मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत द्वादश स्कन्ध अध्याय 4

श्रीमद्भागवत द्वादश स्कन्ध अध्याय 4 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 12.4.1

कालस् ते परमाण्व्आदिर् द्विपरार्धावधिर् नृप । कथितो युगमानं च शृणु कल्पलयाव् अपि ॥ 1 ॥

श्लोक 12.4.2

चतुर्युगसहस्रं तु ब्रह्मणो दिनम् उच्यते । स कल्पो यत्र मनवश् चतुर्दश विशाम्पते ॥ 2 ॥

श्लोक 12.4.3

तद्अन्ते प्रलयस् तावान् ब्राह्मी रात्रिर् उदाहृता । त्रयो लोका इमे तत्र कल्पन्ते प्रलयाय हि ॥ 3 ॥

श्लोक 12.4.4

एष नैमित्तिकः प्रोक्तः प्रलयो यत्र विश्वसृक् । शेते ऽनन्तासनो विश्वम् आत्मसात्कृत्य चात्मभूः ॥ 4 ॥

श्लोक 12.4.5

द्विपरार्धे त्व् अतिक्रान्ते ब्रह्मणः परमेष्ठिनः । तदा प्रकृतयः सप्त कल्पन्ते प्रलयाय वै ॥ 5 ॥

श्लोक 12.4.6

एष प्राकृतिको राजन् प्रलयो यत्र लीयते । अण्डकोषस् तु सङ्घातो विघाट उपसादिते ॥ 6 ॥

श्लोक 12.4.7

पर्जन्यः शतवर्षाणि भूमौ राजन् न वर्षति । तदा निरन्ने ह्य् अन्योन्यं भक्ष्यमाणाः क्षुधार्दिताः ॥ 7 ॥

श्लोक 12.4.8

क्षयं यास्यन्ति शनकैः कालेनोपद्रुताः प्रजाः । सामुद्रं दैहिकं भौमं रसं सांवर्तको रविः ॥ 8 ॥

श्लोक 12.4.9

रश्मिभिः पिबते घोरैः सर्वं नैव विमुञ्चति । ततः संवर्तको वह्निः सङ्कर्षणमुखोत्थितः ॥ 9 ॥

श्लोक 12.4.10

दहत्य् अनिलवेगोत्थः शून्यान् भूविवरान् अथ । उपर्य् अधः समन्ताच् च शिखाभिर् वह्निसूर्ययोः ॥ 10 ॥

श्लोक 12.4.11

दह्यमानं विभात्य् अण्डं दग्धगोमयपिण्डवत् । ततः प्रचण्डपवनो वर्षाणाम् अधिकं शतम् ॥ 11 ॥

श्लोक 12.4.12

परः सांवर्तको वाति धूम्रं खं रजसावृतम् । ततो मेघकुलान्य् अङ्ग चित्र वर्णान्य् अनेकशः ॥ 12 ॥

श्लोक 12.4.13

शतं वर्षाणि वर्षन्ति नदन्ति रभसस्वनैः । तत एकोदकं विश्वं ब्रह्माण्डविवरान्तरम् ॥ 13 ॥

श्लोक 12.4.14

तदा भूमेर् गन्धगुणं ग्रसन्त्य् आप उदप्लवे । ग्रस्तगन्धा तु पृथिवी प्रलयत्वाय कल्पते ॥ 14 ॥

श्लोक 12.4.15

अपां रसम् अथो तेजस् ता लीयन्ते ऽथ नीरसाः । ग्रसते तेजसो रूपं वायुस् तद्रहितं तदा ॥ 15 ॥

श्लोक 12.4.16

लीयते चानिले तेजो वायोः खं ग्रसते गुणम् । स वै विशति खं राजंस् ततश् च नभसो गुणम् ॥ 16 ॥

श्लोक 12.4.17

शब्दं ग्रसति भूतादिर् नभस् तम् अनु लीयते । तैजसश् चेन्द्रियाण्य् अङ्ग देवान् वैकारिको गुणैः ॥ 17 ॥

श्लोक 12.4.18

महान् ग्रसत्य् अहङ्कारं गुणाः सत्त्वादयश् च तम् । ग्रसते ऽव्याकृतं राजन् गुणान् कालेन चोदितम् ॥ 18 ॥

श्लोक 12.4.19

न तस्य कालावयवैः परिणामादयो गुणाः । अनाद्य् अनन्तम् अव्यक्तं नित्यं कारणम् अव्ययम् ॥ 19 ॥

श्लोक 12.4.20

न यत्र वाचो न मनो न सत्त्वं तमो रजो वा महद्आदयो ऽमी । न प्राणबुद्धीन्द्रियदेवता वा न सन्निवेशः खलु लोककल्पः ॥ 20 ॥

श्लोक 12.4.21

न स्वप्नजाग्रन् न च तत् सुषुप्तं न खं जलं भूर् अनिलो ऽग्निर् अर्कः । संसुप्तवच् छून्यवद् अप्रतर्क्यं तन् मूलभूतं पदम् आमनन्ति ॥ 21 ॥

श्लोक 12.4.22

लयः प्राकृतिको ह्य् एष पुरुषाव्यक्तयोर् यदा । शक्तयः सम्प्रलीयन्ते विवशाः कालविद्रुताः ॥ 22 ॥

