मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत द्वितीय स्कन्ध अध्याय 7

श्रीमद्भागवत द्वितीय स्कन्ध अध्याय 7 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 2.7.1

यत्रोद्यतः क्षितितलोद्धरणाय बिभ्रत् क्रौडीं तनुं सकलयज्ञमयीम् अनन्तः । अन्तर्महार्णव उपागतम् आदिदैत्यं तं दंष्ट्रयाद्रिम् इव वज्रधरो ददार ॥ 1 ॥

श्लोक 2.7.2

जातो रुचेरजनयत् सुयमान् सुयज्ञ आकूतिसूनुरमरान् अथ दक्षिणायाम् । लोकत्रयस्य महतीम् अहरद्यदार्तिं स्वायम्भुवेन मनुना हरिरित्यनूक्तः ॥ 2 ॥

श्लोक 2.7.3

जज्ञे च कर्दमगृहे द्विज देवहूत्यां स्त्रीभिः समं नवभिरात्मगतिं स्वमात्रे । ऊचे ययात्मशमलं गुणसङ्गपङ्कम् अस्मिन् विधूय कपिलस्य गतिं प्रपेदे ॥ 3 ॥

श्लोक 2.7.4

अत्रेरपत्यम् अभिकाङ्क्षत आह तुष्टो दत्तो मयाहम् इति यद्भगवान् स दत्तः । यत्पादपङ्कजपरागपवित्रदेहा योगर्द्धिम् आपुरुभयीं यदुहैहयाद्याः ॥ 4 ॥

श्लोक 2.7.5

तप्तं तपो विविधलोकसिसृक्षया मे आदौ सनात् स्वतपसः स चतुःसनो ऽभूत् । प्राक्कल्पसम्प्लवविनष्टम् इहात्मतत्त्वं सम्यग् जगाद मुनयो यदचक्षतात्मन् ॥ 5 ॥

श्लोक 2.7.6

धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां नारायणो नर इति स्वतपःप्रभावः । दृष्ट्वात्मनो भगवतो नियमावलोपं देव्यस्त्वनङ्गपृतना घटितुं न शेकुः ॥ 6 ॥

श्लोक 2.7.7

कामं दहन्ति कृतिनो ननु रोषदृष्ट्या रोषं दहन्तम् उत ते न दहन्त्यसह्यम् । सो ऽयं यदन्तरम् अलं प्रविशन् बिभेति कामः कथं नु पुनरस्य मनः श्रयेत ॥ 7 ॥

श्लोक 2.7.8

विद्धः सपत्न्युदितपत्रिभिरन्ति राज्ञो बालो ऽपि सन्न् उपगतस्तपसे वनानि । तस्मा अदाद्ध्रुवगतिं गृणते प्रसन्नो दिव्याः स्तुवन्ति मुनयो यदुपर्यधस्तात् ॥ 8 ॥

श्लोक 2.7.9

यद्वेनम् उत्पथगतं द्विजवाक्यवज्र निष्प्लुष्टपौरुषभगं निरये पतन्तम् । त्रात्वार्थितो जगति पुत्रपदं च लेभे दुग्धा वसूनि वसुधा सकलानि येन ॥ 9 ॥

श्लोक 2.7.10

नाभेरसावृषभ आस सुदेविसूनुर् यो वै चचार समदृग् जडयोगचर्याम् । यत् पारमहंस्यम् ऋषयः पदम् आमनन्ति स्वस्थः प्रशान्तकरणः परिमुक्तसङ्गः ॥ 10 ॥

श्लोक 2.7.11

सत्रे ममास भगवान् हयशीरषाथो साक्षात् स यज्ञपुरुषस्तपनीयवर्णः । छन्दोमयो मखमयो ऽखिलदेवतात्मा वाचो बभूवुरुशतीः श्वसतो ऽस्य नस्तः ॥ 11 ॥

श्लोक 2.7.12

मत्स्यो युगान्तसमये मनुनोपलब्धः क्षोणीमयो निखिलजीवनिकायकेतः । विस्रंसितान् उरुभये सलिले मुखान् मे आदाय तत्र विजहार ह वेदमार्गान् ॥ 12 ॥

श्लोक 2.7.13

क्षीरोदधावमरदानवयूथपानाम् उन्मथ्नताम् अमृतलब्धय आदिदेवः । पृष्ठेन कच्छपवपुर्विदधार गोत्रं निद्राक्षणो ऽद्रिपरिवर्तकषाणकण्डूः ॥ 13 ॥

