श्रीमद्भागवत द्वादश स्कन्ध अध्याय 9
श्रीमद्भागवत द्वादश स्कन्ध अध्याय 9 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 12.9.1
संस्तुतो भगवान् इत्थं मार्कण्डेयेन धीमता । नारायणो नरसखः प्रीत आह भृगूद्वहम् ॥ 1 ॥
श्लोक 12.9.2
भो भो ब्रह्मर्षिवर्यो ऽसि सिद्ध आत्मसमाधिना । मयि भक्त्यानपायिन्या तपःस्वाध्यायसंयमैः ॥ 2 ॥
श्लोक 12.9.3
वयं ते परितुष्टाः स्म त्वद्बृहद्व्रतचर्यया । वरं प्रतीच्छ भद्रं ते वरदो ऽस्मि त्वद्ईप्सितम् ॥ 3 ॥
श्लोक 12.9.4
जितं ते देवदेवेश प्रपन्नार्तिहराच्युत । वरेणैतावतालं नो यद् भवान् समदृश्यत ॥ 4 ॥
श्लोक 12.9.5
गृहीत्वाजादयो यस्य श्रीमत्पादाब्जदर्शनम् । मनसा योगपक्वेन स भवान् मे ऽक्षिगोचरः ॥ 5 ॥
श्लोक 12.9.6
अथाप्य् अम्बुजपत्राक्ष पुण्यश्लोकशिखामणे । द्रक्ष्ये मायां यया लोकः सपालो वेद सद्भिदाम् ॥ 6 ॥
श्लोक 12.9.7
इतीडितो ऽर्चितः कामम् ऋषिणा भगवान् मुने । तथेति स स्मयन् प्रागाद् बदर्य्आश्रमम् ईश्वरः ॥ 7 ॥
श्लोक 12.9.8
तम् एव चिन्तयन्न् अर्थम् ऋषिः स्वाश्रम एव सः । वसन्न् अग्न्य्अर्कसोमाम्बुभूवायुवियद्आत्मसु ॥ 8 ॥
श्लोक 12.9.9
ध्यायन् सर्वत्र च हरिं भावद्रव्यैर् अपूजयत् । क्वचित् पूजां विसस्मार प्रेमप्रसरसम्प्लुतः ॥ 9 ॥
श्लोक 12.9.10
तस्यैकदा भृगुश्रेष्ठ पुष्पभद्रातटे मुनेः । उपासीनस्य सन्ध्यायां ब्रह्मन् वायुर् अभून् महान् ॥ 10 ॥
श्लोक 12.9.11
तं चण्डशब्दं समुदीरयन्तं बलाहका अन्व् अभवन् करालाः । अक्षस्थविष्ठा मुमुचुस् तडिद्भिः स्वनन्त उच्चैर् अभि वर्षधाराः ॥ 11 ॥
श्लोक 12.9.12
ततो व्यदृश्यन्त चतुः समुद्राः समन्ततः क्ष्मातलम् आग्रसन्तः । समीरवेगोर्मिभिर् उग्रनक्रमहाभयावर्तगभीरघोषाः ॥ 12 ॥
श्लोक 12.9.13
अन्तर् बहिश् चाद्भिर् अतिद्युभिः खरैः शतह्रदाभिर् उपतापितं जगत् &अम्प्; चतुर्विधं वीक्ष्य सहात्मना मुनिर् जलाप्लुतां क्ष्मां विमनाः समत्रसत् ॥ 13 ॥
श्लोक 12.9.14
तस्यैवम् उद्वीक्षत ऊर्मिभीषणः प्रभञ्जनाघूर्णितवार् महार्णवः । आपूर्यमाणो वरषद्भिर् अम्बुदैः क्ष्माम् अप्यधाद् द्वीपवर्षाद्रिभिः समम् ॥ 14 ॥
श्लोक 12.9.15
सक्ष्मान्तरिक्षं सदिवं सभागणं त्रैलोक्यम् आसीत् सह दिग्भिर् आप्लुतम् &अम्प्; स एक एवोर्वरितो महामुनिर् बभ्राम विक्षिप्य जटा जडान्धवत् ॥ 15 ॥
श्लोक 12.9.16
क्षुत्तृट्परीतो मकरैस् तिमिङ्गिलैर् उपद्रुतो वीचिनभस्वताहतः । तमस्य् अपारे पतितो भ्रमन् दिशो न वेद खं गां च परिश्रमेषितः ॥ 16 ॥
श्लोक 12.9.17
क्रचिन् मग्नो महावर्ते तरलैस् ताडितः क्वचित् । यादोभिर् भक्ष्यते क्वापि स्वयम् अन्योन्यघातिभिः ॥ 17 ॥
