श्रीमद्भागवत द्वादश स्कन्ध अध्याय 3
श्रीमद्भागवत द्वादश स्कन्ध अध्याय 3 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 12.3.1
दृष्ट्वात्मनि जये व्यग्रान् नृपान् हसति भूर् इयम् । अहो मा विजिगीषन्ति मृत्योः क्रीडनका नृपाः ॥ 1 ॥
श्लोक 12.3.2
काम एष नरेन्द्राणां मोघः स्याद् विदुषाम् अपि । येन फेनोपमे पिण्डे ये ऽतिविश्रम्भिता नृपाः ॥ 2 ॥
श्लोक 12.3.3
पूर्वं निर्जित्य षड्वर्गं जेष्यामो राजमन्त्रिणः । ततः सचिवपौराप्तकरीन्द्रान् अस्य कण्टकान् ॥ 3 ॥
श्लोक 12.3.4
एवं क्रमेण जेष्यामः पृथ्वीं सागरमेखलाम् । इत्य् आशाबद्धहृदया न पश्यन्त्य् अन्तिके ऽन्तकम् ॥ 4 ॥
श्लोक 12.3.5
समुद्रावरणां जित्वा मां विशन्त्य् अब्धिम् ओजसा । कियद् आत्मजयस्यैतन् मुक्तिर् आत्मजये फलम् ॥ 5 ॥
श्लोक 12.3.6
यां विसृज्यैव मनवस् तत्सुताश् च कुरूद्वह । गता यथागतं युद्धे तां मां जेष्यन्त्य् अबुद्धयः ॥ 6 ॥
श्लोक 12.3.7
मत्कृते पितृपुत्राणां भ्रातृणां चापि विग्रहः । जायते ह्य् असतां राज्ये ममताबद्धचेतसाम् ॥ 7 ॥
श्लोक 12.3.8
ममैवेयं मही कृत्स्ना न ते मूढेति वादिनः । स्पर्धमाना मिथो घ्नन्ति म्रियन्ते मत्कृते नृपाः ॥ 8 ॥
श्लोक 12.3.9
पृथुः पुरूरवा गाधिर् नहुषो भरतो ऽर्जुनः । मान्धाता सगरो रामः खट्वाङ्गो धुन्धुहा रघुः ॥ 9 ॥
श्लोक 12.3.10
तृणबिन्दुर् ययातिश् च शर्यातिः शन्तनुर् गयः । भगीरथः कुवलयाश्वः ककुत्स्थो नैषधो नृगः ॥ 10 ॥
श्लोक 12.3.11
हिरण्यकशिपुर् वृत्रो रावणो लोकरावणः । नमुचिः शम्बरो भौमो हिरण्याक्षो ऽथ तारकः ॥ 11 ॥
श्लोक 12.3.12
अन्ये च बहवो दैत्या राजानो ये महेश्वराः । सर्वे सर्वविदः शूराः सर्वे सर्वजितो ऽजिताः ॥ 12 ॥
श्लोक 12.3.13
ममतां मय्य् अवर्तन्त कृत्वोच्चैर् मर्त्यधर्मिणः । कथावशेषाः कालेन ह्य् अकृतार्थाः कृता विभो ॥ 13 ॥
श्लोक 12.3.14
कथा इमास् ते कथिता महीयसां विताय लोकेषु यशः परेयुषाम् । विज्ञानवैराग्यविवक्षया विभो वचोविभूतीर् न तु पारमार्थ्यम् ॥ 14 ॥
श्लोक 12.3.15
यस् तूत्तमःश्लोकगुणानुवादः सङ्गीयते ऽभीक्ष्णम् अमङ्गलघ्नः । तम् एव नित्यं शृणुयाद् अभीक्ष्णं कृष्णे ऽमलां भक्तिम् अभीप्समानः ॥ 15 ॥
श्लोक 12.3.16
केनोपायेन भगवन् कलेर् दोषान् कलौ जनाः । विधमिष्यन्त्य् उपचितांस् तन् मे ब्रूहि यथा मुने ॥ 16 ॥
श्लोक 12.3.17
युगानि युगधर्मांश् च मानं प्रलयकल्पयोः । कालस्येश्वररूपस्य गतिं विष्णोर् महात्मनः ॥ 17 ॥
