श्रीमद्भागवत द्वितीय स्कन्ध अध्याय 5
श्रीमद्भागवत द्वितीय स्कन्ध अध्याय 5 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 2.5.1
देवदेव नमस्ते ऽस्तु भूतभावन पूर्वज । तद्विजानीहि यज् ज्ञानम् आत्मतत्त्वनिदर्शनम् ॥ 1 ॥
श्लोक 2.5.2
यद्रूपं यदधिष्ठानं यतः सृष्टम् इदं प्रभो । यत् संस्थं यत् परं यच् च तत् तत्त्वं वद तत्त्वतः ॥ 2 ॥
श्लोक 2.5.3
सर्वं ह्येतद्भवान् वेद भूतभव्यभवत्प्रभुः । करामलकवद्विश्वं विज्ञानावसितं तव ॥ 3 ॥
श्लोक 2.5.4
यद्विज्ञानो यदाधारो यत्परस्त्वं यदात्मकः । एकः सृजसि भूतानि भूतैरेवात्ममायया ॥ 4 ॥
श्लोक 2.5.5
आत्मन् भावयसे तानि न पराभावयन् स्वयम् । आत्मशक्तिम् अवष्टभ्य ऊर्णनाभिरिवाक्लमः ॥ 5 ॥
श्लोक 2.5.6
नाहं वेद परं ह्यस्मिन् नापरं न समं विभो । नामरूपगुणैर्भाव्यं सदसत् किञ्चिदन्यतः ॥ 6 ॥
श्लोक 2.5.7
स भवान् अचरद्घोरं यत् तपः सुसमाहितः । तेन खेदयसे नस्त्वं पराशङ्कां च यच्छसि ॥ 7 ॥
श्लोक 2.5.8
एतन् मे पृच्छतः सर्वं सर्वज्ञ सकलेश्वर । विजानीहि यथैवेदम् अहं बुध्ये ऽनुशासितः ॥ 8 ॥
श्लोक 2.5.9
सम्यक् कारुणिकस्येदं वत्स ते विचिकित्सितम् । यदहं चोदितः सौम्य भगवद्वीर्यदर्शने ॥ 9 ॥
श्लोक 2.5.10
नानृतं तव तच् चापि यथा मां प्रब्रवीषि भोः । अविज्ञाय परं मत्त एतावत् त्वं यतो हि मे ॥ 10 ॥
श्लोक 2.5.11
येन स्वरोचिषा विश्वं रोचितं रोचयाम्यहम् । यथार्को ऽग्निर्यथा सोमो यथर्क्षग्रहतारकाः ॥ 11 ॥
श्लोक 2.5.12
तस्मै नमो भगवते वासुदेवाय धीमहि । यन्मायया दुर्जयया मां वदन्ति जगद्गुरुम् ॥ 12 ॥
श्लोक 2.5.13
विलज्जमानया यस्य स्थातुम् ईक्षापथे ऽमुया । विमोहिता विकत्थन्ते ममाहम् इति दुर्धियः ॥ 13 ॥
श्लोक 2.5.14
द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । वासुदेवात् परो ब्रह्मन् न चान्यो ऽर्थो ऽस्ति तत्त्वतः ॥ 14 ॥
श्लोक 2.5.15
नारायणपरा वेदा देवा नारायणाङ्गजाः । नारायणपरा लोका नारायणपरा मखाः ॥ 15 ॥
श्लोक 2.5.16
नारायणपरो योगो नारायणपरं तपः । नारायणपरं ज्ञानं नारायणपरा गतिः ॥ 16 ॥
श्लोक 2.5.17
तस्यापि द्रष्टुरीशस्य कूटस्थस्याखिलात्मनः । सृज्यं सृजामि सृष्टो ऽहम् ईक्षयैवाभिचोदितः ॥ 17 ॥
श्लोक 2.5.18
सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रयः । स्थितिसर्गनिरोधेषु गृहीता मायया विभोः ॥ 18 ॥
श्लोक 2.5.19
कार्यकारणकर्तृत्वे द्रव्यज्ञानक्रियाश्रयाः । बध्नन्ति नित्यदा मुक्तं मायिनं पुरुषं गुणाः ॥ 19 ॥
श्लोक 2.5.20
स एष भगवांल् लिङ्गैस्त्रिभिरेतैरधोक्षजः । स्वलक्षितगतिर्ब्रह्मन् सर्वेषां मम चेश्वरः ॥ 20 ॥
श्लोक 2.5.21
कालं कर्म स्वभावं च मायेशो मायया स्वया । आत्मन् यदृच्छया प्राप्तं विबुभूषुरुपाददे ॥ 21 ॥
श्लोक 2.5.22
