श्रीमद्भागवत द्वादश स्कन्ध अध्याय 6
श्रीमद्भागवत द्वादश स्कन्ध अध्याय 6 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 12.6.1
एतन् निशम्य मुनिनाभिहितं परीक्षिद् व्यासात्मजेन निखिलात्मदृशा समेन । तत्पादमूलम् उपसृत्य नतेन मूर्ध्ना बद्धाञ्जलिस् तम् इदम् आह स विष्णुरातः ॥ 1 ॥
श्लोक 12.6.2
सिद्धो ऽस्म्य् अनुगृहीतो ऽस्मि भवता करुणात्मना । श्रावितो यच् च मे साक्षाद् अनादिनिधनो हरिः ॥ 2 ॥
श्लोक 12.6.3
नात्य्अद्भुतम् अहं मन्ये महताम् अच्युतात्मनाम् । अज्ञेषु तापतप्तेषु भूतेषु यद् अनुग्रहः ॥ 3 ॥
श्लोक 12.6.4
पुराणसंहिताम् एताम् अश्रौष्म भवतो वयम् । यस्यां खलूत्तमःश्लोको भगवान् अनवर्ण्यते ॥ 4 ॥
श्लोक 12.6.5
भगवंस् तक्षकादिभ्यो मृत्युभ्यो न बिभेम्य् अहम् । प्रविष्टो ब्रह्म निर्वाणम् अभयं दर्शितं त्वया ॥ 5 ॥
श्लोक 12.6.6
अनुजानीहि मां ब्रह्मन् वाचं यच्छाम्य् अधोक्षजे । मुक्तकामाशयं चेतः प्रवेश्य विसृजाम्य् असून् ॥ 6 ॥
श्लोक 12.6.7
अज्ञानं च निरस्तं मे ज्ञानविज्ञाननिष्ठया । भवता दर्शितं क्षेमं परं भगवतः पदम् ॥ 7 ॥
श्लोक 12.6.8
इत्य् उक्तस् तम् अनुज्ञाप्य भगवान् बादरायणिः । जगाम भिक्षुभिः साकं नरदेवेन पूजितः ॥ 8 ॥
श्लोक 12.6.9
परीक्षिद् अपि राजर्षिर् आत्मन्य् आत्मानम् आत्मना । समाधाय परं दध्याव् अस्पन्दासुर् यथा तरुः ॥ 9 ॥
श्लोक 12.6.10
प्राक्कूले बर्हिष्य् आसीनो गङ्गाकूल उदङ्मुखः । ब्रह्मभूतो महायोगी निःसङ्गश् छिन्नसंशयः ॥ 10 ॥
श्लोक 12.6.11
तक्षकः प्रहितो विप्राः क्रुद्धेन द्विजसूनुना । हन्तुकामो नृपं गच्छन् ददर्श पथि कश्यपम् ॥ 11 ॥
श्लोक 12.6.12
तं तर्पयित्वा द्रविणैर् निवर्त्य विषहारिणम् । द्विजरूपप्रतिच्छन्नः कामरूपो ऽदशन् नृपम् ॥ 12 ॥
श्लोक 12.6.13
ब्रह्मभूतस्य राजर्षेर् देहो ऽहिगरलाग्निना । बभूव भस्मसात् सद्यः पश्यतां सर्वदेहिनाम् ॥ 13 ॥
श्लोक 12.6.14
हाहाकारो महान् आसीद् भुवि खे दिक्षु सर्वतः । विस्मिता ह्य् अभवन् सर्वे देवासुरनरादयः ॥ 14 ॥
श्लोक 12.6.15
देवदुन्दुभयो नेदुर् गन्धर्वाप्सरसो जगुः । ववृषुः पुष्पवर्षाणि विबुधाः साधुवादिनः ॥ 15 ॥
श्लोक 12.6.16
जन्मेजयः स्वपितरं श्रुत्वा तक्षकभक्षितम् । यथाजुहाव सन्क्रुद्धो नागान् सत्रे सह द्विजैः ॥ 16 ॥