श्लोक 12.3.18
कृते प्रवर्तते धर्मश् चतुष्पात् तज्जनैर् धृतः । सत्यं दया तपो दानम् इति पादा विभोर् नृप ॥ 18 ॥
श्लोक 12.3.19
सन्तुष्टाः करुणा मैत्राः शान्ता दान्तास् तितिक्षवः । आत्मारामाः समदृशः प्रायशः श्रमणा जनाः ॥ 19 ॥
श्लोक 12.3.20
त्रेतायां धर्मपादानां तुर्यांशो हीयते शनैः । अधर्मपादैर् अनृतहिंषासन्तोषविग्रहैः ॥ 20 ॥
श्लोक 12.3.21
तदा क्रियातपोनिष्ठा नातिहिंस्रा न लम्पटाः । त्रैवर्गिकास् त्रयीवृद्धा वर्णा ब्रह्मोत्तरा नृप ॥ 21 ॥
श्लोक 12.3.22
तपःसत्यदयादानेष्व् अर्धं ह्रस्वति द्वापरे । हिंसातुष्ट्य्अनृतद्वेषैर् धर्मस्याधर्मलक्षणैः ॥ 22 ॥
श्लोक 12.3.23
यशस्विनो महाशीलाः स्वाध्यायाध्ययने रताः । आध्याः कुटुम्बिनो हृष्टा वर्णाः क्षत्रद्विजोत्तराः ॥ 23 ॥
श्लोक 12.3.24
कलौ तु धर्मपादानां तुर्यांशो ऽधर्महेतुभिः । एधमानैः क्षीयमाणो ह्य् अन्ते सो ऽपि विनङ्क्ष्यति ॥ 24 ॥
श्लोक 12.3.25
तस्मिन् लुब्धा दुराचारा निर्दयाः शुष्कवैरिणः । दुर्भगा भूरितर्षाश् च शूद्रदासोत्तराः प्रजाः ॥ 25 ॥
श्लोक 12.3.26
सत्त्वं रजस् तम इति दृश्यन्ते पुरुषे गुणाः । कालसञ्चोदितास् ते वै परिवर्तन्त आत्मनि ॥ 26 ॥
श्लोक 12.3.27
प्रभवन्ति यदा सत्त्वे मनोबुद्धीन्द्रियाणि च । तदा कृतयुगं विद्याज् ज्ञाने तपसि यद् रुचिः ॥ 27 ॥
श्लोक 12.3.28
यदा कर्मसु काम्येषु भक्तिर् यशसि देहिनाम् । तदा त्रेता रजोवृत्तिर् इति जानीहि बुद्धिमन् ॥ 28 ॥
श्लोक 12.3.29
यदा लोभस् त्व् असन्तोषो मानो दम्भो ऽथ मत्सरः । कर्मणां चापि काम्यानां द्वापरं तद् रजस्तमः ॥ 29 ॥
श्लोक 12.3.30
यदा मायानृतं तन्द्रा निद्रा हिंसा विषादनम् । शोकमोहौ भयं दैन्यं स कलिस् तामसः स्मृतः ॥ 30 ॥
श्लोक 12.3.31
तस्मात् क्षुद्रदृशो मर्त्याः क्षुद्रभाग्या महाशनाः । कामिनो वित्तहीनाश् च स्वैरिण्यश् च स्त्रियो ऽसतीः ॥ 31 ॥
श्लोक 12.3.32
दस्यूत्कृष्टा जनपदा वेदाः पाषण्डदूषिताः । राजानश् च प्रजाभक्षाः शिश्नोदरपरा द्विजाः ॥ 32 ॥
श्लोक 12.3.33
अव्रता बटवो ऽशौचा भिक्षवश् च कुटुम्बिनः । तपस्विनो ग्रामवासा न्यासिनो ऽत्यर्थलोलुपाः ॥ 33 ॥
श्लोक 12.3.34
ह्रस्वकाया महाहारा भूर्य्अपत्या गतह्रियः । शश्वत् कटुकभाषिण्यश् चौर्यमायोरुसाहसाः ॥ 34 ॥
श्लोक 12.3.35
पणयिष्यन्ति वै क्षुद्राः किराटाः कूटकारिणः । अनापद्य् अपि मंस्यन्ते वार्तां साधु जुगुप्सिताम् ॥ 35 ॥
