मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत तृतीय स्कन्ध अध्याय 23

श्रीमद्भागवत तृतीय स्कन्ध अध्याय 23 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 3.23.1

पितृभ्यां प्रस्थिते साध्वी पतिम् इङ्गितकोविदा । नित्यं पर्यचरत् प्रीत्या भवानीव भवं प्रभुम् ॥ 1 ॥

श्लोक 3.23.2

विश्रम्भेणात्मशौचेन गौरवेण दमेन च । शुश्रूषया सौहृदेन वाचा मधुरया च भोः ॥ 2 ॥

श्लोक 3.23.3

विसृज्य कामं दम्भं च द्वेषं लोभम् अघं मदम् । अप्रमत्तोद्यता नित्यं तेजीयांसम् अतोषयत् ॥ 3 ॥

श्लोक 3.23.4

स वै देवर्षिवर्यस् तां मानवीं समनुव्रताम् । दैवाद् गरीयसः पत्युर् आशासानां महाशिषः ॥ 4 ॥

श्लोक 3.23.5

कालेन भूयसा क्षामां कर्शितां व्रतचर्यया । प्रेमगद्गदया वाचा पीडितः कृपयाब्रवीत् ॥ 5 ॥

श्लोक 3.23.6

तुष्टो ऽहम् अद्य तव मानवि मानदायाः शुश्रूषया परमया परया च भक्त्या । यो देहिनाम् अयम् अतीव सुहृत् स देहो नावेक्षितः समुचितः क्षपितुं मद्अर्थे ॥ 6 ॥

श्लोक 3.23.7

ये मे स्वधर्मनिरतस्य तपःसमाधिविद्यात्मयोगविजिता भगवत्प्रसादाः । तान् एव ते मद्अनुसेवनयावरुद्धान् दृष्टिं प्रपश्य वितराम्य् अभयान् अशोकान् ॥ 7 ॥

श्लोक 3.23.8

अन्ये पुनर् भगवतो भ्रुव उद्विजृम्भविभ्रंशितार्थरचनाः किम् उरुक्रमस्य । सिद्धासि भुङ्क्ष्व विभवान् निजधर्मदोहान् दिव्यान् नरैर् दुरधिगान् नृपविक्रियाभिः ॥ 8 ॥

श्लोक 3.23.9

एवं ब्रुवाणम् अबलाखिलयोगमायाविद्याविचक्षणम् अवेक्ष्य गताधिर् आसीत् । सम्प्रश्रयप्रणयविह्वलया गिरेषद्व्रीडावलोकविलसद्धसिताननाह ॥ 9 ॥

श्लोक 3.23.10

राद्धं बत द्विजवृषैतद् अमोघयोगमायाधिपे त्वयि विभो तद् अवैमि भर्तः । यस् ते ऽभ्यधायि समयः सकृद् अङ्गसङ्गो भूयाद् गरीयसि गुणः प्रसवः सतीनाम् ॥ 10 ॥

श्लोक 3.23.11

तत्रेतिकृत्यम् उपशिक्ष यथोपदेशं येनैष मे कर्शितो ऽतिरिरंसयात्मा । सिद्ध्येत ते कृतमनोभवधर्षिताया दीनस् तद् ईश भवनं सदृशं विचक्ष्व ॥ 11 ॥

श्लोक 3.23.12

प्रियायाः प्रियम् अन्विच्छन् कर्दमो योगम् आस्थितः । विमानं कामगं क्षत्तस् तर्ह्य् एवाविरचीकरत् ॥ 12 ॥

श्लोक 3.23.13

सर्वकामदुघं दिव्यं सर्वरत्नसमन्वितम् । सर्वर्द्ध्य्उपचयोदर्कं मणिस्तम्भैर् उपस्कृतम् ॥ 13 ॥

श्लोक 3.23.14

दिव्योपकरणोपेतं सर्वकालसुखावहम् । पट्टिकाभिः पताकाभिर् विचित्राभिर् अलङ्कृतम् ॥ 14 ॥

श्लोक 3.23.15

स्रग्भिर् विचित्रमाल्याभिर् मञ्जुशिञ्जत्षड्अङ्घ्रिभिः । दुकूलक्षौमकौशेयैर् नानावस्त्रैर् विराजितम् ॥ 15 ॥

श्लोक 3.23.16

उपर्य् उपरि विन्यस्तनिलयेषु पृथक् पृथक् । क्षिप्तैः कशिपुभिः कान्तं पर्यङ्कव्यजनासनैः ॥ 16 ॥

श्लोक 3.23.17

तत्र तत्र विनिक्षिप्तनानाशिल्पोपशोभितम् । महामरकतस्थल्या जुष्टं विद्रुमवेदिभिः ॥ 17 ॥

