श्रीमद्भागवत द्वितीय स्कन्ध अध्याय 6
श्रीमद्भागवत द्वितीय स्कन्ध अध्याय 6 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 2.6.1
वाचां वह्नेर्मुखं क्षेत्रं छन्दसां सप्त धातवः । हव्यकव्यामृतान्नानां जिह्वा सर्वरसस्य च ॥ 1 ॥
श्लोक 2.6.2
सर्वासूनां च वायोश्च तन्नासे परमायणे । अश्विनोरोषधीनां च घ्राणो मोदप्रमोदयोः ॥ 2 ॥
श्लोक 2.6.3
रूपाणां तेजसां चक्षुर्दिवः सूर्यस्य चाक्षिणी । कर्णौ दिशां च तीर्थानां श्रोत्रम् आकाशशब्दयोः । तद्गात्रं वस्तुसाराणां सौभगस्य च भाजनम् ॥ 3 ॥
श्लोक 2.6.4
त्वग् अस्य स्पर्शवायोश्च सर्वमेधस्य चैव हि । रोमाण्युद्भिज्जजातीनां यैर्वा यज्ञस्तु सम्भृतः ॥ 4 ॥
श्लोक 2.6.5
केशश्मश्रुनखान्यस्य शिलालोहाभ्रविद्युताम् । बाहवो लोकपालानां प्रायशः क्षेमकर्मणाम् ॥ 5 ॥
श्लोक 2.6.6
विक्रमो भूर्भुवः स्वश्च क्षेमस्य शरणस्य च । सर्वकामवरस्यापि हरेश्चरण आस्पदम् ॥ 6 ॥
श्लोक 2.6.7
अपां वीर्यस्य सर्गस्य पर्जन्यस्य प्रजापतेः । पुंसः शिश्न उपस्थस्तु प्रजात्यानन्दनिर्वृतेः ॥ 7 ॥
श्लोक 2.6.8
पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद । हिंसाया निरृतेर्मृत्योर्निरयस्य गुदं स्मृतः ॥ 8 ॥
श्लोक 2.6.9
पराभूतेरधर्मस्य तमसश्चापि पश्चिमः । नाड्यो नदनदीनां च गोत्राणाम् अस्थिसंहतिः ॥ 9 ॥
श्लोक 2.6.10
अव्यक्तरससिन्धूनां भूतानां निधनस्य च । उदरं विदितं पुंसो हृदयं मनसः पदम् ॥ 10 ॥
श्लोक 2.6.11
धर्मस्य मम तुभ्यं च कुमाराणां भवस्य च । विज्ञानस्य च सत्त्वस्य परस्यात्मा परायणम् ॥ 11 ॥
श्लोक 2.6.12
अहं भवान् भवश्चैव त इमे मुनयो ऽग्रजाः । सुरासुरनरा नागाः खगा मृगसरीसृपाः ॥ 12 ॥
श्लोक 2.6.13
गन्धर्वाप्सरसो यक्षा रक्षोभूतगणोरगाः । पशवः पितरः सिद्धा विद्याध्राश्चारणा द्रुमाः ॥ 13 ॥
श्लोक 2.6.14
अन्ये च विविधा जीवाजलस्थलनभौकसः । ग्रहर्क्षकेतवस्तारास्तडितः स्तनयित्नवः ॥ 14 ॥
श्लोक 2.6.15
सर्वं पुरुष एवेदं भूतं भव्यं भवच् च यत् । तेनेदम् आवृतं विश्वं वितस्तिम् अधितिष्ठति ॥ 15 ॥
श्लोक 2.6.16
स्वधिष्ण्यं प्रतपन् प्राणो बहिश्च प्रतपत्यसौ । एवं विराजं प्रतपंस्तपत्यन्तर्बहिः पुमान् ॥ 16 ॥
श्लोक 2.6.17
सो ऽमृतस्याभयस्येशो मर्त्यम् अन्नं यदत्यगात् । महिमैष ततो ब्रह्मन् पुरुषस्य दुरत्ययः ॥ 17 ॥
श्लोक 2.6.18
पादेषु सर्वभूतानि पुंसः स्थितिपदो विदुः । अमृतं क्षेमम् अभयं त्रिमूर्ध्नो ऽधायि मूर्धसु ॥ 18 ॥
श्लोक 2.6.19
पादास्त्रयो बहिश्चासन्न् अप्रजानां य आश्रमाः । अन्तस्त्रिलोक्यास्त्वपरो गृहमेधो ऽबृहद्व्रतः ॥ 19 ॥
श्लोक 2.6.20
सृती विचक्रमे विश्वम् साशनानशने उभे । यदविद्या च विद्या च पुरुषस्तूभयाश्रयः ॥ 20 ॥
श्लोक 2.6.21
यस्मादण्डं विराड्जज्ञे भूतेन्द्रियगुणात्मकः । तद्द्रव्यम् अत्यगाद्विश्वं गोभिः सूर्य इवातपन् ॥ 21 ॥
श्लोक 2.6.22
यदास्य नाभ्यान् नलिनादहम् आसं महात्मनः । नाविदं यज्ञसम्भारान् पुरुषावयवान् ऋते ॥ 22 ॥
श्लोक 2.6.23
तेषु यज्ञस्य पशवः सवनस्पतयः कुशाः । इदं च देवयजनं कालश्चोरुगुणान्वितः ॥ 23 ॥
श्लोक 2.6.24