श्लोक 2.7.14

त्रैपिष्टपोरुभयहा स नृसिंहरूपं कृत्वा भ्रमद्भ्रुकुटिदंष्ट्रकरालवक्त्रम् । दैत्येन्द्रम् आशु गदयाभिपतन्तम् आराद् ऊरौ निपात्य विददार नखैः स्फुरन्तम् ॥ 14 ॥

श्लोक 2.7.15

अन्तःसरस्युरुबलेन पदे गृहीतो ग्राहेण यूथपतिरम्बुजहस्त आर्तः । आहेदम् आदिपुरुषाखिललोकनाथ तीर्थश्रवः श्रवणमङ्गलनामधेय ॥ 15 ॥

श्लोक 2.7.16

श्रुत्वा हरिस्तम् अरणार्थिनम् अप्रमेयश् चक्रायुधः पतगराजभुजाधिरूढः । चक्रेण नक्रवदनं विनिपाट्य तस्माद् धस्ते प्रगृह्य भगवान् कृपयोज्जहार ॥ 16 ॥

श्लोक 2.7.17

ज्यायान् गुणैरवरजो ऽप्यदितेः सुतानां लोकान् विचक्रम इमान् यदथाधियज्ञः । क्ष्मां वामनेन जगृहे त्रिपदच्छलेन याच्ञाम् ऋते पथि चरन् प्रभुभिर्न चाल्यः ॥ 17 ॥

श्लोक 2.7.18

नार्थो बलेरयम् उरुक्रमपादशौचम् आपः शिखाधृतवतो विबुधाधिपत्यम् । यो वै प्रतिश्रुतम् ऋते न चिकीर्षदन्यद् आत्मानम् अङ्ग मनसा हरये ऽभिमेने ॥ 18 ॥

श्लोक 2.7.19

तुभ्यं च नारद भृशं भगवान् विवृद्ध भावेन साधु परितुष्ट उवाच योगम् । ज्ञानं च भागवतम् आत्मसतत्त्वदीपं यद्वासुदेवशरणा विदुरञ्जसैव ॥ 19 ॥

श्लोक 2.7.20

चक्रं च दिक्ष्वविहतं दशसु स्वतेजो मन्वन्तरेषु मनुवंशधरो बिभर्ति । दुष्टेषु राजसु दमं व्यदधात् स्वकीर्तिं सत्ये त्रिपृष्ठ उशतीं प्रथयंश्चरित्रैः ॥ 20 ॥

श्लोक 2.7.21

धन्वन्तरिश्च भगवान् स्वयम् एव कीर्तिर् नाम्ना नृणां पुरुरुजां रुज आशु हन्ति । यज्ञे च भागम् अमृतायुरवावरुन्ध आयुष्यवेदम् अनुशास्त्यवतीर्य लोके ॥ 21 ॥

श्लोक 2.7.22

क्षत्रं क्षयाय विधिनोपभृतं महात्मा ब्रह्मध्रुग् उज्झितपथं नरकार्तिलिप्सु । उद्धन्त्यसाववनिकण्टकम् उग्रवीर्यस् त्रिःसप्तकृत्व उरुधारपरश्वधेन ॥ 22 ॥

श्लोक 2.7.23

अस्मत्प्रसादसुमुखः कलया कलेश इक्ष्वाकुवंश अवतीर्य गुरोर्निदेशे । तिष्ठन् वनं सदयितानुज आविवेश यस्मिन् विरुध्य दशकन्धर आर्तिम् आर्च्छत् ॥ 23 ॥

श्लोक 2.7.24

यस्मा अदादुदधिरूढभयाङ्गवेपो मार्गं सपद्यरिपुरं हरवद्दिधक्षोः । दूरे सुहृन्मथितरोषसुशोणदृष्ट्या तातप्यमानमकरोरगनक्रचक्रः ॥ 24 ॥

श्लोक 2.7.25

वक्षःस्थलस्पर्शरुग्नमहेन्द्रवाह दन्तैर्विडम्बितककुब्जुष ऊढहासम् । सद्यो ऽसुभिः सह विनेष्यति दारहर्तुर् विस्फूर्जितैर्धनुष उच्चरतो ऽधिसैन्ये ॥ 25 ॥

श्लोक 2.7.26

भूमेः सुरेतरवरूथविमर्दितायाः क्लेशव्ययाय कलया सितकृष्णकेशः । जातः करिष्यति जनानुपलक्ष्यमार्गः कर्माणि चात्ममहिमोपनिबन्धनानि ॥ 26 ॥