कालाद्गुणव्यतिकरः परिणामः स्वभावतः । कर्मणो जन्म महतः पुरुषाधिष्ठितादभूत् ॥ 22 ॥
श्लोक 2.5.23
महतस्तु विकुर्वाणाद्रजःसत्त्वोपबृंहितात् । तमःप्रधानस्त्वभवद्द्रव्यज्ञानक्रियात्मकः ॥ 23 ॥
श्लोक 2.5.24
सो ऽहङ्कार इति प्रोक्तो विकुर्वन् समभूत् त्रिधा । वैकारिकस्तैजसश्च तामसश्चेति यद्भिदा । द्रव्यशक्तिः क्रियाशक्तिर्ज्ञानशक्तिरिति प्रभो ॥ 24 ॥
श्लोक 2.5.25
तामसादपि भूतादेर्विकुर्वाणादभून् नभः । तस्य मात्रा गुणः शब्दो लिङ्गं यद्द्रष्टृदृश्ययोः ॥ 25 ॥
श्लोक 2.5.26
नभसो ऽथ विकुर्वाणादभूत् स्पर्शगुणो ऽनिलः । परान्वयाच् छब्दवांश्च प्राण ओजः सहो बलम् ॥ 26 ॥
श्लोक 2.5.27
वायोरपि विकुर्वाणात् कालकर्मस्वभावतः । उदपद्यत तेजो वै रूपवत् स्पर्शशब्दवत् ॥ 27 ॥
श्लोक 2.5.28
तेजसस्तु विकुर्वाणादासीदम्भो रसात्मकम् । रूपवत् स्पर्शवच् चाम्भो घोषवच् च परान्वयात् ॥ 28 ॥
श्लोक 2.5.29
विशेषस्तु विकुर्वाणादम्भसो गन्धवान् अभूत् । परान्वयाद्रसस्पर्श शब्दरूपगुणान्वितः ॥ 29 ॥
श्लोक 2.5.30
वैकारिकान् मनो जज्ञे देवा वैकारिका दश । दिग्वातार्कप्रचेतो ऽश्वि वह्नीन्द्रोपेन्द्रमित्रकाः ॥ 30 ॥
श्लोक 2.5.31
तैजसात् तु विकुर्वाणादिन्द्रियाणि दशाभवन् । ज्ञानशक्तिः क्रियाशक्तिर्बुद्धिः प्राणश्च तैजसौ । श्रोत्रं त्वग्घ्राणदृग्जिह्वा वाग्दोर्मेढ्राङ्घ्रिपायवः ॥ 31 ॥
श्लोक 2.5.32
यदैते ऽसङ्गता भावा भूतेन्द्रियमनोगुणाः । यदायतननिर्माणे न शेकुर्ब्रह्मवित्तम ॥ 32 ॥
श्लोक 2.5.33
तदा संहत्य चान्योन्यं भगवच्छक्तिचोदिताः । सदसत्त्वम् उपादाय चोभयं ससृजुर्ह्यदः ॥ 33 ॥
श्लोक 2.5.34
वर्षपूगसहस्रान्ते तदण्डम् उदके शयम् । कालकर्मस्वभावस्थो जीवो ञ्जीवम् अजीवयत् ॥ 34 ॥
श्लोक 2.5.35
स एव पुरुषस्तस्मादण्डं निर्भिद्य निर्गतः । सहस्रोर्वङ्घ्रिबाह्वक्षः सहस्राननशीर्षवान् ॥ 35 ॥
श्लोक 2.5.36
यस्येहावयवैर्लोकान् कल्पयन्ति मनीषिणः । कट्यादिभिरधः सप्त सप्तोर्ध्वं जघनादिभिः ॥ 36 ॥
श्लोक 2.5.37
पुरुषस्य मुखं ब्रह्म क्षत्रम् एतस्य बाहवः । ऊर्वोर्वैश्यो भगवतः पद्भ्यां शूद्रो व्यजायत ॥ 37 ॥
श्लोक 2.5.38
भूर्लोकः कल्पितः पद्भ्यां भुवर्लोको ऽस्य नाभितः । हृदा स्वर्लोक उरसा महर्लोको महात्मनः ॥ 38 ॥
श्लोक 2.5.39
ग्रीवायां जनलोको ऽस्य तपोलोकः स्तनद्वयात् । मूर्धभिः सत्यलोकस्तु ब्रह्मलोकः सनातनः ॥ 39 ॥
श्लोक 2.5.40
तत्कट्यां चातलं कॢप्तम् ऊरुभ्यां वितलं विभोः । जानुभ्यां सुतलं शुद्धं जङ्घाभ्यां तु तलातलम् ॥ 40 ॥
श्लोक 2.5.41
महातलं तु गुल्फाभ्यां प्रपदाभ्यां रसातलम् । पातालं पादतलत इति लोकमयः पुमान् ॥ 41 ॥
श्लोक 2.5.42
भूर्लोकः कल्पितः पद्भ्यां भुवर्लोको ऽस्य नाभितः । स्वर्लोकः कल्पितो मूर्ध्ना इति वा लोककल्पना ॥ 42 ॥