श्रीमद्भागवत द्वादश स्कन्ध अध्याय 8
श्रीमद्भागवत द्वादश स्कन्ध अध्याय 8 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 12.8.1
सूत जीव चिरं साधो वद नो वदतां वर । तमस्य् अपारे भ्रमतां नॄणां त्वं पारदर्शनः ॥ 1 ॥
श्लोक 12.8.2
आहुश् चिरायुषम् ऋषिं मृकण्डुतनयं जनाः । यः कल्पान्ते ह्य् उर्वरितो येन ग्रस्तम् इदं जगत् ॥ 2 ॥
श्लोक 12.8.3
स वा अस्मत्कुलोत्पन्नः कल्पे ऽस्मिन् भार्गवर्षभः । नैवाधुनापि भूतानां सम्प्लवः को ऽपि जायते ॥ 3 ॥
श्लोक 12.8.4
एक एवार्णवे भ्राम्यन् ददर्श पुरुषं किल । वटपत्रपुटे तोकं शयानं त्व् एकम् अद्भुतम् ॥ 4 ॥
श्लोक 12.8.5
एष नः संशयो भूयान् सूत कौतूहलं यतः । तं नश् छिन्धि महायोगिन् पुराणेष्व् अपि सम्मतः ॥ 5 ॥
श्लोक 12.8.6
प्रश्नस् त्वया महर्षे ऽयं कृतो लोकभ्रमापहः । नारायणकथा यत्र गीता कलिमलापहा ॥ 6 ॥
श्लोक 12.8.7
प्राप्तद्विजातिसंस्कारो मार्कण्डेयः पितुः क्रमात् । छन्दांस्य् अधीत्य धर्मेण तपःस्वाध्यायसंयुतः ॥ 7 ॥
श्लोक 12.8.8
बृहद्व्रतधरः शान्तो जटिलो वल्कलाम्बरः । बिभ्रत् कमण्डलुं दण्डम् उपवीतं समेखलम् ॥ 8 ॥
श्लोक 12.8.9
कृष्णाजिनं साक्षसूत्रं कुशांश् च नियमर्द्धये । अग्न्य्अर्कगुरुविप्रात्मस्व् अर्चयन् सन्ध्ययोर् हरिम् ॥ 9 ॥
श्लोक 12.8.10
सायं प्रातः स गुरवे भैक्ष्यम् आहृत्य वाग्यतः । बुभुजे गुर्व्अनुज्ञातः सकृन् नो चेद् उपोषितः ॥ 10 ॥
श्लोक 12.8.11
एवं तपःस्वाध्यायपरो वर्षाणाम् अयुतायुतम् । आराधयन् हृषीकेशं जिग्ये मृत्युं सुदुर्जयम् ॥ 11 ॥
श्लोक 12.8.12
ब्रह्मा भृगुर् भवो दक्षो ब्रह्मपुत्राश् च ये ऽपरे । नृदेवपितृभूतानि तेनासन्न् अतिविस्मिताः ॥ 12 ॥
श्लोक 12.8.13
इत्थं बृहद्व्रतधरस् तपःस्वाध्यायसंयमैः । दध्याव् अधोक्षजं योगी ध्वस्तक्लेशान्तरात्मना ॥ 13 ॥
श्लोक 12.8.14
तस्यैवं युञ्जतश् चित्तं महायोगेन योगिनः । व्यतीयाय महान् कालो मन्वन्तरषड्आत्मकः ॥ 14 ॥
श्लोक 12.8.15
एतत् पुरन्दरो ज्ञात्वा सप्तमे ऽस्मिन् किलान्तरे । तपोविशङ्कितो ब्रह्मन्न् आरेभे तद्विघातनम् ॥ 15 ॥
श्लोक 12.8.16
गन्धर्वाप्सरसः कामं वसन्तमलयानिलौ । मुनये प्रेषयाम् आस रजस्तोकमदौ तथा ॥ 16 ॥
श्लोक 12.8.17
ते वै तद्आश्रमं जग्मुर् हिमाद्रेः पार्श्व उत्तरे । पुष्पभद्रा नदी यत्र चित्राख्या च शिला विभो ॥ 17 ॥
श्लोक 12.8.18
तद्आश्रमपदं पुण्यं पुण्यद्रुमलताञ्चितम् । पुण्यद्विजकुलाकीऋनं पुण्यामलजलाशयम् ॥ 18 ॥