श्लोक 3.23.18

द्वाःसु विद्रुमदेहल्या भातं वज्रकपाटवत् । शिखरेष्व् इन्द्रनीलेषु हेमकुम्भैर् अधिश्रितम् ॥ 18 ॥

श्लोक 3.23.19

चक्षुष्मत् पद्मरागाग्र्यैर् वज्रभित्तिषु निर्मितैः । जुष्टं विचित्रवैतानैर् महार्हैर् हेमतोरणैः ॥ 19 ॥

श्लोक 3.23.20

हंसपारावतव्रातैस् तत्र तत्र निकूजितम् । कृत्रिमान् मन्यमानैः स्वान् अधिरुह्याधिरुह्य च ॥ 20 ॥

श्लोक 3.23.21

विहारस्थानविश्रामसंवेशप्राङ्गणाजिरैः । यथोपजोषं रचितैर् विस्मापनम् इवात्मनः ॥ 21 ॥

श्लोक 3.23.22

ईदृग् गृहं तत् पश्यन्तीं नातिप्रीतेन चेतसा । सर्वभूताशयाभिज्ञः प्रावोचत् कर्दमः स्वयम् ॥ 22 ॥

श्लोक 3.23.23

निमज्ज्यास्मिन् ह्रदे भीरु विमानम् इदम् आरुह । इदं शुक्लकृतं तीर्थम् आशिषां यापकं नृणाम् ॥ 23 ॥

श्लोक 3.23.24

सा तद् भर्तुः समादाय वचः कुवलयेक्षणा । सरजं बिभ्रती वासो वेणीभूतांश् च मूर्धजान् ॥ 24 ॥

श्लोक 3.23.25

अङ्गं च मलपङ्केन सञ्छन्नं शबलस्तनम् । आविवेश सरस्वत्याः सरः शिवजलाशयम् ॥ 25 ॥

श्लोक 3.23.26

सान्तः सरसि वेश्मस्थाः शतानि दश कन्यकाः । सर्वाः किशोरवयसो ददर्शोत्पलगन्धयः ॥ 26 ॥

श्लोक 3.23.27

तां दृष्ट्वा सहसोत्थाय प्रोचुः प्राञ्जलयः स्त्रियः । वयं कर्मकरीस् तुभ्यं शाधि नः करवाम किम् ॥ 27 ॥

श्लोक 3.23.28

स्नानेन तां महार्हेण स्नापयित्वा मनस्विनीम् । दुकूले निर्मले नूत्ने ददुर् अस्यै च मानदाः ॥ 28 ॥

श्लोक 3.23.29

भूषणानि परार्ध्यानि वरीयांसि द्युमन्ति च । अन्नं सर्वगुणोपेतं पानं चैवामृतासवम् ॥ 29 ॥

श्लोक 3.23.30

अथादर्शे स्वम् आत्मानं स्रग्विणं विरजाम्बरम् । विरजं कृतस्वस्त्ययनं कन्याभिर् बहुमानितम् ॥ 30 ॥

श्लोक 3.23.31

स्नातं कृतशिरःस्नानं सर्वाभरणभूषितम् । निष्कग्रीवं वलयिनं कूजत्काञ्चननूपुरम् ॥ 31 ॥

श्लोक 3.23.32

श्रोण्योर् अध्यस्तया काञ्च्या काञ्चन्या बहुरत्नया । हारेण च महार्हेण रुचकेन च भूषितम् ॥ 32 ॥

श्लोक 3.23.33

सुदता सुभ्रुवा श्लक्ष्णस्निग्धापाङ्गेन चक्षुषा । पद्मकोशस्पृधा नीलैर् अलकैश् च लसन्मुखम् ॥ 33 ॥

श्लोक 3.23.34

यदा सस्मार ऋषभम् ऋषीणां दयितं पतिम् । तत्र चास्ते सह स्त्रीभिर् यत्रास्ते स प्रजापतिः ॥ 34 ॥

श्लोक 3.23.35

भर्तुः पुरस्ताद् आत्मानं स्त्रीसहस्रवृतं तदा । निशाम्य तद्योगगतिं संशयं प्रत्यपद्यत ॥ 35 ॥

श्लोक 3.23.36

स तां कृतमलस्नानां विभ्राजन्तीम् अपूर्ववत् । आत्मनो बिभ्रतीं रूपं संवीतरुचिरस्तनीम् ॥ 36 ॥

श्लोक 3.23.37

विद्याधरीसहस्रेण सेव्यमानां सुवाससम् । जातभावो विमानं तद् आरोहयद् अमित्रहन् ॥ 37 ॥