श्लोक 12.3.36
पतिं त्यक्ष्यन्ति निर्द्रव्यं भृत्या अप्य् अखिलोत्तमम् । भृत्यं विपन्नं पतयः कौलं गाश् चापयस्विनीः ॥ 36 ॥
श्लोक 12.3.37
पितृभ्रातृसुहृज्ज्ञातीन् हित्वा सौरतसौहृदाः । ननान्दृश्यालसंवादा दीनाः स्त्रैणाः कलौ नराः ॥ 37 ॥
श्लोक 12.3.38
शूद्राः प्रतिग्रहीष्यन्ति तपोवेषोपजीविनः । धर्मं वक्ष्यन्त्य् अधर्मज्ञा अधिरुह्योत्तमासनम् ॥ 38 ॥
श्लोक 12.3.39
नित्यं उद्विग्नमनसो दुर्भिक्षकरकर्शिताः । निरन्ने भूतले राजन् अनावृष्टिभयातुराः ॥ 39 ॥
श्लोक 12.3.40
वासोऽन्नपानशयनव्यवायस्नानभूषणैः । हीनाः पिशाचसन्दर्शा भविष्यन्ति कलौ प्रजाः ॥ 40 ॥
श्लोक 12.3.41
कलौ काकिणिके ऽप्य् अर्थे विगृह्य त्यक्तसौहृदाः । त्यक्ष्यन्ति च प्रियान् प्राणान् हनिष्यन्ति स्वकान् अपि ॥ 41 ॥
श्लोक 12.3.42
न रक्षिष्यन्ति मनुजाः स्थविरौ पितराव् अपि । पुत्रान् भार्यां च कुलजां क्षुद्राः शिश्नोदरंभराः ॥ 42 ॥
श्लोक 12.3.43
कलौ न राजन् जगतां परं गुरुं त्रिलोकनाथानतपादपङ्कजम् । प्रायेण मर्त्या भगवन्तम् अच्युतं यक्ष्यन्ति पाषण्डविभिन्नचेतसः ॥ 43 ॥
श्लोक 12.3.44
यन्नामधेयं म्रियमाण आतुरः पतन् स्खलन् वा विवशो गृणन् पुमान् । विमुक्तकर्मार्गल उत्तमां गतिं प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः ॥ 44 ॥
श्लोक 12.3.45
पुंसां कलिकृतान् दोषान् द्रव्यदेशात्मसम्भवान् । सर्वान् हरति चित्तस्थो भगवान् पुरुषोत्तमः ॥ 45 ॥
श्लोक 12.3.46
श्रुतः सङ्कीर्तितो ध्यातः पूजितश् चादृतो ऽपि वा । नृणां धुनोति भगवान् हृत्स्थो जन्मायुताशुभम् ॥ 46 ॥
श्लोक 12.3.47
यथा हेम्नि स्थितो वह्निर् दुर्वर्णं हन्ति धातुजम् । एवम् आत्मगतो विष्णुर् योगिनाम् अशुभाशयम् ॥ 47 ॥
श्लोक 12.3.48
विद्यातपःप्राणनिरोधमैत्रीतीर्थाभिषेकव्रतदानजप्यैः । नात्यन्तशुद्धिं लभते ऽन्तरात्मा यथा हृदिस्थे भगवत्य् अनन्ते ॥ 48 ॥
श्लोक 12.3.49
तस्मात् सर्वात्मना राजन् हृदिस्थं कुरु केशवम् । म्रियमाणो ह्य् अवहितस् ततो यासि परां गतिम् ॥ 49 ॥
श्लोक 12.3.50
म्रियमाणैर् अभिध्येयो भगवान् परमेश्वरः । आत्मभावं नयत्य् अङ्ग सर्वात्मा सर्वसंश्रयः ॥ 50 ॥
श्लोक 12.3.51
कलेर् दोषनिधे राजन्न् अस्ति ह्य् एको महान् गुणः । कीर्तनाद् एव कृष्णस्य मुक्तसङ्गः परं व्रजेत् ॥ 51 ॥
श्लोक 12.3.52
कृते यद् ध्यायतो विष्णुं त्रेतायां यजतो मखैः । द्वापरे परिचर्यायां कलौ तद् धरिकीर्तनात् ॥ 52 ॥