श्लोक 12.4.23

बुद्धीन्द्रियार्थरूपेण ज्ञानं भाति तद्आश्रयम् । दृश्यत्वाव्यतिरेकाभ्याम् आद्य्अन्तवद् अवस्तु यत् ॥ 23 ॥

श्लोक 12.4.24

दीपश् चक्षुश् च रूपं च ज्योतिषो न पृथग् भवेत् । एवं धीः खानि मात्राश् च न स्युर् अन्यतमाद् ऋतात् ॥ 24 ॥

श्लोक 12.4.25

बुद्धेर् जागरणं स्वप्नः सुषुप्तिर् इति चोच्यते । मायामात्रम् इदं राजन् नानात्वं प्रत्यग्आत्मनि ॥ 25 ॥

श्लोक 12.4.26

यथा जलधरा व्योम्नि भवन्ति न भवन्ति च । ब्रह्मणीदं तथा विश्वम् अवयव्य् उदयाप्ययात् ॥ 26 ॥

श्लोक 12.4.27

सत्यं ह्य् अवयवः प्रोक्तः सर्वावयविनाम् इह । विनार्थेन प्रतीयेरन् पटस्येवाङ्ग तन्तवः ॥ 27 ॥

श्लोक 12.4.28

यत् सामान्यविशेषाभ्याम् उपलभ्येत स भ्रमः । अन्योन्यापाश्रयात् सर्वम् आद्य्अन्तवद् अवस्तु यत् ॥ 28 ॥

श्लोक 12.4.29

विकारः ख्यायमानो ऽपि प्रत्यग्आत्मानम् अन्तरा । न निरूप्यो ऽस्त्य् अणुर् अपि स्याच् चेच् चित्सम आत्मवत् ॥ 29 ॥

श्लोक 12.4.30

न हि सत्यस्य नानात्वम् अविद्वान् यदि मन्यते । नानात्वं छिद्रयोर् यद्वज् ज्योतिषोर् वातयोर् इव ॥ 30 ॥

श्लोक 12.4.31

यथा हिरण्यं बहुधा समीयते नृभिः क्रियाभिर् व्यवहारवर्त्मसु । एवं वचोभिर् भगवान् अधोक्षजो व्याख्यायते लौकिकवैदिकैर् जनैः ॥ 31 ॥

श्लोक 12.4.32

यथा घनो ऽर्कप्रभवो ऽर्कदर्शितो ह्य् अर्कांशभूतस्य च चक्षुषस् तमः &अम्प्; एवं त्व् अहं ब्रह्मगुणस् तद्ईक्षितो ब्रह्मांशकस्यात्मन आत्मबन्धनः ॥ 32 ॥

श्लोक 12.4.33

घनो यदार्कप्रभवो विदीर्यते चक्षुः स्वरूपं रविम् ईक्षते तदा । यदा ह्य् अहङ्कार उपाधिर् आत्मनो जिज्ञासया नश्यति तर्ह्य् अनुस्मरेत् ॥ 33 ॥

श्लोक 12.4.34

यदैवम् एतेन विवेकहेतिना मायामयाहङ्करणात्मबन्धनम् । छित्त्वाच्युतात्मानुभवो ऽवतिष्ठते तम् आहुर् आत्यन्तिकम् अङ्ग सम्प्लवम् ॥ 34 ॥

श्लोक 12.4.35

नित्यदा सर्वभूतानां ब्रह्मादीनां परन्तप । उत्पत्तिप्रलयाव् एके सूक्ष्मज्ञाः सम्प्रचक्षते ॥ 35 ॥

श्लोक 12.4.36

कालस्रोतोजवेनाशु ह्रियमाणस्य नित्यदा । परिणामिनां अवस्थास् ता जन्मप्रलयहेतवः ॥ 36 ॥

श्लोक 12.4.37

अनाद्य्अन्तवतानेन कालेनेश्वरमूर्तिना । अवस्था नैव दृश्यन्ते वियति ज्योतिषां इव ॥ 37 ॥

श्लोक 12.4.38

नित्यो नैमित्तिकश् चैव तथा प्राकृतिको लयः । आत्यन्तिकश् च कथितः कालस्य गतिर् ईदृशी ॥ 38 ॥

श्लोक 12.4.39

एताः कुरुश्रेष्ठ जगद्विधातुर् नारायणस्याखिलसत्त्वधाम्नः । लीलाकथास् ते कथिताः समासतः कार्त्स्न्येन नाजो ऽप्य् अभिधातुम् ईशः ॥ 39 ॥

श्लोक 12.4.40

संसारसिन्धुम् अतिदुस्तरम् उत्तितीर्षोर् नान्यः प्लवो भगवतः पुरुषोत्तमस्य &अम्प्; लीलाकथारसनिषेवणम् अन्तरेण पुंसो भवेद् विविधदुःखदवार्दितस्य ॥ 40 ॥

श्लोक 12.4.41

पुराणसंहिताम् एताम् ऋषिर् नारायणो ऽव्ययः । नारदाय पुरा प्राह कृष्णद्वैपायनाय सः ॥ 41 ॥

श्लोक 12.4.42

स वै मह्यं महाराज भगवान् बादरायणः । इमां भागवतीं प्रीतः संहितां वेदसम्मिताम् ॥ 42 ॥

श्लोक 12.4.43

इमां वक्ष्यत्य् असौ सूत ऋषिभ्यो नैमिषालये । दीर्घसत्रे कुरुश्रेष्ठ सम्पृष्टः शौनकादिभिः ॥ 43 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