मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत एकादश स्कन्ध अध्याय 8

श्रीमद्भागवत एकादश स्कन्ध अध्याय 8 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 11.8.1

सुखम् ऐन्द्रियकं राजन् स्वर्गे नरक एव च । देहिनां यद् यथा दुःखं तस्मान् नेच्छेत तद्बुधः ॥ 1 ॥

श्लोक 11.8.2

ग्रासं सुमृष्टं विरसं महान्तं स्तोकम् एव वा । यदृच्छयैवापतितं ग्रसेद् आजगरो ऽक्रियः ॥ 2 ॥

श्लोक 11.8.3

शयीताहानि भूरीणि निराहारो ऽनुपक्रमः । यदि नोपनयेद् ग्रासो महाहिर् इव दिष्टभुक् ॥ 3 ॥

श्लोक 11.8.4

ओजःसहोबलयुतं बिभ्रद् देहम् अकर्मकम् । शयानो वीतनिद्रश् च नेहेतेन्द्रियवान् अपि ॥ 4 ॥

श्लोक 11.8.5

मुनिः प्रसन्नगम्भीरो दुर्विगाह्यो दुरत्ययः । अनन्तपारो ह्य् अक्षोभ्यः स्तिमितोद इवार्णवः ॥ 5 ॥

श्लोक 11.8.6

समृद्धकामो हीनो वा नारायणपरो मुनिः । नोत्सर्पेत न शुष्येत सरिद्भिर् इव सागरः ॥ 6 ॥

श्लोक 11.8.7

दृष्ट्वा स्त्रियं देवमायां तद्भावैर् अजितेन्द्रियः । प्रलोभितः पतत्य् अन्धे तमस्य् अग्नौ पतङ्गवत् ॥ 7 ॥

श्लोक 11.8.8

योषिद्धिरण्याभरणाम्बरादिद्रव्येषु मायारचितेषु मूढः । प्रलोभितात्मा ह्य् उपभोगबुद्ध्या पतङ्गवन् नश्यति नष्टदृष्टिः ॥ 8 ॥

श्लोक 11.8.9

स्तोकं स्तोकं ग्रसेद् ग्रासं देहो वर्तेत यावता । गृहान् अहिंसन्न् आतिष्ठेद् वृत्तिं माधुकरीं मुनिः ॥ 9 ॥

श्लोक 11.8.10

अणुभ्यश् च महद्भ्यश् च शास्त्रेभ्यः कुशलो नरः । सर्वतः सारम् आदद्यात् पुष्पेभ्य इव षट्पदः ॥ 10 ॥

श्लोक 11.8.11

सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षितम् । पाणिपात्रोदरामत्रो मक्षिकेव न सङ्ग्रही ॥ 11 ॥

श्लोक 11.8.12

सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षुकः । मक्षिका इव सङ्गृह्णन् सह तेन विनश्यति ॥ 12 ॥

श्लोक 11.8.13

पदापि युवतीं भिक्षुर् न स्पृशेद् दारवीम् अपि । स्पृशन् करीव बध्येत करिण्या अङ्गसङ्गतः ॥ 13 ॥

श्लोक 11.8.14

नाधिगच्छेत् स्त्रियं प्राज्ञः कर्हिचिन् मृत्युम् आत्मनः । बलाधिकैः स हन्येत गजैर् अन्यैर् गजो यथा ॥ 14 ॥

श्लोक 11.8.15

न देयं नोपभोग्यं च लुब्धैर् यद् दुःखसञ्चितम् । भुङ्क्ते तद् अपि तच् चान्यो मधुहेवार्थविन् मधु ॥ 15 ॥

श्लोक 11.8.16

सुदुःखोपार्जितैर् वित्तैर् आशासानां गृहाशिषः । मधुहेवाग्रतो भुङ्क्ते यतिर् वै गृहमेधिनाम् ॥ 16 ॥

श्लोक 11.8.17

ग्राम्यगीतं न शृणुयाद् यतिर् वनचरः क्वचित् । शिक्षेत हरिणाद् बद्धान् मृगयोर् गीतमोहितात् ॥ 17 ॥

श्लोक 11.8.18

नृत्यवादित्रगीतानि जुषन् ग्राम्याणि योषिताम् । आसां क्रीडनको वश्य ऋष्यशृङ्गो मृगीसुतः ॥ 18 ॥

श्लोक 11.8.19

जिह्वयातिप्रमाथिन्या जनो रसविमोहितः । मृत्युम् ऋच्छत्य् असद्बुद्धिर् मीनस् तु बडिशैर् यथा ॥ 19 ॥

श्लोक 11.8.20

इन्द्रियाणि जयन्त्य् आशु निराहारा मनीषिणः । वर्जयित्वा तु रसनं तन् निरन्नस्य वर्धते ॥ 20 ॥

श्लोक 11.8.21

तावज् जितेन्द्रियो न स्याद् विजितान्येन्द्रियः पुमान् । न जयेद् रसनं यावज् जितं सर्वं जिते रसे ॥ 21 ॥

श्लोक 11.8.22

पिङ्गला नाम वेश्यासीद् विदेहनगरे पुरा । तस्या मे शिक्षितं किञ्चिन् निबोध नृपनन्दन ॥ 22 ॥