श्लोक 12.6.17
सर्पसत्रे समिद्धाग्नौ दह्यमानान् महोरगान् । दृष्ट्वेन्द्रं भयसंविग्नस् तक्षकः शरणं ययौ ॥ 17 ॥
श्लोक 12.6.18
अपश्यंस् तक्षकं तत्र राजा पारीक्षितो द्विजान् । उवाच तक्षकः कस्मान् न दह्येतोरगाधमः ॥ 18 ॥
श्लोक 12.6.19
तं गोपायति राजेन्द्र शक्रः शरणम् आगतम् । तेन संस्तम्भितः सर्पस् तस्मान् नाग्नौ पतत्य् असौ ॥ 19 ॥
श्लोक 12.6.20
पारीक्षित इति श्रुत्वा प्राहर्त्विज उदारधीः । सहेन्द्रस् तक्षको विप्रा नाग्नौ किम् इति पात्यते ॥ 20 ॥
श्लोक 12.6.21
तच् छ्रुत्वाजुहुवुर् विप्राः सहेन्द्रं तक्षकं मखे । तक्षकाशु पतस्वेह सहेन्द्रेण मरुत्वता ॥ 21 ॥
श्लोक 12.6.22
इति ब्रह्मोदिताक्षेपैः स्थानाद् इन्द्रः प्रचालितः । बभूव सम्भ्रान्तमतिः सविमानः सतक्षकः ॥ 22 ॥
श्लोक 12.6.23
तं पतन्तं विमानेन सहतक्षकम् अम्बरात् । विलोक्याङ्गिरसः प्राह राजानं तं बृहस्पतिः ॥ 23 ॥
श्लोक 12.6.24
नैष त्वया मनुष्येन्द्र वधम् अर्हति सर्पराट् । अनेन पीतम् अमृतम् अथ वा अजरामरः ॥ 24 ॥
श्लोक 12.6.25
जीवितं मरणं जन्तोर् गतिः स्वेनैव कर्मणा । राजंस् ततो ऽन्यो नास्त्य् अस्य प्रदाता सुखदुःखयोः ॥ 25 ॥
श्लोक 12.6.26
सर्पचौराग्निविद्युद्भ्यः क्षुत्तृद्व्याध्य्आदिभिर् नृप । पञ्चत्वम् ऋच्छते जन्तुर् भुङ्क्त आरब्धकर्म तत् ॥ 26 ॥
श्लोक 12.6.27
तस्मात् सत्रम् इदं राजन् संस्थीयेताभिचारिकम् । सर्पा अनागसो दग्धा जनैर् दिष्टं हि भुज्यते ॥ 27 ॥
श्लोक 12.6.28
इत्य् उक्तः स तथेत्य् आह महर्षेर् मानयन् वचः । सर्पसत्राद् उपरतः पूजयाम् आस वाक्पतिम् ॥ 28 ॥
श्लोक 12.6.29
सैषा विष्णोर् महामायाबाध्ययालक्षणा यया । मुह्यन्त्य् अस्यैवात्मभूता भूतेषु गुणवृत्तिभिः ॥ 29 ॥
श्लोक 12.6.30
न यत्र दम्भीत्य् अभया विराजिता मायात्मवादे ऽसकृद् आत्मवादिभिः । न यद् विवादो विविधस् तद्आश्रयो मनश् च सङ्कल्पविकल्पवृत्ति यत् ॥ 30 ॥
श्लोक 12.6.31
न यत्र सृज्यं सृजतोभयोः परं श्रेयश् च जीवस् त्रिभिर् अन्वितस् त्व् अहम् । तद् एतद् उत्सादितबाध्यबाधकं निषिध्य चोर्मीन् विरमेत तन् मुनिः ॥ 31 ॥
श्लोक 12.6.32
परं पदं वैष्णवम् आमनन्ति तद् यन् नेति नेतीत्य् अतद्उत्सिसृक्षवः । विसृज्य दौरात्म्यम् अनन्यसौहृदा हृदोपगुह्यावसितं समाहितैः ॥ 32 ॥