श्लोक 12.8.19
मत्तभ्रमरसङ्गीतं मत्तकोकिलकूजितम् । मत्तबर्हिनटाटोपं मत्तद्विजकुलाकुलम् ॥ 19 ॥
श्लोक 12.8.20
वायुः प्रविष्ट आदाय हिमनिर्झरशीकरान् । सुमनोभिः परिष्वक्तो ववाव् उत्तम्भयन् स्मरम् ॥ 20 ॥
श्लोक 12.8.21
उद्यच्चन्द्रनिशावक्त्रः प्रवालस्तबकालिभिः । गोपद्रुमलताजालैस् तत्रासीत् कुसुमाकरः ॥ 21 ॥
श्लोक 12.8.22
अन्वीयमानो गन्धर्वैर् गीतवादित्रयूथकैः । अदृश्यतात्तचापेषुः स्वःस्त्रीयूथपतिः स्मरः ॥ 22 ॥
श्लोक 12.8.23
हुत्वाग्निं समुपासीनं ददृशुः शक्रकिङ्कराः । मीलिताक्षं दुराधर्षं मूर्तिमन्तम् इवानलम् ॥ 23 ॥
श्लोक 12.8.24
ननृतुस् तस्य पुरतः स्त्रियो ऽथो गायका जगुः । मृदङ्गवीणापणवैर् वाद्यं चक्रुर् मनोरमम् ॥ 24 ॥
श्लोक 12.8.25
सन्दधे ऽस्त्रं स्वधनुषि कामः पञ्चमुखं तदा । मधुर् मनो रजस्तोक इन्द्रभृत्या व्यकम्पयन् ॥ 25 ॥
श्लोक 12.8.26
क्रीडन्त्याः पुञ्जिकस्थल्याः कन्दुकैः स्तनगौरवात् । भृशम् उद्विग्नमध्यायाः केशविस्रंसितस्रजः ॥ 26 ॥
श्लोक 12.8.27
इतस् ततो भ्रमद्दृष्टेश् चलन्त्या अनु कन्दुकम् । वायुर् जहार तद्वासः सूक्ष्मं त्रुटितमेखलम् ॥ 27 ॥
श्लोक 12.8.28
विससर्ज तदा बाणं मत्वा तं स्वजितं स्मरः । सर्वं तत्राभवन् मोघम् अनीशस्य यथोद्यमः ॥ 28 ॥
श्लोक 12.8.29
त इत्थम् अपकुर्वन्तो मुनेस् तत्तेजसा मुने । दह्यमाना निववृतुः प्रबोध्याहिम् इवार्भकाः ॥ 29 ॥
श्लोक 12.8.30
इतीन्द्रानुचरैर् ब्रह्मन् धर्षितो ऽपि महामुनिः । यन् नागाद् अहमो भावं न तच् चित्रं महत्सु हि ॥ 30 ॥
श्लोक 12.8.31
दृष्ट्वा निस्तेजसं कामं सगणं भगवान् स्वराट् । श्रुत्वानुभावं ब्रह्मर्षेर् विस्मयं समगात् परम् ॥ 31 ॥
श्लोक 12.8.32
तस्यैवं युञ्जतश् चित्तं तपःस्वाध्यायसंयमैः । अनुग्रहायाविरासीन् नरनारायणो हरिः ॥ 32 ॥
श्लोक 12.8.33
तौ शुक्लकृष्णौ नवकञ्जलोचनौ चतुर्भुजौ रौरववल्कलाम्बरौ &अम्प्; पवित्रपाणी उपवीतकं त्रिवृत् कमण्डलुं दण्डम् ऋजुं च वैणवम् ॥ 33 ॥
श्लोक 12.8.34
पद्माक्षमालाम् उत जन्तुमार्जनं वेदं च साक्षात् तप एव रूपिणौ । तपत्तडिद्वर्णपिशङ्गरोचिषा प्रांशू दधानौ विबुधर्षभार्चितौ ॥ 34 ॥
श्लोक 12.8.35
ते वै भगवतो रूपे नरनारायणाव् ऋषी । दृष्ट्वोत्थायादरेणोच्चैर् ननामाङ्गेन दण्डवत् ॥ 35 ॥
श्लोक 12.8.36
स तत्सन्दर्शनानन्दनिर्वृतात्मेन्द्रियाशयः । हृष्टरोमाश्रुपूर्णाक्षो न सेहे ताव् उदीक्षितुम् ॥ 36 ॥
