मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत तृतीय स्कन्ध अध्याय 11

श्रीमद्भागवत तृतीय स्कन्ध अध्याय 11 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 3.11.1

चरमः सद्विशेषाणाम् अनेको ऽसंयुतः सदा । परमाणुः स विज्ञेयो नृणाम् ऐक्यभ्रमो यतः ॥ 1 ॥

श्लोक 3.11.2

सत एव पदार्थस्य स्वरूपावस्थितस्य यत् । कैवल्यं परममहान् अविशेषो निरन्तरः ॥ 2 ॥

श्लोक 3.11.3

एवं कालो ऽप्य् अनुमितः सौक्ष्म्ये स्थौल्ये च सत्तम । संस्थानभुक्त्या भगवान् अव्यक्तो व्यक्तभुग् विभुः ॥ 3 ॥

श्लोक 3.11.4

स कालः परमाणुर् वै यो भुङ्क्ते परमाणुताम् । सतो ऽविशेषभुग् यस् तु स कालः परमो महान् ॥ 4 ॥

श्लोक 3.11.5

अणुर् द्वौ परमाणू स्यात् त्रसरेणुस् त्रयः स्मृतः । जालार्करश्म्य्अवगतः खम् एवानुपतन्न् अगात् ॥ 5 ॥

श्लोक 3.11.6

त्रसरेणुत्रिकं भुङ्क्ते यः कालः स त्रुटिः स्मृतः । शतभागस् तु वेधः स्यात् तैस् त्रिभिस् तु लवः स्मृतः ॥ 6 ॥

श्लोक 3.11.7

निमेषस् त्रिलवो ज्ञेय आम्नातस् ते त्रयः क्षणः । क्षणान् पञ्च विदुः काष्ठां लघु ता दश पञ्च च ॥ 7 ॥

श्लोक 3.11.8

लघूनि वै समाम्नाता दश पञ्च च नाडिका । ते द्वे मुहूर्तः प्रहरः षड् यामः सप्त वा नृणाम् ॥ 8 ॥

श्लोक 3.11.9

द्वादशार्धपलोन्मानं चतुर्भिश् चतुर्अङ्गुलैः । स्वर्णमाषैः कृतच्छिद्रं यावत् प्रस्थजलप्लुतम् ॥ 9 ॥

श्लोक 3.11.10

यामाश् चत्वारश् चत्वारो मर्त्यानाम् अहनी उभे । पक्षः पञ्चदशाहानि शुक्लः कृष्णश् च मानद ॥ 10 ॥

श्लोक 3.11.11

तयोः समुच्चयो मासः पितॄणां तद् अहर्निशम् । द्वौ ताव् ऋतुः षड् अयनं दक्षिणं चोत्तरं दिवि ॥ 11 ॥

श्लोक 3.11.12

अयने चाहनी प्राहुर् वत्सरो द्वादश स्मृतः । संवत्सरशतं न्णां परमायुर् निरूपितम् ॥ 12 ॥

श्लोक 3.11.13

ग्रहर्क्षताराचक्रस्थः परमाण्व्आदिना जगत् । संवत्सरावसानेन पर्येत्य् अनिमिषो विभुः ॥ 13 ॥

श्लोक 3.11.14

संवत्सरः परिवत्सर इडावत्सर एव च । अनुवत्सरो वत्सरश् च विदुरैवं प्रभाष्यते ॥ 14 ॥

श्लोक 3.11.15

यः सृज्यशक्तिम् उरुधोच्छ्वसयन् स्वशक्त्या पुंसो ऽभ्रमाय दिवि धावति भूतभेदः &अम्प्; कालाख्यया गुणमयं क्रतुभिर् वितन्वंस् तस्मै बलिं हरत वत्सरपञ्चकाय ॥ 15 ॥

श्लोक 3.11.16

पितृदेवमनुष्याणाम् आयुः परम् इदं स्मृतम् । परेषां गतिम् आचक्ष्व ये स्युः कल्पाद् बहिर् विदः ॥ 16 ॥

श्लोक 3.11.17

भगवान् वेद कालस्य गतिं भगवतो ननु । विश्वं विचक्षते धीरा योगराद्धेन चक्षुषा ॥ 17 ॥

श्लोक 3.11.18

कृतं त्रेता द्वापरं च कलिश् चेति चतुर्युगम् । दिव्यैर् द्वादशभिर् वर्षैः सावधानं निरूपितम् ॥ 18 ॥

श्लोक 3.11.19

चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम् । सङ्ख्यातानि सहस्राणि द्विगुणानि शतानि च ॥ 19 ॥

श्लोक 3.11.20

सन्ध्यासन्ध्यांशयोर् अन्तर् यः कालः शतसङ्ख्ययोः । तम् एवाहुर् युगं तज्ज्ञा यत्र धर्मो विधीयते ॥ 20 ॥