श्लोक 12.6.33
त एतद् अधिगच्छन्ति विष्णोर् यत् परमं पदम् । अहं ममेति दौर्जन्यं न येषां देहगेहजम् ॥ 33 ॥
श्लोक 12.6.34
अतिवादांस् तितिक्षेत नावमन्येत कञ्चन । न चेमं देहम् आश्रित्य वैरं कुर्वीत केनचित् ॥ 34 ॥
श्लोक 12.6.35
नमो भगवते तस्मै कृष्णायाकुण्ठमेधसे । यत्पादाम्बुरुहध्यानात् संहिताम् अध्यगाम् इमाम् ॥ 35 ॥
श्लोक 12.6.36
पैलादिभिर् व्यासशिष्यैर् वेदाचार्यैर् महात्मभिः । वेदाश् च कथिता व्यस्ता एतत् सौम्याभिधेहि नः ॥ 36 ॥
श्लोक 12.6.37
समाहितात्मनो ब्रह्मन् ब्रह्मणः परमेष्ठिनः । हृद्य् आकाशाद् अभून् नादो वृत्तिरोधाद् विभाव्यते ॥ 37 ॥
श्लोक 12.6.38
यद्उपासनया ब्रह्मन् योगिनो मलम् आत्मनः । द्रव्यक्रियाकारकाख्यं धूत्वा यान्त्य् अपुनर्भवम् ॥ 38 ॥
श्लोक 12.6.39
ततो ऽभूत् त्रिवृद् ओंकारो यो ऽव्यक्तप्रभवः स्वराट् । यत् तल् लिङ्गं भगवतो ब्रह्मणः परमात्मनः ॥ 39 ॥
श्लोक 12.6.40
शृणोति य इमं स्फोटं सुप्तश्रोत्रे च शून्यदृक् । येन वाग् व्यज्यते यस्य व्यक्तिर् आकाश आत्मनः ॥ 40 ॥
श्लोक 12.6.41
स्वधाम्नो ब्राह्मणः साक्षाद् वाचकः परमात्मनः । स सर्वमन्त्रोपनिषद् वेदबीजं सनातनम् ॥ 41 ॥
श्लोक 12.6.42
तस्य ह्य् आसंस् त्रयो वर्णा अकाराद्या भृगूद्वह । धार्यन्ते यैस् त्रयो भावा गुणनामार्थवृत्तयः ॥ 42 ॥
श्लोक 12.6.43
ततो ऽक्षरसमाम्नायम् असृजद् भगवान् अजः । अन्तस्थोष्मस्वरस्पर्शह्रस्वदीर्घादिलक्षणम् ॥ 43 ॥
श्लोक 12.6.44
तेनासौ चतुरो वेदांश् चतुर्भिर् वदनैर् विभुः । सव्याहृतिकान् सोंकारांश् चातुर्होत्रविवक्षया ॥ 44 ॥
श्लोक 12.6.45
पुत्रान् अध्यापयत् तांस् तु ब्रह्मर्षीन् ब्रह्मकोविदान् । ते तु धर्मोपदेष्टारः स्वपुत्रेभ्यः समादिशन् ॥ 45 ॥
श्लोक 12.6.46
ते परम्परया प्राप्तास् तत्तच्छिष्यैर् धृतव्रतैः । चतुर्युगेष्व् अथ व्यस्ता द्वापरादौ महर्षिभिः ॥ 46 ॥
श्लोक 12.6.47
क्षीणायुषः क्षीणसत्त्वान् दुर्मेधान् वीक्ष्य कालतः । वेदान् ब्रह्मर्षयो व्यस्यन् हृदिस्थाच्युतचोदिताः ॥ 47 ॥
श्लोक 12.6.48
अस्मिन्न् अप्य् अन्तरे ब्रह्मन् भगवान् लोकभावनः । ब्रह्मेशाद्यैर् लोकपालैर् याचितो धर्मगुप्तये ॥ 48 ॥
श्लोक 12.6.49
पराशरात् सत्यवत्याम् अंशांशकलया विभुः । अवतीर्णो महाभाग वेदं चक्रे चतुर्विधम् ॥ 49 ॥