श्लोक 11.8.23

सा स्वैरिण्य् एकदा कान्तं सङ्केत उपनेष्यती । अभूत् काले बहिर् द्वारे बिभ्रती रूपम् उत्तमम् ॥ 23 ॥

श्लोक 11.8.24

मार्ग आगच्छतो वीक्ष्य पुरुषान् पुरुषर्षभ । तान् शुल्कदान् वित्तवतः कान्तान् मेने ऽर्थकामुकी ॥ 24 ॥

श्लोक 11.8.25

आगतेष्व् अपयातेषु सा सङ्केतोपजीविनी । अप्य् अन्यो वित्तवान् को ऽपि माम् उपैष्यति भूरिदः ॥ 25 ॥

श्लोक 11.8.26

एवं दुराशया ध्वस्तनिद्रा द्वार्य् अवलम्बती । निर्गच्छन्ती प्रविशती निशीथं समपद्यत ॥ 26 ॥

श्लोक 11.8.27

तस्या वित्ताशया शुष्यद्वक्त्राया दीनचेतसः । निर्वेदः परमो जज्ञे चिन्ताहेतुः सुखावहः ॥ 27 ॥

श्लोक 11.8.28

तस्या निर्विण्णचित्ताया गीतं शृणु यथा मम । निर्वेद आशापाशानां पुरुषस्य यथा ह्य् असिः ॥ 28 ॥

श्लोक 11.8.29

न ह्य् अङ्गाजातनिर्वेदो देहबन्धं जिहासति । यथा विज्ञानरहितो मनुजो ममतां नृप ॥ 29 ॥

श्लोक 11.8.30

अहो मे मोहविततिं पश्यताविजितात्मनः । या कान्ताद् असतः कामं कामये येन बालिशा ॥ 30 ॥

श्लोक 11.8.31

सन्तं समीपे रमणं रतिप्रदं वित्तप्रदं नित्यम् इमं विहाय । अकामदं दुःखभयाधिशोकमोहप्रदं तुच्छम् अहं भजे ऽज्ञा ॥ 31 ॥

श्लोक 11.8.32

अहो मयात्मा परितापितो वृथा साङ्केत्यवृत्त्यातिविगर्ह्यवार्तया । स्त्रैणान् नराद् यार्थतृषो ऽनुशोच्यात् क्रीतेन वित्तं रतिम् आत्मनेच्छती ॥ 32 ॥

श्लोक 11.8.33

यद् अस्थिभिर् निर्मितवंशवंस्यस्थूणं त्वचा रोमनखैः पिनद्धम् &अम्प्; क्षरन्नवद्वारम् अगारम् एतद् विण्मूत्रपूर्णं मद् उपैति कान्या ॥ 33 ॥

श्लोक 11.8.34

विदेहानां पुरे ह्य् अस्मिन्न् अहम् एकैव मूढधीः । यान्यम् इच्छन्त्य् असत्य् अस्माद् आत्मदात् कामम् अच्युतात् ॥ 34 ॥

श्लोक 11.8.35

सुहृत् प्रेष्ठतमो नाथ आत्मा चायं शरीरिणाम् । तं विक्रीयात्मनैवाहं रमे ऽनेन यथा रमा ॥ 35 ॥

श्लोक 11.8.36

कियत् प्रियं ते व्यभजन् कामा ये कामदा नराः । आद्य्अन्तवन्तो भार्याया देवा वा कालविद्रुताः ॥ 36 ॥

श्लोक 11.8.37

नूनं मे भगवान् प्रीतो विष्णुः केनापि कर्मणा । निर्वेदो ऽयं दुराशाया यन् मे जातः सुखावहः ॥ 37 ॥

श्लोक 11.8.38

मैवं स्युर् मन्दभाग्यायाः क्लेशा निर्वेदहेतवः । येनानुबन्धं निर्हृत्य पुरुषः शमम् ऋच्छति ॥ 38 ॥

श्लोक 11.8.39

तेनोपकृतम् आदाय शिरसा ग्राम्यसङ्गताः । त्यक्त्वा दुराशाः शरणं व्रजामि तम् अधीश्वरम् ॥ 39 ॥

श्लोक 11.8.40

सन्तुष्टा श्रद्दधत्य् एतद् यथालाभेन जीवती । विहराम्य् अमुनैवाहम् आत्मना रमणेन वै ॥ 40 ॥

श्लोक 11.8.41

संसारकूपे पतितं विषयैर् मुषितेक्षणम् । ग्रस्तं कालाहिनात्मानं को ऽन्यस् त्रातुम् अधीश्वरः ॥ 41 ॥

श्लोक 11.8.42

आत्मैव ह्य् आत्मनो गोप्ता निर्विद्येत यदाखिलात् । अप्रमत्त इदं पश्येद् ग्रस्तं कालाहिना जगत् ॥ 42 ॥

श्लोक 11.8.43

एवं व्यवसितमतिर् दुराशां कान्ततर्षजाम् । छित्त्वोपशमम् आस्थाय शय्याम् उपविवेश सा ॥ 43 ॥

श्लोक 11.8.44

आशा हि परमं दुःखं नैराश्यं परमं सुखम् । यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला ॥ 44 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