वस्तून्योषधयः स्नेहा रसलोहमृदो जलम् । ऋचो यजूंषि सामानि चातुर्होत्रं च सत्तम ॥ 24 ॥
श्लोक 2.6.25
नामधेयानि मन्त्राश्च दक्षिणाश्च व्रतानि च । देवतानुक्रमः कल्पः सङ्कल्पस्तन्त्रम् एव च ॥ 25 ॥
श्लोक 2.6.26
गतयो मतयश्चैव प्रायश्चित्तं समर्पणम् । पुरुषावयवैरेते सम्भाराः सम्भृता मया ॥ 26 ॥
श्लोक 2.6.27
इति सम्भृतसम्भारः पुरुषावयवैरहम् । तम् एव पुरुषं यज्ञं तेनैवायजम् ईश्वरम् ॥ 27 ॥
श्लोक 2.6.28
ततस्ते भ्रातर इमे प्रजानां पतयो नव । अयजन् व्यक्तम् अव्यक्तं पुरुषं सुसमाहिताः ॥ 28 ॥
श्लोक 2.6.29
ततश्च मनवः काले ईजिरे ऋषयो ऽपरे । पितरो विबुधा दैत्या मनुष्याः क्रतुभिर्विभुम् ॥ 29 ॥
श्लोक 2.6.30
नारायणे भगवति तदिदं विश्वम् आहितम् । गृहीतमायोरुगुणः सर्गादावगुणः स्वतः ॥ 30 ॥
श्लोक 2.6.31
सृजामि तन्नियुक्तो ऽहं हरो हरति तद्वशः । विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक् ॥ 31 ॥
श्लोक 2.6.32
इति ते ऽभिहितं तात यथेदम् अनुपृच्छसि । नान्यद्भगवतः किञ्चिद्भाव्यं सदसदात्मकम् ॥ 32 ॥
श्लोक 2.6.33
न भारती मे ऽङ्ग मृषोपलक्ष्यते न वै क्वचिन् मे मनसो मृषा गतिः । न मे हृषीकाणि पतन्त्यसत्पथे यन् मे हृदौत्कण्ठ्यवता धृतो हरिः ॥ 33 ॥
श्लोक 2.6.34
सो ऽहं समाम्नायमयस्तपोमयः प्रजापतीनाम् अभिवन्दितः पतिः । आस्थाय योगं निपुणं समाहितस्तं नाध्यगच्छं यत आत्मसम्भवः ॥ 34 ॥
श्लोक 2.6.35
नतो ऽस्म्यहं तच्चरणं समीयुषां भवच्छिदं स्वस्त्ययनं सुमङ्गलम् । यो ह्यात्ममायाविभवं स्म पर्यगाद् यथा नभः स्वान्तम् अथापरे कुतः ॥ 35 ॥
श्लोक 2.6.36
नाहं न यूयं यदृतां गतिं विदुर् न वामदेवः किम् उतापरे सुराः । तन्मायया मोहितबुद्धयस्त्विदं विनिर्मितं चात्मसमं विचक्ष्महे ॥ 36 ॥
श्लोक 2.6.37
यस्यावतारकर्माणि गायन्ति ह्यस्मदादयः । न यं विदन्ति तत्त्वेन तस्मै भगवते नमः ॥ 37 ॥
श्लोक 2.6.38
स एष आद्यः पुरुषः कल्पे कल्पे सृजत्यजः । आत्मात्मन्यात्मनात्मानं स संयच्छति पाति च ॥ 38 ॥
श्लोक 2.6.39
विशुद्धं केवलं ज्ञानं प्रत्यक् सम्यग् अवस्थितम् । सत्यं पूर्णम् अनाद्यन्तं निर्गुणं नित्यम् अद्वयम् ॥ 39 ॥
श्लोक 2.6.40
ऋषे विदन्ति मुनयः प्रशान्तात्मेन्द्रियाशयाः । यदा तदेवासत्तर्कैस्तिरोधीयेत विप्लुतम् ॥ 40 ॥
श्लोक 2.6.41
आद्यो ऽवतारः पुरुषः परस्य कालः स्वभावः सदसन्मनश्च । द्रव्यं विकारो गुण इन्द्रियाणि विराट् स्वराट् स्थास्नु चरिष्णु भूम्नः ॥ 41 ॥
श्लोक 2.6.42
अहं भवो यज्ञ इमे प्रजेशा दक्षादयो ये भवदादयश्च । स्वर्लोकपालाः खगलोकपाला नृलोकपालास्तललोकपालाः ॥ 42 ॥
श्लोक 2.6.43
गन्धर्वविद्याधरचारणेशा ये यक्षरक्षोरगनागनाथाः । ये वा ऋषीणाम् ऋषभाः पित्णां दैत्येन्द्रसिद्धेश्वरदानवेन्द्राः । अन्ये च ये प्रेतपिशाचभूत कूष्माण्डयादोमृगपक्ष्यधीशाः ॥ 43 ॥
श्लोक 2.6.44
यत् किञ्च लोके भगवन् महस्वद् ओजःसहस्वद्बलवत् क्षमावत् । श्रीह्रीविभूत्यात्मवदद्भुतार्णं तत्त्वं परं रूपवदस्वरूपम् ॥ 44 ॥
श्लोक 2.6.45
प्राधान्यतो यान् ऋष आमनन्ति लीलावतारान् पुरुषस्य भूम्नः । आपीयतां कर्णकषायशोषान् अनुक्रमिष्ये त इमान् सुपेशान् ॥ 45 ॥