श्लोक 12.6.50
ऋग्अथर्वयजुःसाम्नां राशीर् उद्धृत्य वर्गशः । चतस्रः संहिताश् चक्रे मन्त्रैर् मणिगणा इव ॥ 50 ॥
श्लोक 12.6.51
तासां स चतुरः शिष्यान् उपाहूय महामतिः । एकैकां संहितां ब्रह्मन्न् एकैकस्मै ददौ विभुः ॥ 51 ॥
श्लोक 12.6.52
पैलाय संहिताम् आद्यां बह्वृचाख्यां उवाच ह । वैशम्पायनसंज्ञाय निगदाख्यं यजुर्गणम् ॥ 52 ॥
श्लोक 12.6.53
साम्नां जैमिनये प्राह तथा छन्दोगसंहिताम् । अथर्वाङ्गिरसीं नाम स्वशिष्याय सुमन्तवे ॥ 53 ॥
श्लोक 12.6.54
पैलः स्वसंहिताम् ऊचे इन्द्रप्रमितये मुनिः । बाष्कलाय च सो ऽप्य् आह शिष्येभ्यः संहितां स्वकाम् ॥ 54 ॥
श्लोक 12.6.55
चतुर्धा व्यस्य बोध्याय याज्ञवल्क्याय भार्गव । पराशरायाग्निमित्र इन्द्रप्रमितिर् आत्मवान् ॥ 55 ॥
श्लोक 12.6.56
अध्यापयत् संहितां स्वां माण्डूकेयम् ऋषिं कविम् । तस्य शिष्यो देवमित्रः सौभर्य्आदिभ्य ऊचिवान् ॥ 56 ॥
श्लोक 12.6.57
शाकल्यस् तत्सुतः स्वां तु पञ्चधा व्यस्य संहिताम् । वात्स्यमुद्गलशालीयगोखल्यशिशिरेष्व् अधात् ॥ 57 ॥
श्लोक 12.6.58
जातूकर्ण्यश् च तच्छिष्यः सनिरुक्तां स्वसंहिताम् । बलाकपैलजाबालविरजेभ्यो ददौ मुनिः ॥ 58 ॥
श्लोक 12.6.59
बाष्कलिः प्रतिशाखाभ्यो वालखिल्याख्यसंहिताम् । चक्रे वालायनिर् भज्यः काशारश् चैव तां दधुः ॥ 59 ॥
श्लोक 12.6.60
बह्वृचाः संहिता ह्य् एता एभिर् ब्रह्मर्षिभिर् धृताः । श्रुत्वैतच्छन्दसां व्यासं सर्वपापैः प्रमुच्यते ॥ 60 ॥
श्लोक 12.6.61
वैशम्पायनशिष्या वै चरकाध्वर्यवो ऽभवन् । यच् चेरुर् ब्रह्महत्यांहः क्षपणं स्वगुरोर् व्रतम् ॥ 61 ॥
श्लोक 12.6.62
याज्ञवल्क्यश् च तच्छिष्य आहाहो भगवन् कियत् । चरितेनाल्पसाराणां चरिष्ये ऽहं सुदुश्चरम् ॥ 62 ॥
श्लोक 12.6.63
इत्य् उक्तो गुरुर् अप्य् आह कुपितो याह्य् अलं त्वया । विप्रावमन्त्रा शिष्येण मद्अधीतं त्यजाश्व् इति ॥ 63 ॥
श्लोक 12.6.64
देवरातसुतः सो ऽपि छर्दित्वा यजुषां गणम् । ततो गतो ऽथ मुनयो ददृशुस् तान् यजुर्गणान् ॥ 64 ॥
श्लोक 12.6.65
यजूंषि तित्तिरा भूत्वा तल्लोलुपतयाददुः । तैत्तिरीया इति यजुःशाखा आसन् सुपेशलाः ॥ 65 ॥
श्लोक 12.6.66
याज्ञवल्क्यस् ततो ब्रह्मंश् छन्दांस्य् अधि गवेषयन् । गुरोर् अविद्यमानानि सूपतस्थे ऽर्कम् ईश्वरम् ॥ 66 ॥
