श्रीमद्भागवत द्वितीय स्कन्ध अध्याय 8
श्रीमद्भागवत द्वितीय स्कन्ध अध्याय 8 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 2.8.1
ब्रह्मणा चोदितो ब्रह्मन् गुणाख्याने ऽगुणस्य च । यस्मै यस्मै यथा प्राह नारदो देवदर्शनः ॥ 1 ॥
श्लोक 2.8.2
एतद्वेदितुम् इच्छामि तत्त्वं तत्त्वविदां वर । हरेरद्भुतवीर्यस्य कथा लोकसुमङ्गलाः ॥ 2 ॥
श्लोक 2.8.3
कथयस्व महाभाग यथाहम् अखिलात्मनि । कृष्णे निवेश्य निःसङ्गं मनस्त्यक्ष्ये कलेवरम् ॥ 3 ॥
श्लोक 2.8.4
शृण्वतः श्रद्धया नित्यं गृणतश्च स्वचेष्टितम् । कालेन नातिदीर्घेण भगवान् विशते हृदि ॥ 4 ॥
श्लोक 2.8.5
प्रविष्टः कर्णरन्ध्रेण स्वानां भावसरोरुहम् । धुनोति शमलं कृष्णः सलिलस्य यथा शरत् ॥ 5 ॥
श्लोक 2.8.6
धौतात्मा पुरुषः कृष्ण पादमूलं न मुञ्चति । मुक्तसर्वपरिक्लेशः पान्थः स्वशरणं यथा ॥ 6 ॥
श्लोक 2.8.7
यदधातुमतो ब्रह्मन् देहारम्भो ऽस्य धातुभिः । यदृच्छया हेतुना वा भवन्तो जानते यथा ॥ 7 ॥
श्लोक 2.8.8
आसीद्यदुदरात् पद्मं लोकसंस्थानलक्षणम् । यावान् अयं वै पुरुष इयत्तावयवैः पृथक् । तावान् असाविति प्रोक्तः संस्थावयववान् इव ॥ 8 ॥
श्लोक 2.8.9
अजः सृजति भूतानि भूतात्मा यदनुग्रहात् । ददृशे येन तद्रूपं नाभिपद्मसमुद्भवः ॥ 9 ॥
श्लोक 2.8.10
स चापि यत्र पुरुषो विश्वस्थित्युद्भवाप्ययः । मुक्त्वात्ममायां मायेशः शेते सर्वगुहाशयः ॥ 10 ॥
श्लोक 2.8.11
पुरुषावयवैर्लोकाः सपालाः पूर्वकल्पिताः । लोकैरमुष्यावयवाः सपालैरिति शुश्रुम ॥ 11 ॥
श्लोक 2.8.12
यावान् कल्पो विकल्पो वा यथा कालो ऽनुमीयते । भूतभव्यभवच्छब्द आयुर्मानं च यत् सतः ॥ 12 ॥
श्लोक 2.8.13
कालस्यानुगतिर्या तु लक्ष्यते ऽण्वी बृहत्यपि । यावत्यः कर्मगतयो यादृशीर्द्विजसत्तम ॥ 13 ॥
श्लोक 2.8.14
यस्मिन् कर्मसमावायो यथा येनोपगृह्यते । गुणानां गुणिनां चैव परिणामम् अभीप्सताम् ॥ 14 ॥
श्लोक 2.8.15
भूपातालककुब्व्योम ग्रहनक्षत्रभूभृताम् । सरित्समुद्रद्वीपानां सम्भवश्चैतदोकसाम् ॥ 15 ॥
श्लोक 2.8.16
प्रमाणम् अण्डकोशस्य बाह्याभ्यन्तरभेदतः । महतां चानुचरितं वर्णाश्रमविनिश्चयः ॥ 16 ॥
श्लोक 2.8.17
युगानि युगमानं च धर्मो यश्च युगे युगे । अवतारानुचरितं यदाश्चर्यतमं हरेः ॥ 17 ॥
श्लोक 2.8.18
नृणां साधारणो धर्मः सविशेषश्च यादृशः । श्रेणीनां राजर्षीणां च धर्मः कृच्छ्रेषु जीवताम् ॥ 18 ॥
श्लोक 2.8.19
तत्त्वानां परिसङ्ख्यानं लक्षणं हेतुलक्षणम् । पुरुषाराधनविधिर्योगस्याध्यात्मिकस्य च ॥ 19 ॥
श्लोक 2.8.20
योगेश्वरैश्वर्यगतिर्लिङ्गभङ्गस्तु योगिनाम् । वेदोपवेदधर्माणाम् इतिहासपुराणयोः ॥ 20 ॥
श्लोक 2.8.21
सम्प्लवः सर्वभूतानां विक्रमः प्रतिसङ्क्रमः । इष्टापूर्तस्य काम्यानां त्रिवर्गस्य च यो विधिः ॥ 21 ॥
श्लोक 2.8.22
यो वानुशायिनां सर्गः पाषण्डस्य च सम्भवः । आत्मनो बन्धमोक्षौ च व्यवस्थानं स्वरूपतः ॥ 22 ॥
श्लोक 2.8.23
यथात्मतन्त्रो भगवान् विक्रीडत्यात्ममायया । विसृज्य वा यथा मायाम् उदास्ते साक्षिवद्विभुः ॥ 23 ॥
श्लोक 2.8.24
सर्वम् एतच् च भगवन् पृच्छतो मे ऽनुपूर्वशः । तत्त्वतो ऽर्हस्युदाहर्तुं प्रपन्नाय महामुने ॥ 24 ॥
श्लोक 2.8.25
अत्र प्रमाणं हि भवान् परमेष्ठी यथात्मभूः । अपरे चानुतिष्ठन्ति पूर्वेषां पूर्वजैः कृतम् ॥ 25 ॥
श्लोक 2.8.26
न मे ऽसवः परायन्ति ब्रह्मन्न् अनशनादमी । पिबतो ञ्च्युतपीयूषम् तद्वाक्याब्धिविनिःसृतम् ॥ 26 ॥
श्लोक 2.8.27
स उपामन्त्रितो राज्ञा कथायाम् इति सत्पतेः । ब्रह्मरातो भृशं प्रीतो विष्णुरातेन संसदि ॥ 27 ॥
श्लोक 2.8.28
प्राह भागवतं नाम पुराणं ब्रह्मसम्मितम् । ब्रह्मणे भगवत्प्रोक्तं ब्रह्मकल्प उपागते ॥ 28 ॥
श्लोक 2.8.29
यद्यत् परीक्षिदृषभः पाण्डूनाम् अनुपृच्छति । आनुपूर्व्येण तत् सर्वम् आख्यातुम् उपचक्रमे ॥ 29 ॥