श्लोक 2.7.27

तोकेन जीवहरणं यदुलूकिकायास् त्रैमासिकस्य च पदा शकटो ऽपवृत्तः । यद्रिङ्गतान्तरगतेन दिविस्पृशोर्वा उन्मूलनं त्वितरथार्जुनयोर्न भाव्यम् ॥ 27 ॥

श्लोक 2.7.28

यद्वै व्रजे व्रजपशून् विषतोयपीतान् पालांस्त्वजीवयदनुग्रहदृष्टिवृष्ट्या । तच्छुद्धये ऽतिविषवीर्यविलोलजिह्वम् उच्चाटयिष्यदुरगं विहरन् ह्रदिन्याम् ॥ 28 ॥

श्लोक 2.7.29

तत् कर्म दिव्यम् इव यन् निशि निःशयानं दावाग्निना शुचिवने परिदह्यमाने । उन्नेष्यति व्रजम् अतो ऽवसितान्तकालं नेत्रे पिधाप्य सबलो ऽनधिगम्यवीर्यः ॥ 29 ॥

श्लोक 2.7.30

गृह्णीत यद्यदुपबन्धम् अमुष्य माता शुल्बं सुतस्य न तु तत् तदमुष्य माति । यज् जृम्भतो ऽस्य वदने भुवनानि गोपी संवीक्ष्य शङ्कितमनाः प्रतिबोधितासीत् ॥ 30 ॥

श्लोक 2.7.31

नन्दं च मोक्ष्यति भयाद्वरुणस्य पाशाद् गोपान् बिलेषु पिहितान् मयसूनुना च । अह्न्यापृतं निशि शयानम् अतिश्रमेण लोकं विकुण्ठम् उपनेष्यति गोकुलं स्म ॥ 31 ॥

श्लोक 2.7.32

गोपैर्मखे प्रतिहते व्रजविप्लवाय देवे ऽभिवर्षति पशून् कृपया रिरक्षुः । धर्तोच्छिलीन्ध्रम् इव सप्तदिनानि सप्त वर्षो महीध्रम् अनघैककरे सलीलम् ॥ 32 ॥

श्लोक 2.7.33

क्रीडन् वने निशि निशाकररश्मिगौर्यां रासोन्मुखः कलपदायतमूर्च्छितेन । उद्दीपितस्मररुजां व्रजभृद्वधूनां हर्तुर्हरिष्यति शिरो धनदानुगस्य ॥ 33 ॥

श्लोक 2.7.34

ये च प्रलम्बखरदर्दुरकेश्यरिष्ट मल्लेभकंसयवनाः कपिपौण्ड्रकाद्याः । अन्ये च शाल्वकुजबल्वलदन्तवक्र सप्तोक्षशम्बरविदूरथरुक्मिमुख्याः ॥ 34 ॥

श्लोक 2.7.35

ये वा मृधे समितिशालिन आत्तचापाः काम्बोजमत्स्यकुरुसृञ्जयकैकयाद्याः । यास्यन्त्यदर्शनम् अलं बलपार्थभीम व्याजाह्वयेन हरिणा निलयं तदीयम् ॥ 35 ॥

श्लोक 2.7.36

कालेन मीलितधियाम् अवमृश्य न्णां स्तोकायुषां स्वनिगमो बत दूरपारः । आविर्हितस्त्वनुयुगं स हि सत्यवत्यां वेदद्रुमं विटपशो विभजिष्यति स्म ॥ 36 ॥

श्लोक 2.7.37

देवद्विषां निगमवर्त्मनि निष्ठितानां पूर्भिर्मयेन विहिताभिरदृश्यतूर्भिः । लोकान् घ्नतां मतिविमोहम् अतिप्रलोभं वेषं विधाय बहु भाष्यत औपधर्म्यम् ॥ 37 ॥

श्लोक 2.7.38

यर्ह्यालयेष्वपि सतां न हरेः कथाः स्युः पाषण्डिनो द्विजजना वृषला नृदेवाः । स्वाहा स्वधा वषडिति स्म गिरो न यत्र शास्ता भविष्यति कलेर्भगवान् युगान्ते ॥ 38 ॥