श्लोक 3.11.21

धर्मश् चतुष्पान् मनुजान् कृते समनुवर्तते । स एवान्येष्व् अधर्मेण व्येति पादेन वर्धता ॥ 21 ॥

श्लोक 3.11.22

त्रिलोक्या युगसाहस्रं बहिर् आब्रह्मणो दिनम् । तावत्य् एव निशा तात यन् निमीलति विश्वसृक् ॥ 22 ॥

श्लोक 3.11.23

निशावसान आरब्धो लोककल्पो ऽनुवर्तते । यावद् दिनं भगवतो मनून् भुञ्जंश् चतुर्दश ॥ 23 ॥

श्लोक 3.11.24

स्वं स्वं कालं मनुर् भुङ्क्ते साधिकां ह्य् एकसप्ततिम् । मन्वन्तरेषु मनवस् तद्वंश्या ऋषयः सुराः । भवन्ति चैव युगपत् सुरेशाश् चानु ये च तान् ॥ 24 ॥

श्लोक 3.11.25

एष दैनन्दिनः सर्गो ब्राह्मस् त्रैलोक्यवर्तनः । तिर्यङ्नृपितृदेवानां सम्भवो यत्र कर्मभिः ॥ 25 ॥

श्लोक 3.11.26

मन्वन्तरेषु भगवान् बिभ्रत् सत्त्वं स्वमूर्तिभिः । मन्व्आदिभिर् इदं विश्वम् अवत्य् उदितपौरुषः ॥ 26 ॥

श्लोक 3.11.27

तमोमात्राम् उपादाय प्रतिसंरुद्धविक्रमः । कालेनानुगताशेष आस्ते तूष्णीं दिनात्यये ॥ 27 ॥

श्लोक 3.11.28

तम् एवान्व् अपि धीयन्ते लोका भूर्आदयस् त्रयः । निशायाम् अनुवृत्तायां निर्मुक्तशशिभास्करम् ॥ 28 ॥

श्लोक 3.11.29

त्रिलोक्यां दह्यमानायां शक्त्या सङ्कर्षणाग्निना । यान्त्य् ऊष्मणा महर्लोकाज् जनं भृग्व्आदयो ऽर्दिताः ॥ 29 ॥

श्लोक 3.11.30

तावत् त्रिभुवनं सद्यः कल्पान्तैधितसिन्धवः । प्लावयन्त्य् उत्कटाटोपचण्डवातेरितोर्मयः ॥ 30 ॥

श्लोक 3.11.31

अन्तः स तस्मिन् सलिल आस्ते ऽनन्तासनो हरिः । योगनिद्रानिमीलाक्षः स्तूयमानो जनालयैः ॥ 31 ॥

श्लोक 3.11.32

एवंविधैर् अहोरात्रैः कालगत्योपलक्षितैः । अपक्षितम् इवास्यापि परमायुर् वयःशतम् ॥ 32 ॥

श्लोक 3.11.33

यद् अर्धम् आयुषस् तस्य परार्धम् अभिधीयते । पूर्वः परार्धो ऽपक्रान्तो ह्य् अपरो ऽद्य प्रवर्तते ॥ 33 ॥

श्लोक 3.11.34

पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महान् अभूत् । कल्पो यत्राभवद् ब्रह्मा शब्दब्रह्मेति यं विदुः ॥ 34 ॥

श्लोक 3.11.35

तस्यैव चान्ते कल्पो ऽभूद् यं पाद्मम् अभिचक्षते । यद् धरेर् नाभिसरस आसील् लोकसरोरुहम् ॥ 35 ॥

श्लोक 3.11.36

अयं तु कथितः कल्पो द्वितीयस्यापि भारत । वाराह इति विख्यातो यत्रासीच् छूकरो हरिः ॥ 36 ॥

श्लोक 3.11.37

कालो ऽयं द्विपरार्धाख्यो निमेष उपचर्यते । अव्याकृतस्यानन्तस्य ह्य् अनादेर् जगद्आत्मनः ॥ 37 ॥

श्लोक 3.11.38

कालो ऽयं परमाण्व्आदिर् द्विपरार्धान्त ईश्वरः । नैवेशितुं प्रभुर् भूम्न ईश्वरो धाममानिनाम् ॥ 38 ॥

श्लोक 3.11.39

विकारैः सहितो युक्तैर् विशेषादिभिर् आवृतः । आण्डकोशो बहिर् अयं पञ्चाशत्कोटिविस्तृतः ॥ 39 ॥

श्लोक 3.11.40

दशोत्तराधिकैर् यत्र प्रविष्टः परमाणुवत् । लक्ष्यते ऽन्तर्गताश् चान्ये कोटिशो ह्य् अण्डराशयः ॥ 40 ॥

श्लोक 3.11.41

तद् आहुर् अक्षरं ब्रह्म सर्वकारणकारणम् । विष्णोर् धाम परं साक्षात् पुरुषस्य महात्मनः ॥ 41 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