस्थितो ऽर्कवत् ॥ 51 ॥
श्लोक 11.7.52
नातिस्नेहः प्रसङ्गो वा कर्तव्यः क्वापि केनचित् । कुर्वन् विन्देत सन्तापं कपोत इव दीनधीः ॥ 52 ॥
श्लोक 11.7.53
कपोतः कश्चनारण्ये कृतनीडो वनस्पतौ । कपोत्या भार्यया सार्धम् उवास कतिचित् समाः ॥ 53 ॥
श्लोक 11.7.54
कपोतौ स्नेहगुणितहृदयौ गृहधर्मिणौ । दृष्टिं दृष्ट्याङ्गम् अङ्गेन बुद्धिं बुद्ध्या बबन्धतुः ॥ 54 ॥
श्लोक 11.7.55
शय्यासनाटनस्थान वार्ताक्रीडाशनादिकम् । मिथुनीभूय विश्रब्धौ चेरतुर् वनराजिषु ॥ 55 ॥
श्लोक 11.7.56
यं यं वाञ्छति सा राजन् तर्पयन्त्य् अनुकम्पिता । तं तं समनयत् कामं कृच्छ्रेणाप्य् अजितेन्द्रियः ॥ 56 ॥
श्लोक 11.7.57
कपोती प्रथमं गर्भं गृह्णन्ती काल आगते । अण्डानि सुषुवे नीडे स्तपत्युः सन्निधौ सती ॥ 57 ॥
श्लोक 11.7.58
तेषु काले व्यजायन्त रचितावयवा हरेः । शक्तिभिर् दुर्विभाव्याभिः कोमलाङ्गतनूरुहाः ॥ 58 ॥
श्लोक 11.7.59
प्रजाः पुपुषतुः प्रीतौ दम्पती पुत्रवत्सलौ । शृण्वन्तौ कूजितं तासां निर्वृतौ कलभाषितैः ॥ 59 ॥
श्लोक 11.7.60
तासां पतत्रैः सुस्पर्शैः कूजितैर् मुग्धचेष्टितैः । प्रत्युद्गमैर् अदीनानां पितरौ मुदम् आपतुः ॥ 60 ॥
श्लोक 11.7.61
स्नेहानुबद्धहृदयाव् अन्योन्यं विष्णुमायया । विमोहितौ दीनधियौ शिशून् पुपुषतुः प्रजाः ॥ 61 ॥
श्लोक 11.7.62
एकदा जग्मतुस् तासाम् अन्नार्थं तौ कुटुम्बिनौ । परितः कानने तस्मिन्न् अर्थिनौ चेरतुश् चिरम् ॥ 62 ॥
श्लोक 11.7.63
दृष्ट्वा तान् लुब्धकः कश्चिद् यदृच्छातो वनेचरः । जगृहे जालम् आतत्य चरतः स्वालयान्तिके ॥ 63 ॥
श्लोक 11.7.64
कपोतश् च कपोती च प्रजापोषे सदोत्सुकौ । गतौ पोषणम् आदाय स्वनीडम् उपजग्मतुः ॥ 64 ॥
श्लोक 11.7.65
कपोती स्वात्मजान् वीक्ष्य बालकान् जालसम्वृतान् । तान् अभ्यधावत् क्रोशन्ती क्रोशतो भृशदुःखिता ॥ 65 ॥
श्लोक 11.7.66
सासकृत् स्नेहगुणिता दीनचित्ताजमायया । स्वयं चाबध्यत शिचा बद्धान् पश्यन्त्य् अपस्मृतिः ॥ 66 ॥
श्लोक 11.7.67
कपोतः स्वात्मजान् बद्धान् आत्मनो ऽप्य् अधिकान् प्रियान् । भार्यां चात्मसमां दीनो विललापातिदुःखितः ॥ 67 ॥
श्लोक 11.7.68
अहो मे पश्यतापायम् अल्पपुण्यस्य दुर्मतेः । अतृप्तस्याकृतार्थस्य गृहस् त्रैवर्गिको हतः ॥ 68 ॥
श्लोक 11.7.69
अनुरूपानुकूला च यस्य मे पतिदेवता । शून्ये गृहे मां सन्त्यज्य पुत्रैः स्वर् याति साधुभिः ॥ 69 ॥
श्लोक 11.7.70
सो ऽहं शून्ये गृहे दीनो मृतदारो मृतप्रजः । जिजीविषे किम् अर्थं वा विधुरो दुःखजीवितः ॥ 70 ॥
श्लोक 11.7.71
तांस् तथैवावृतान् शिग्भिर् मृत्युग्रस्तान् विचेष्टतः । स्वयं च कृपणः शिक्षु पश्यन्न् अप्य् अबुधो ऽपतत् ॥ 71 ॥
श्लोक 11.7.72
तं लब्ध्वा लुब्धकः क्रूरः कपोतं गृहमेधिनम् । कपोतकान् कपोतीं च सिद्धार्थः प्रययौ गृहम् ॥ 72 ॥
श्लोक 11.7.73
एवं कुटुम्ब्य् अशान्तात्मा द्वन्द्वारामः पतत्रिवत् । पुष्णन् कुटुम्बं कृपणः सानुबन्धो ऽवसीदति ॥ 73 ॥
श्लोक 11.7.74
यः प्राप्य मानुषं लोकं मुक्तिद्वारम् अपावृतम् । गृहेषु खगवत् सक्तस् तम् आरूढच्युतं विदुः ॥ 74 ॥