श्लोक 3.23.38

तस्मिन्न् अलुप्तमहिमा प्रिययानुरक्तो विद्याधरीभिर् उपचीर्णवपुर् विमाने &अम्प्; बभ्राज उत्कचकुमुद्गणवान् अपीच्यस् ताराभिर् आवृत इवोडुपतिर् नभःस्थः ॥ 38 ॥

श्लोक 3.23.39

तेनाष्टलोकपविहारकुलाचलेन्द्रद्रोणीष्व् अनङ्गसखमारुतसौभगासु । सिद्धैर् नुतो द्युधुनिपातशिवस्वनासु रेमे चिरं धनदवल्ललनावरूथी ॥ 39 ॥

श्लोक 3.23.40

वैश्रम्भके सुरसने नन्दने पुष्पभद्रके । मानसे चैत्ररथ्ये च स रेमे रामया रतः ॥ 40 ॥

श्लोक 3.23.41

भ्राजिष्णुना विमानेन कामगेन महीयसा । वैमानिकान् अत्यशेत चरल् लोकान् यथानिलः ॥ 41 ॥

श्लोक 3.23.42

किं दुरापादनं तेषां पुंसाम् उद्दामचेतसाम् । यैर् आश्रितस् तीर्थपदश् चरणो व्यसनात्ययः ॥ 42 ॥

श्लोक 3.23.43

प्रेक्षयित्वा भुवो गोलं पत्न्यै यावान् स्वसंस्थया । बह्व्आश्चर्यं महायोगी स्वाश्रमाय न्यवर्तत ॥ 43 ॥

श्लोक 3.23.44

विभज्य नवधात्मानं मानवीं सुरतोत्सुकाम् । रामां निरमयन् रेमे वर्षपूगान् मुहूर्तवत् ॥ 44 ॥

श्लोक 3.23.45

तस्मिन् विमान उत्कृष्टां शय्यां रतिकरीं श्रिता । न चाबुध्यत तं कालं पत्यापीच्येन सङ्गता ॥ 45 ॥

श्लोक 3.23.46

एवं योगानुभावेन दम्पत्यो रममाणयोः । शतं व्यतीयुः शरदः कामलालसयोर् मनाक् ॥ 46 ॥

श्लोक 3.23.47

तस्याम् आधत्त रेतस् तां भावयन्न् आत्मनात्मवित् । नोधा विधाय रूपं स्वं सर्वसङ्कल्पविद् विभुः ॥ 47 ॥

श्लोक 3.23.48

अतः सा सुषुवे सद्यो देवहूतिः स्त्रियः प्रजाः । सर्वास् ताश् चारुसर्वाङ्ग्यो लोहितोत्पलगन्धयः ॥ 48 ॥

श्लोक 3.23.49

पतिं सा प्रव्रजिष्यन्तं तदालक्ष्योशती बहिः । स्मयमाना विक्लवेन हृदयेन विदूयता ॥ 49 ॥

श्लोक 3.23.50

लिखन्त्य् अधोमुखी भूमिं पदा नखमणिश्रिया । उवाच ललितां वाचं निरुध्याश्रुकलां शनैः ॥ 50 ॥

श्लोक 3.23.51

सर्वं तद् भगवान् मह्यम् उपोवाह प्रतिश्रुतम् । अथापि मे प्रपन्नाया अभयं दातुम् अर्हसि ॥ 51 ॥

श्लोक 3.23.52

ब्रह्मन् दुहितृभिस् तुभ्यं विमृग्याः पतयः समाः । कश्चित् स्यान् मे विशोकाय त्वयि प्रव्रजिते वनम् ॥ 52 ॥

श्लोक 3.23.53

एतावतालं कालेन व्यतिक्रान्तेन मे प्रभो । इन्द्रियार्थप्रसङ्गेन परित्यक्तपरात्मनः ॥ 53 ॥

श्लोक 3.23.54

इन्द्रियार्थेषु सज्जन्त्या प्रसङ्गस् त्वयि मे कृतः । अजानन्त्या परं भावं तथाप्य् अस्त्व् अभयाय मे ॥ 54 ॥

श्लोक 3.23.55

सङ्गो यः संसृतेर् हेतुर् असत्सु विहितो ऽधिया । स एव साधुषु कृतो निःसङ्गत्वाय कल्पते ॥ 55 ॥

श्लोक 3.23.56

नेह यत् कर्म धर्माय न विरागाय कल्पते । न तीर्थपदसेवायै जीवन्न् अपि मृतो हि सः ॥ 56 ॥

श्लोक 3.23.57

साहं भगवतो नूनं वञ्चिता मायया दृढम् । यत् त्वां विमुक्तिदं प्राप्य न मुमुक्षेय बन्धनात् ॥ 57 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