श्लोक 2.7.39

सर्गे तपो ऽहम् ऋषयो नव ये प्रजेशाः स्थाने ऽथ धर्ममखमन्वमरावनीशाः । अन्ते त्वधर्महरमन्युवशासुराद्या मायाविभूतय इमाः पुरुशक्तिभाजः ॥ 39 ॥

श्लोक 2.7.40

विष्णोर्नु वीर्यगणनां कतमो ऽर्हतीह यः पार्थिवान्यपि कविर्विममे रजांसि । चस्कम्भ यः स्वरहसास्खलता त्रिपृष्ठं यस्मात् त्रिसाम्यसदनादुरुकम्पयानम् ॥ 40 ॥

श्लोक 2.7.41

नान्तं विदाम्यहम् अमी मुनयो ऽग्रजास्ते मायाबलस्य पुरुषस्य कुतो ऽवरा ये । गायन् गुणान् दशशतानन आदिदेवः शेषो ऽधुनापि समवस्यति नास्य पारम् ॥ 41 ॥

श्लोक 2.7.42

येषां स एष भगवान् दययेदनन्तः सर्वात्मनाश्रितपदो यदि निर्व्यलीकम् । ते दुस्तराम् अतितरन्ति च देवमायां नैषां ममाहम् इति धीः श्वशृगालभक्ष्ये ॥ 42 ॥

श्लोक 2.7.43

वेदाहम् अङ्ग परमस्य हि योगमायां यूयं भवश्च भगवान् अथ दैत्यवर्यः । पत्नी मनोः स च मनुश्च तदात्मजाश्च प्राचीनबर्हिरृभुरङ्ग उत ध्रुवश्च ॥ 43 ॥

श्लोक 2.7.44

इक्ष्वाकुरैलमुचुकुन्दविदेहगाधि रघ्वम्बरीषसगरा गयनाहुषाद्याः । मान्धात्रलर्कशतधन्वनुरन्तिदेवा देवव्रतो बलिरमूर्त्तरयो दिलीपः ॥ 44 ॥

श्लोक 2.7.45

सौभर्युतङ्कशिबिदेवलपिप्पलाद सारस्वतोद्धवपराशरभूरिषेणाः । ये ऽन्ये विभीषणहनूमदुपेन्द्रदत्त पार्थार्ष्टिषेणविदुरश्रुतदेववर्याः ॥ 45 ॥

श्लोक 2.7.46

ते वै विदन्त्यतितरन्ति च देवमायां स्त्रीशूद्रहूणशबरा अपि पापजीवाः । यद्यद्भुतक्रमपरायणशीलशिक्षास् तिर्यग्जना अपि किम् उ श्रुतधारणा ये ॥ 46 ॥

श्लोक 2.7.47

शश्वत् प्रशान्तम् अभयं प्रतिबोधमात्रं शुद्धं समं सदसतः परमात्मतत्त्वम् । शब्दो न यत्र पुरुकारकवान् क्रियार्थो माया परैत्यभिमुखे च विलज्जमाना ॥ 47 ॥

श्लोक 2.7.48

तद्वै पदं भगवतः परमस्य पुंसो ब्रह्मेति यद्विदुरजस्रसुखं विशोकम् । सध्र्यङ् नियम्य यतयो यमकर्तहेतिं जह्युः स्वराडिव निपानखनित्रम् इन्द्रः ॥ 48 ॥

श्लोक 2.7.49

स श्रेयसाम् अपि विभुर्भगवान् यतो ऽस्य भावस्वभावविहितस्य सतः प्रसिद्धिः । देहे स्वधातुविगमे ऽनुविशीर्यमाणे व्योमेव तत्र पुरुषो न विशीर्यते ञ्जः ॥ 49 ॥

श्लोक 2.7.50

सो ऽयं ते ऽभिहितस्तात भगवान् विश्वभावनः । समासेन हरेर्नान्यदन्यस्मात् सदसच् च यत् ॥ 50 ॥

श्लोक 2.7.51

इदं भागवतं नाम यन् मे भगवतोदितम् । सङ्ग्रहो ऽयं विभूतीनां त्वम् एतद्विपुली कुरु ॥ 51 ॥

श्लोक 2.7.52

यथा हरौ भगवति नृणां भक्तिर्भविष्यति । सर्वात्मन्यखिलाधारे इति सङ्कल्प्य वर्णय ॥ 52 ॥

श्लोक 2.7.53

मायां वर्णयतो ऽमुष्य ईश्वरस्यानुमोदतः । शृण्वतः श्रद्धया नित्यं माययात्मा न मुह्यति ॥ 53 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