श्रीमद्भागवत द्वादश स्कन्ध अध्याय 5
श्रीमद्भागवत द्वादश स्कन्ध अध्याय 5 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 12.5.1
अत्रानुवर्ण्यते ऽभीक्ष्णं विश्वात्मा भगवान् हरिः । यस्य प्रसादजो ब्रह्मा रुद्रः क्रोधसमुद्भवः ॥ 1 ॥
श्लोक 12.5.2
त्वं तु राजन् मरिष्येति पशुबुद्धिम् इमां जहि । न जातः प्राग् अभूतो ऽद्य देहवत् त्वं न नङ्क्ष्यसि ॥ 2 ॥
श्लोक 12.5.3
न भविष्यसि भूत्वा त्वं पुत्रपौत्रादिरूपवान् । बीजाङ्कुरवद् देहादेर् व्यतिरिक्तो यथानलः ॥ 3 ॥
श्लोक 12.5.4
स्वप्ने यथा शिरश्छेदं पञ्चत्वाद्य् आत्मनः स्वयम् । यस्मात् पश्यति देहस्य तत आत्मा ह्य् अजो ऽमरः ॥ 4 ॥
श्लोक 12.5.5
घटे भिन्ने घटाकाश आकाशः स्याद् यथा पुरा । एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः ॥ 5 ॥
श्लोक 12.5.6
मनः सृजति वै देहान् गुणान् कर्माणि चात्मनः । तन् मनः सृजते माया ततो जीवस्य संसृतिः ॥ 6 ॥
श्लोक 12.5.7
स्नेहाधिष्ठानवर्त्य्अग्निसंयोगो यावद् ईयते । तावद् दीपस्य दीपत्वम् एवं देहकृतो भवः । रजःसत्त्वतमोवृत्त्या जायते ऽथ विनश्यति ॥ 7 ॥
श्लोक 12.5.8
न तत्रात्मा स्वयंज्योतिर् यो व्यक्ताव्यक्तयोः परः । आकाश इव चाधारो ध्रुवो ऽनन्तोपमस् ततः ॥ 8 ॥
श्लोक 12.5.9
एवम् आत्मानम् आत्मस्थम् आत्मनैवामृश प्रभो । बुद्ध्यानुमानगर्भिण्या वासुदेवानुचिन्तया ॥ 9 ॥
श्लोक 12.5.10
चोदितो विप्रवाक्येन न त्वां धक्ष्यति तक्षकः । मृत्यवो नोपधक्ष्यन्ति मृत्यूनां मृत्युम् ईश्वरम् ॥ 10 ॥
श्लोक 12.5.11
अहं ब्रह्म परं धाम ब्रह्माहं परमं पदम् । एवं समीक्ष्य चात्मानम् आत्मन्य् आधाय निष्कले ॥ 11 ॥
श्लोक 12.5.12
दशन्तं तक्षकं पादे लेलिहानं विषाननैः । न द्रक्ष्यसि शरीरं च विश्वं च पृथग् आत्मनः ॥ 12 ॥
श्लोक 12.5.13
एतत् ते कथितं तात यद् आत्मा पृष्टवान् नृप । हरेर् विश्वात्मनश् चेष्टां किं भूयः श्रोतुम् इच्छसि ॥ 13 ॥