श्लोक 12.8.37
उत्थाय प्राञ्जलिः प्रह्व औत्सुक्याद् आश्लिषन्न् इव । नमो नम इतीशानौ बभाशे गद्गदाक्षरम् ॥ 37 ॥
श्लोक 12.8.38
तयोर् आसनम् आदाय पादयोर् अवनिज्य च । अर्हणेनानुलेपेन धूपमाल्यैर् अपूजयत् ॥ 38 ॥
श्लोक 12.8.39
सुखम् आसनम् आसीनौ प्रसादाभिमुखौ मुनी । पुनर् आनम्य पादाभ्यां गरिष्ठाव् इदम् अब्रवीत् ॥ 39 ॥
श्लोक 12.8.40
किं वर्णये तव विभो यद्उदीरितो ऽसुः संस्पन्दते तम् अनु वाङ्मनइन्द्रियाणि । स्पन्दन्ति वै तनुभृताम् अजशर्वयोश् च स्वस्याप्य् अथापि भजताम् असि भावबन्धुः ॥ 40 ॥
श्लोक 12.8.41
मूर्ती इमे भगवतो भगवंस् त्रिलोक्याः क्षेमाय तापविरमाय च मृत्युजित्यै । नाना बिभर्ष्य् अवितुम् अन्यतनूर् यथेदं सृष्ट्वा पुनर् ग्रससि सर्वम् इवोर्णनाभिः ॥ 41 ॥
श्लोक 12.8.42
तस्यावितुः स्थिरचरेशितुर् अङ्घ्रिमूलं यत्स्थं न कर्मगुणकालरजः स्पृशन्ति । यद् वै स्तुवन्ति निनमन्ति यजन्त्य् अभीक्ष्णं ध्यायन्ति वेदहृदया मुनयस् तद्आप्त्यै ॥ 42 ॥
श्लोक 12.8.43
नान्यं तवाङ्घ्र्य्उपनयाद् अपवर्गमूर्तेः क्षेमं जनस्य परितोभिय ईश विद्मः । ब्रह्मा बिभेत्य् अलम् अतो द्विपरार्धधिष्ण्यः कालस्य ते किम् उत तत्कृतभौतिकानाम् ॥ 43 ॥
श्लोक 12.8.44
तद् वै भजाम्य् ऋतधियस् तव पादमूलं हित्वेदम् आत्मच्छदि चात्मगुरोः परस्य । देहाद्य् अपार्थम् असद् अन्त्यम् अभिज्ञमात्रं विन्देत ते तर्हि सर्वमनीषितार्थम् ॥ 44 ॥
श्लोक 12.8.45
सत्त्वं रजस् तम इतीश तवात्मबन्धो मायामयाः स्थितिलयोदयहेतवो ऽस्य । लीला धृता यद् अपि सत्त्वमयी प्रशान्त्यै नान्ये नृणां व्यसनमोहभियश् च याभ्याम् ॥ 45 ॥
श्लोक 12.8.46
तस्मात् तवेह भगवन्न् अथ तावकानां शुक्लां तनुं स्वदयितां कुशला भजन्ति । यत् सात्वताः पुरुषरूपम् उशन्ति सत्त्वं लोको यतो ऽभयम् उतात्मसुखं न चान्यत् ॥ 46 ॥
श्लोक 12.8.47
तस्मै नमो भगवते पुरुषाय भूम्ने विश्वाय विश्वगुरवे परदैवताय । नारायणाय ऋषये च नरोत्तमाय हंसाय संयतगिरे निगमेश्वराय ॥ 47 ॥
श्लोक 12.8.48
यं वै न वेद वितथाक्षपथैर् भ्रमद्धीः सन्तं स्वकेष्व् असुषु हृद्य् अपि दृक्पथेषु । तन्माययावृतमतिः स उ एव साक्षाद् आद्यस् तवाखिलगुरोर् उपसाद्य वेदम् ॥ 48 ॥
श्लोक 12.8.49
यद्दर्शनं निगम आत्मरहःप्रकाशं मुह्यन्ति यत्र कवयो ऽजपरा यतन्तः । तं सर्ववादविषयप्रतिरूपशीलं वन्दे महापुरुषम् आत्मनिगूढबोधम् ॥ 49 ॥