मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत द्वादश स्कन्ध अध्याय 7

श्रीमद्भागवत द्वादश स्कन्ध अध्याय 7 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 12.7.1

अथर्ववित् सुमन्तुश् च शिष्यम् अध्यापयत् स्वकाम् । संहितां सो ऽपि पथ्याय वेददर्शाय चोक्तवान् ॥ 1 ॥

श्लोक 12.7.2

शौक्लायनिर् ब्रह्मबलिर् मोदोषः पिप्पलायनिः । वेददर्शस्य शिष्यास् ते पथ्यशिष्यान् अथो शृणु । कुमुदः शुनको ब्रह्मन् जाजलिश् चाप्य् अथर्ववित् ॥ 2 ॥

श्लोक 12.7.3

बभ्रुः शिष्यो ऽथान्गिरसः सैन्धवायन एव च । अधीयेतां संहिते द्वे सावर्णाद्यास् तथापरे ॥ 3 ॥

श्लोक 12.7.4

नक्षत्रकल्पः शान्तिश् च कश्यपाङ्गिरसादयः । एते आथर्वणाचार्याः शृणु पौराणिकान् मुने ॥ 4 ॥

श्लोक 12.7.5

त्रय्यारुणिः कश्यपश् च सावर्णिर् अकृतव्रनः । वैशम्पायनहारीतौ षड् वै पौराणिका इमे ॥ 5 ॥

श्लोक 12.7.6

अधीयन्त व्यासशिष्यात् संहितां मत्पितुर् मुखात् । एकैकाम् अहम् एतेषां शिष्यः सर्वाः समध्यगाम् ॥ 6 ॥

श्लोक 12.7.7

कश्यपो ऽहं च सावर्णी रामशिष्यो ऽकृतव्रनः । अधीमहि व्यासशिष्याच् चत्वारो मूलसंहिताः ॥ 7 ॥

श्लोक 12.7.8

पुराणलक्षणं ब्रह्मन् ब्रह्मर्षिभिर् निरूपितम् । शृणुष्व बुद्धिम् आश्रित्य वेदशास्त्रानुसारतः ॥ 8 ॥

श्लोक 12.7.9

सर्गो ऽस्याथ विसर्गश् च वृत्तिरक्षान्तराणि च । वंशो वंशानुचरीतं संस्था हेतुर् अपाश्रयः ॥ 9 ॥

श्लोक 12.7.10

दशभिर् लक्षणैर् युक्तं पुराणं तद्विदो विदुः । केचित् पञ्चविधं ब्रह्मन् महद्अल्पव्यवस्थया ॥ 10 ॥

श्लोक 12.7.11

अव्याकृतगुणक्षोभान् महतस् त्रिवृतो ऽहमः । भूतसूक्ष्मेन्द्रियार्थानां सम्भवः सर्ग उच्यते ॥ 11 ॥

श्लोक 12.7.12

पुरुषानुगृहीतानाम् एतेषां वासनामयः । विसर्गो ऽयं समाहारो बीजाद् बीजं चराचरम् ॥ 12 ॥

श्लोक 12.7.13

वृत्तिर् भूतानि भूतानां चराणाम् अचराणि च । कृता स्वेन नृणां तत्र कामाच् चोदनयापि वा ॥ 13 ॥

श्लोक 12.7.14

रक्षाच्युतावतारेहा विश्वस्यानु युगे युगे । तिर्यङ्मर्त्यर्षिदेवेषु हन्यन्ते यैस् त्रयीद्विषः ॥ 14 ॥

श्लोक 12.7.15

मन्वन्तरं मनुर् देवा मनुपुत्राः सुरेश्वराः । र्षयो ऽंशावताराश् च हरेः षड्विधम् उच्यते ॥ 15 ॥

श्लोक 12.7.16

राज्ञां ब्रह्मप्रसूतानां वंशस् त्रैकालिको ऽन्वयः । वंशानुचरितं तेषाम् वृत्तं वंशधरास् च ये ॥ 16 ॥

श्लोक 12.7.17

नैमित्तिकः प्राकृतिको नित्य आत्यन्तिको लयः । संस्थेति कविभिः प्रोक्तश् चतुर्धास्य स्वभावतः ॥ 17 ॥

श्लोक 12.7.18

हेतुर् जीवो ऽस्य सर्गादेर् अविद्याकर्मकारकः । यं चानुशायिनं प्राहुर् अव्याकृतम् उतापरे ॥ 18 ॥

श्लोक 12.7.19

व्यतिरेकान्वयो यस्य जाग्रत्स्वप्नसुषुप्तिषु । मायामयेषु तद् ब्रह्म जीववृत्तिष्व् अपाश्रयः ॥ 19 ॥

श्लोक 12.7.20

पदार्थेषु यथा द्रव्यं सन्मात्रं रूपनामसु । बीजादिपञ्चतान्तासु ह्य् अवस्थासु युतायुतम् ॥ 20 ॥

श्लोक 12.7.21

विरमेत यदा चित्तं हित्वा वृत्तित्रयं स्वयम् । योगेर्ल वा तदात्मानं वेदेहाया निवर्तते ॥ 21 ॥

श्लोक 12.7.22

एवं लक्षणलक्ष्याणि पुराणानि पुराविदः । मुनयो ऽष्टादश प्राहुः क्षुल्लकानि महान्ति च ॥ 22 ॥

श्लोक 12.7.23

ब्राह्मं पाद्मं वैष्णवं च शैवं लैङ्गं सगारुडं । नारदीयं भागवतम् आग्नेयं स्कान्दसंज्ञितम् ॥ 23 ॥

श्लोक 12.7.24

भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं सवामनम् । वाराहं मात्स्यं कौर्मं च ब्रह्माण्डाख्यम् इति त्रिषट् ॥ 24 ॥

श्लोक 12.7.25

ब्रह्मन्न् इदं समाख्यातं शाखाप्रणयनं मुनेः । शिष्यशिष्यप्रशिष्याणां ब्रह्मतेजोविवर्धनम् ॥ 25 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