श्लोक 12.9.18
क्वचिच् छोकं क्वचिन् मोहं क्वचिद् दुःखं सुखं भयम् । क्वचिन् मृत्युम् अवाप्नोति व्याध्य्आदिभिर् उतार्दितः ॥ 18 ॥
श्लोक 12.9.19
अयुतायतवर्षाणां सहस्राणि शतानि च । व्यतीयुर् भ्रमतस् तस्मिन् विष्णुमायावृतात्मनः ॥ 19 ॥
श्लोक 12.9.20
स कदाचिद् भ्रमंस् तस्मिन् पृथिव्याः ककुदि द्विजः । न्याग्रोधपोतं ददृशे फलपल्लवशोभितम् ॥ 20 ॥
श्लोक 12.9.21
प्राग्उत्तरस्यां शाखायां तस्यापि ददृशे शिशुम् । शयानं पर्णपुटके ग्रसन्तं प्रभया तमः ॥ 21 ॥
श्लोक 12.9.22
महामरकतश्यामं श्रीमद्वदनपङ्कजम् । कम्बुग्रीवं महोरस्कं सुनसं सुन्दरभ्रुवम् ॥ 22 ॥
श्लोक 12.9.23
श्वासैजद्अलकाभातं कम्बुश्रीकर्णदाडिमम् । विद्रुमाधरभासेषच्छोणायितसुधास्मितम् ॥ 23 ॥
श्लोक 12.9.24
पद्मगर्भारुणापाङ्गं हृद्यहासावलोकनम् । श्वासैजद्वलिसंविग्ननिम्ननाभिदलोदरम् ॥ 24 ॥
श्लोक 12.9.25
चार्व्अङ्गुलिभ्यां पाणिभ्याम् उन्नीय चरणाम्बुजम् । मुखे निधाय विप्रेन्द्रो धयन्तं वीक्ष्य विस्मितः ॥ 25 ॥
श्लोक 12.9.26
तद्दर्शनाद् वीतपरिश्रमो मुदा प्रोत्फुल्लहृत्पौल्मविलोचनाम्बुजः । प्रहृष्टरोमाद्भुतभावशङ्कितः प्रष्टुं पुरस् तं प्रससार बालकम् ॥ 26 ॥
श्लोक 12.9.27
तावच् छिशोर् वै श्वसितेन भार्गवः सो ऽन्तः शरीरं मशको यथाविशत् &अम्प्; तत्राप्य् अदो न्यस्तम् अचष्ट कृत्स्नशो यथा पुरामुह्यद् अतीव विस्मितः ॥ 27 ॥
श्लोक 12.9.28
खं रोदसी भागणान् अद्रिसागरान् द्वीपान् सवर्षान् ककुभः सुरासुरान् । वनानि देशान् सरितः पुराकरान् खेटान् व्रजान् आश्रमवर्णवृत्तयः ॥ 28 ॥
श्लोक 12.9.29
महान्ति भूतान्य् अथ भौतिकान्य् असौ कालं च नानायुगकल्पकल्पनम् । यत् किञ्चिद् अन्यद् व्यवहारकारणं ददर्श विश्वं सद् इवावभासितम् ॥ 29 ॥
श्लोक 12.9.30
हिमालयं पुष्पवहां च तां नदीं निजाश्रमं यत्र ऋषी अपश्यत । विश्वं विपश्यञ् छ्वसिताच् छिशोर् वै बहिर् निरस्तो न्यपतल् लयाब्धौ ॥ 30 ॥
श्लोक 12.9.31
तस्मिन् पृथिव्याः ककुदि प्ररूढं वटं च तत्पर्णपुटे शयानम् । तोकं च तत्प्रेमसुधास्मितेन निरीक्षितो ऽपाङ्गनिरीक्षणेन ॥ 31 ॥
श्लोक 12.9.32
अथ तं बालकं वीक्ष्य नेत्राभ्यां धिष्ठितं हृदि । अभ्ययाद् अतिसङ्क्लिष्टः परिष्वक्तुम् अधोक्षजम् ॥ 32 ॥
श्लोक 12.9.33
तावत् स भगवान् साक्षाद् योगाधीशो गुहाशयः । अन्तर्दध ऋषेः सद्यो यथेहानीशनिर्मिता ॥ 33 ॥
श्लोक 12.9.34
तम् अन्व् अथ वटो ब्रह्मन् सलिलं लोकसम्प्लवः । तिरोधायि क्षणाद् अस्य स्वाश्रमे पूर्ववत् स्थितः ॥ 34 ॥