श्लोक 12.6.67
ॐ नमो भगवते आदित्यायाखिलजगताम् आत्मस्वरूपेण कालस्वरूपेण चतुर्विधभूतनिकायानां ब्रह्मादिस्तम्बपर्यन्तानाम् अन्तर्हृदयेषु बहिर् अपि चाकाश इवोपाधिनाव्यवधीयमानो भवान् एक एव क्षणलवनिमेषावयवोपचितसंवत्सरगणेनापाम् आदानविसर्गाभ्याम् इमां लोकयात्राम् अनुवहति ॥ 67 ॥
श्लोक 12.6.68
यद् उ ह वाव विबुधर्षभ सवितर् अदस् तपत्य् अनुसवनम् अहर् अहर् आम्नायविधिनोपतिष्ठमानानाम् अखिलदुरितवृजिनबीजावभर्जन भगवतः समभिधीमहि तपन मण्डलम् ॥ 68 ॥
श्लोक 12.6.69
य इह वाव स्थिरचरनिकराणां निजनिकेतनानां मनइन्द्रियासुगणान् अनात्मनः स्वयम् आत्मान्तर्यामी प्रचोदयति ॥ 69 ॥
श्लोक 12.6.70
य एवेमं लोकम् अतिकरालवदनान्धकारसंज्ञाजगरग्रहगिलितं मृतकम् इव विचेतनम् अवलोक्यानुकम्पया परमकारुणिक ईक्षयैवोत्थाप्याहर् अहर् अनुसवनं श्रेयसि स्वधर्माख्यात्मावस्थने प्रवर्तयति ॥ 70 ॥
श्लोक 12.6.71
अवनिपतिर् इवासाधूनां भयम् उदीरयन्न् अटति परित आशापालैस् तत्र तत्र कमलकोशाञ्जलिभिर् उपहृतार्हणः ॥ 71 ॥
श्लोक 12.6.72
अथ ह भगवंस् तव चरणनलिनयुगलं त्रिभुवनगुरुभिर् अभिवन्दितम् अहम् अयातयामयजुष्काम उपसरामीति ॥ 72 ॥
श्लोक 12.6.73
एवं स्तुतः स भगवान् वाजिरूपधरो रविः । यजूंष्य् अयातयामानि मुनये ऽदात् प्रसादितः ॥ 73 ॥
श्लोक 12.6.74
यजुर्भिर् अकरोच् छाखा दश पञ्च शतैर् विभुः । जगृहुर् वाजसन्यस् ताः काण्वमाध्यन्दिनादयः ॥ 74 ॥
श्लोक 12.6.75
जैमिनेः समगस्यासीत् सुमन्तुस् तनयो मुनिः । सुत्वांस् तु तत्सुतस् ताभ्याम् एकैकां प्राह संहिताम् ॥ 75 ॥
श्लोक 12.6.76
सुकर्मा चापि तच्छिष्यः सामवेदतरोर् महान् । सहस्रसंहिताभेदं चक्रे साम्नां ततो द्विज ॥ 76 ॥
श्लोक 12.6.77
हिरण्यनाभः कौशल्यः पौष्यञ्जिश् च सुकर्मणः । शिष्यौ जगृहतुश् चान्य आवन्त्यो ब्रह्मवित्तमः ॥ 77 ॥
श्लोक 12.6.78
उदीच्याः सामगाः शिष्या आसन् पञ्चशतानि वै । पौष्यञ्ज्य्आवन्त्ययोश् चापि तांश् च प्राच्यान् प्रचक्षते ॥ 78 ॥
श्लोक 12.6.79
लौगाक्षिर् माङ्गलिः कुल्यः कुशीदः कुक्षिर् एव च । पौष्यञ्जिसिष्या जगृहुः संहितास् ते शतं शतम् ॥ 79 ॥
श्लोक 12.6.80
कृतो हिरण्यनाभस्य चतुर्विंशति संहिताः । शिष्य ऊचे स्वशिष्येभ्यः शेषा आवन्त्य आत्मवान् ॥ 80 ॥